Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
७६
टिप्पनक-परागविवृतिसंवलिता। कौतुकविधायिनामवधिः, वीक्षितो विस्मयनीयानामन्तः, साक्षात्कृतमद्भुतानामास्पदम् , समासादितं महिनामायतनम् , अधिगतमगाधतानामधिष्ठानम् []। अहो, काष्ठाधिरूढधवलिम्नो जलप्राग्भारस्य प्रसादातिशयचित्रम् , यतो यतो दृष्टिरभिपतति ततस्ततश्चन्द्रिकामयमिव हिमानीमयमिव सुधामयमिव धरातलमालोकयति । किमेष तिमिरगुहान्तरूष्मणा विलीनेन वैताट्यशिखरिणा विस्तारितो रजतोपलजलप्रवाहः, किं वाऽहिलालाविषदूषणभयादिहानीय मलयाद्रिणा विनिहितो रसद्रवौघश्चन्दनानाम् , आहोस्विदमृतमथनोद्यतदेवासुरत्रासादत्र निक्षिप्तः क्षीरसिन्धुना सारः सुधाकोशः [ड] | कष्टं च कृतमिदं यदुपस्थिते मथनोपप्लवे पारिजातमृगलक्ष्मलक्ष्मीप्रभृतीनि रत्नान्यत्र न स्थापितानि, यदि पुनः प्रथममेवास्थापयिष्यत् तदा नैकस्य मन्दरस्य मन्दरशतानामपि न गोचरेऽभविष्यन् । इदं च हेमारविन्दसहस्रसुन्दरमपहाय हिरण्यगर्भग:कपङ्कजाङ्कितोदरं दामोदरवपुः किमर्थमाश्रितं श्रिया, केन वा कारणेन समग्रवरगुणोपेते सत्यस्मिन् पलितपाण्डुकरालशङ्खमण्डलो जलधिर्जगत्रयीतिलकभूतया जढुकन्यया वृतः पतिः [6] । व्यक्त
टिप्पनकम्-समग्रवरगुणोपेते सत्यस्मिन् पलितपाण्डुकरालशङ्खमण्डलः एकत्र वरः-भर्ता, अन्यत्र वरः-श्रेष्ठः, एकत्र पलितं शुभ्रमुद्भट शङ्खमण्डलं-शिरस एकदेशविशेषौ यस्य स तथोक्तः, अन्यत्र श्वेतकेशवद् गौरमुद्भटं शङ्खमण्डलं-कम्बुसंघातो यत्र स तथोक्तः [6] ।
विस्मयनीयानां विस्मयोत्पादकवस्तूनाम् , अन्तः सीमा, वीक्षितः दृष्टः, पुनः अद्भुतानां आश्चर्याणाम् , आस्पदं स्थानं, साक्षात्कृतम् , पुनः महिनां महत्त्वानाम्, आयतनं स्थानम् , समासादितं प्राप्तम् , पुनः अगाधतानां अतलस्पर्शतानाम् , अधिष्ठानं आस्पदम् , अधिगतं प्राप्तम् , अत्र सर्वत्र मयेति शेषः [] । काष्ठाधिरूढधवलिम्नः काष्ठाम्-उत्कर्षम्, अधिरूढः-प्राप्तः, धवलिमा-शुकता यस्य तादृशस्य, जलप्राग्भारस्य जलराशेः, प्रसादातिशयचित्रं खच्छतातिशयवैचित्र्यम् , अहो आश्चर्यम् , यतो यतः यत्र यत्र स्थाने, दृष्टिः चक्षुः, अभिपतति निपतति, ततस्ततः तत्र तत्र, चन्द्रिकामयमिव ज्योत्स्नापूर्णमिव, पुनः हिमानीमयमिव हिमसंघातव्याप्तमिव, पुनः सुधामयमिव सुधाप्रचुरमिव, धरातलं भूतलम् । अवलोकयति दर्शयति । एषः अयं, तिमिरगुहान्तरूष्मणा तिमिराणाम्-अन्धकाराणां, या गुहागिरिविवरम् , तस्याः, अन्धकारमयगुहाया इत्यर्थः, अन्तः-मध्ये, या ऊष्मा-तापः, तेन, विलीनेन द्रुतेन, वैताव्यशिखरिणा तदाख्यपर्वतेन, विस्तारितः स्यन्दितः, रजतोपलजलप्रवाहः रजतशिलाजलस्रोतः, किम् ?; किं वा, अहिलालाविषदषणभयात् अहीना-साणां, या लाला-स्यन्दिनी, तत्सम्बन्धिना विषेण यद् दूषणम्-उपघातः, तद्भयात् , इह अस्मिन् स्थाने, आनीय, मलयाद्रिणा मलयपर्वतेन, विनिहितः संस्थापितः, चन्दनानां रसद्रवौघः रसराशिः, किम् ?, आहोवित किं वा, अमृतमथनोद्यतदेवासुरत्रासात् अमृतमथनोद्यतेभ्यः-अमृतोद्धरणप्रवृत्तेभ्यः, देवेभ्यः, असुरेभ्यः-राक्षसेभ्यश्च त्रासात्-भयात् , क्षीरसिन्धुना क्षीरसागरेण, अत्र अस्मिन् स्थाने, निक्षिप्तः रक्षितः, सारः श्रेष्ठः, सुधाकोशः अमृतौघः ? [ड] । इदं कष्टं दुःखं, कृतं विहितं, यत् मथनोपप्लवे खमथनोपद्रवे, उपस्थिते, पारिजातमृगलक्ष्मलक्ष्मीप्रभृतीनि पारिजातः-देवतरुविशेषः, मृगलक्ष्मा–चन्द्रः, लक्ष्मी च, तत्प्रभृतीनि-तदादीनि, रत्नानि, अत्र अस्मिन् सरोवरे, न स्थापितानि निक्षिप्तानि, समुद्रेणेति शेषः, यदि पुनः यदि तु, प्रथममेव पूर्वमेव, अस्थापयिष्यत् तानि रत्नानि न्यक्षेप्स्यत्, समुद्र इति शेषः, तदा एकस्य अद्वितीयस्य, मन्दरस्य मन्दराचलस्य, न कथैव केत्यर्थः, मन्दरशतानामपि मन्दरसहस्रस्यापि, गोचरे विषये, मथितुं शक्यानीत्यर्थः, न अभविष्यन् भवेयुः, तानि रत्नानीति कर्तृपदमध्याहरणीयम् । च पुनः हेमारविन्दसहस्रसुन्दरं हेमारविन्दाना-सुवर्णकमलानां, सहस्रैः, सुन्दरं-मनोरमम् , इदं सरः, अपहाय, हिरण्यगर्भगर्भेकपङ्कजाङ्कितोदरं हिरण्यगर्भः-ब्रह्मा, गर्भे-मध्ये यस्य तादृशेन, एकेन-एकमात्रेण, पङ्कजेन, अङ्कितं-चिह्नितम् , उदरस्य तादृशं, दामोदरवपुः विष्णुशरीरं, श्रिया लक्ष्म्या, किमर्थ किं निमित्तम् , आश्रितं गृहीतम् ; वा यद्वा, समग्रवर
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202