Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 164
________________ १५२ टिप्पनक-परागविवृतिसंवलिता । र्थमुत्पादितं दैवेन नयनोत्पलद्वन्द्वमभिमुखं दर्शयन्तीम् [र], अच्छमणिवालुकापुलिनशङ्कया निशि ललाटमध्यमधिशयितस्य हिमकरकुरङ्गस्य शृङ्गकोटिभ्यामिव तिर्यगुभयतः पर्यस्ताभ्यामसितकुटिलायताभ्यां भ्रूवल्लरीभ्यामुद्भासिताम् , अधिकतरचारुतारोपणाय संचारयितुमतनिष्ठमोष्ठरुचकरागमिव लोचनान्तयोरनवरतकृतगतागतेनात्यन्तसुरभिणा श्वासपवनेन निबिडपुष्पापीडपरिमलहृतानि दूरादेव मधुकरकुलानि स्तम्भयन्तीम् [ल], अधिगतसमस्ताम्भोजगुणसंपदापि नखमणिमयूखोद्भासितेन दक्षिणेतरपाणिना गृहीतचारुपुटकिनीपत्रपुटामासन्नवल्लिविटपेषु पुष्पावचयमाचरन्तीम् , एकाकिनीमेकां बालिकामपश्यम् [व]| . तस्याश्च दिग्व्यापिना तेन दीप्तिपटलेन रूपलावण्ययौवनपुरोगैश्च मित्रभावमेकत्रागतैरङ्गलतागुणैनितान्तमानीतविस्मयोऽहं मनस्यकरवम् "ग्रहकवलनाद् भ्रष्टा लक्ष्मीः किमृक्षपतेरियं, मदनचकितापक्रान्ताऽब्धेरुतामृतदेवता। ___ गिरिशनयनोदचिर्दग्धान्मनोभवपादपाद्, विदितमथवा जाता सुभूरियं नवकन्दली ॥ १ ॥ टिप्पनकम्-रुचको-मणिः [ ल] । जयाय त्रिभुवनजयोद्देशेन, विहितयात्रस्य प्रयातस्य, मकरकेतोः कामदेवस्य, शकुनसम्पादनार्थ शुभसूचकनिमित्तसिद्ध्यर्थ, दैवेन भाग्येन, उत्पादितम् , आयतस्फारधवलोदरशोभिशफरद्वन्द्वमिव आयतेन-दीर्घेण, स्फारधवलेनअतिशुभ्रेण, उदरेण शोभनशील, शफरद्वन्द्वं-मत्स्यविशेषयुगलमिवेत्युत्प्रेक्षा [र] पुनः कीदृशीम् ? असितकुटिलायताभ्याम् असिताभ्यां- कृष्णवर्णाभ्यां, कुटिलाभ्यां- वक्राभ्याम् , आयताभ्यां- दीर्घाभ्यां च, भ्रूवल्लरीभ्यां नेत्रोपरितनरोमराजिलताभ्याम् , उद्भासिताम् उद्दीपिताम् , कीदृशीभ्याम् ? निशि रात्रौ, अच्छमणिवालुकापुलिनशङ्कया उज्वलमणिरूपवालुकापुलिनशङ्कया-उज्वलमणिरूपवालुकासम्बन्ध्यचिरजलनिर्गतस्थलशङ्कया, ललाटमध्यं भालमभ्यम् , अधिशयितस्य प्रसुप्तस्य, हिमकरकुरङ्गस्य चन्द्रमृगस्य. उभयतः भागद्वये, तिर्यक कुटिलं यथा स्यात् तथा, पर्यस्ताभ्यां प्रकीर्णाभ्यां, शृङ्गकोटिभ्यामिव शृङ्गाग्रभागाभ्यामिवेत्युत्प्रेक्षाः पुनः कीदृशीम् ? अधिकतरचारुतारोपणाय अत्यधिकसौन्दर्यसम्पादनाय, अतनिष्ठम् अतिसान्द्रम् ; ओष्ठरुचकरागम् रुचकाख्यरक्तमणिसदृशौष्टरक्तकान्ति, लोचनान्तयोः अपाङ्गप्रदेशयोः, सञ्चारयितुं संक्रमयितुम् अनवरतकृतगतागतेन निरन्तरकृतगमनागमनेन, पुनः अत्यन्तसुरभिणा अत्यन्तसुन्दरगन्धशालिना, श्वासपवनेन नासिकामारुतेन, निबिडपुष्पापीडपरिमलहृतानि निबिडेन-सान्द्रेण, पुष्पापीडेन पुष्पमयशिरोमाल्येन, हृतानि-आकृष्टानि, मधुकरकुलानि भ्रमरगणान् , स्तम्भयन्ती निवारयन्तीम् ; [ल] पुनः दक्षिणेतरपाणिना वामहस्तेन, गृहीतचारुपुटकिनीपत्रपुटां गृहीतं-धृतं, चारु-मनोहरं, पुटकिन्याः-कमलिन्याः, पत्रपुट-पुटाकारं पत्रं यया तादृशीम् , कीदृशेन ? अधिगतसमस्ताम्भोजगुणसम्पदापि अधिगता-गृहीता, समस्ता-सममा, अम्भोजस्यकमलस्य, गुणसम्पत्-गुणसमृद्धिर्येन तादृशेनापि, नखमणि द्रासितेन न सूर्यकिरणविकासितेन इति विरोधः, तत्परिहारस्तु-नखरूपाणां मणीनां मयूखैः-किरणैः, उद्भासितेन-उज्ज्वलितेन; पुनः कीदृशीम् ? आसन्नवल्लिविटपेषु सन्निहितलतावृक्षेषु, पुष्पावचयं पुष्पत्रोटनम् , आचरन्तीं कुर्वती, पुनः एकाकिनीम् असहायाम् [व]। च पुनः, तस्याः प्रकृतबालिकायाः, दिग्व्यापिना दिग्विस्तारिणा, तेन अनुपदमनुभूतेन, दीप्तिपटलेन कान्ति कलापेन, च पुनः, रूपलावण्ययौवनपुरोगैः रूपसौन्दर्यतारुण्यप्रमुखैः, एकत्र तदीयशरीररूपे एकस्मिन् स्थाने, मित्रभावं मित्रताम् , आगतैः आपन्नैः, अङ्गलतागुणैः लताकाराङ्गगुणेः, नितान्तम् अत्यन्तम् , आनीतविस्मयः अनुभाविताश्चर्यः, अहं हरिवाहनः, मनसि वहृदि, अकरवम् आलोचयम् । इयं पुरोवर्तिनी तरुणी, ग्रहकवलनाद राहुग्रहकर्तृकाद् ग्रासाद्, भ्रष्टा अधश्च्युता, ऋक्षपतेः ताराधिपतेः, चन्द्रस्येत्यर्थः, लक्ष्मीः-शोभा, किम् ? उत अथवा, मदनचकिता मन्मथसम्भ्रान्ता, अत एव, अब्धेः समुद्रात् , अपक्रान्ता निर्गता, अमृतदेवता पीयूषाधिष्ठात्री देवता, विदितं ज्ञातं, यत , इयं पुरोवर्तिनी, सुभ्रूः सुष्ठु ध्रुवौ नेत्रोपरितनरोमराजी "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202