Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 196
________________ १८४ टिप्पनक - परागविवृतिसंवलिता । पुरुषाः, कच किंनामधेयोऽयमेषां मध्यवर्ती मर्त्यलोक इव जगतां मेरुरिव मेदिनीभृतां महात्मा भूमिपतिः [य] | इति पृष्टा च सा निश्चलनिहितदृष्टिरतिचिरमवलोक्य मन्मुखं सकरुणमवादीत् - 'वत्से ! किमन्यदेशादागता त्वम्, अत्रत्या न भवसि येनैवमभिदधासि शृणु, निवेदयामि । एष भूषणं सर्वद्वीपानां पञ्चशैलो नाम दक्षिणस्य सलिलराशेरन्तरद्वीपः, इमेऽपि सत्त्वसाहसैकधनाः प्रसाधनाराधनविधिविधेयीकृतविविधविद्य संपादितात्यद्भुतसिद्धयो वैताढ्यगिरिनगराश्रया गगनचारिणो विद्याधराः, असावप्यमीषामधिपतिः प्रतापिनामग्रणीर्धर्म इव मूर्तिमानार्तजनशरण्यः शासिता दुर्वृत्तानां निर्वृतिपुरं भीतानामद्भुतपराक्रमचक्रवर्ती विचित्रवीर्यो नाम [र] | अथ सहसैव कनकवेत्रलतापाणिरेकः पुमानुदारगम्भीराकृतिरुपसृत्य तं विद्याधरपति व्यजिज्ञपत्'देव ! दीयतामितः क्षणं दृष्टिः, येयमभिनवप्रियङ्गमञ्जरीपिशङ्गावदातदेहा कनककमलचापयष्टिरिव हरहुता - शनष्प्लुष्टसकलमलकलङ्का कुसुमकार्मुकस्य निजत्विषा तिरस्करोतीव मणिप्रदीपान् इयमखिलावनिपालतिल पुरुषाः नराः, के ?; पुनः जगतां भुवनानां मर्त्यलोक इव मर्त्यभुवनमिव पुनः मेदिनीभृतां पर्वतानां पक्षे नृपाणाम्, मेरुरिव सुमेरुगिरिरिव, एषां पुरुषाणां, मध्यवर्ती मध्यस्थः, पुनः महात्मा पूज्यात्मा, अयं प्रत्यक्षवर्ती, भूमिपतिः नृपः कः ?, च पुनः, किन्नामधेयः किन्नामकः ? [य] । इति इत्थं, पृष्टा जिज्ञासां विज्ञापिता, सा प्रकृतस्त्री, निश्चलनिहितदृष्टिः स्थिरारोपितलोचना, अतिचिरम् अतिदीर्घकालम्, मन्मुखं मदीयवदनम्, अवलोक्य दृष्ट्वा, सकरुणं सदयं यथा स्यात् तथा, अवादीत् उक्तवती, वत्से ! पुत्रि !, त्वम्, अन्यदेशादागता विदेशादागता अत्रत्या एतद्देशीया, न भवसि वर्तसे किम् ? येन यस्माद्धेतोः, एवम् उक्तप्रकारेण अभिदधासि ब्रवीपि, पृच्छसीत्यर्थः, शृणु, निवेदयामि विज्ञापयामि, सर्वद्वीपानां सकलजलमध्यवर्तिप्रदेशानां भूषणम् अलङ्करणभूतः, एषः अयम्, पञ्चशैलो नाम तत्संज्ञकः, दक्षिणस्य दक्षिणदिगवस्थितस्य, सलिलराशेः समुद्रस्य, अन्तरद्वीपः मध्यवर्तिद्वीपः अस्तीति शेषः पुनः इमेऽपि प्रत्यक्षवर्त्तिनः पुरुषा अपि, सत्त्वसाहसैकधनाः सत्त्वं - पराक्रमः, साहसं - दुष्कर कार्यकारिता, ते एक प्रधानं धनं येषां तादृशाः, पुनः प्रसाधनाराधनविधिविधेयीकृत विविधविद्यासम्पादितात्यद्भुतसिद्धयः प्रसाधनं नाम-विद्याssराधनानुगुण वेषविन्यासः, आराधनं नाम-विद्यानां समीहितसिद्धिसम्पादनौन्मुख्याधानं, ताभ्यां विधिभ्यां - क्रियाभ्यां विधेयीकृताभिः - वशीकृताभिः, विविध विद्याभिः - अनेकविध विद्याभिः सम्पादिताः - जनिताः - अत्यद्भुताः - अत्याश्चर्यावहाः, सिद्धयःअणिमादयो येषां तादृशाः, पुनः वैताढ्यगिरिनगराश्रयाः वैताढ्यनामकपर्वतान्तर्गतनगर निवासिनः, पुनः गगनचारिणः आकाशविहारिणः, विद्याधराः सन्तीति शेषः; असावपि सोऽपि तन्मध्यवर्त्यपीत्यर्थः, अमीषां तेषां विद्याधराणाम्, अधिपतिः प्रभुः, पुनः प्रतापिनां कोशदण्डज तेजस्विनाम्, अग्रणीः नायकः, पुनः मूर्तिमान् शरीरवान्, धर्म इवेत्युत्प्रेक्षा, आर्तजनशरण्यः विपन्नजनरक्षकः, दुर्वृत्तानां दुश्चरित्राणां शासिता निग्रहीता, पुनः भीतानां शत्रुत्रस्तानां निर्वृतिपुरं सुखस्थानम्, अभयप्रद इत्यर्थः पुनः अद्भुतपराक्रमचक्रवर्ती अद्भुतपराक्रमेण - लोकोत्तरविक्रमेण, चक्रवर्ती-अखण्डलभूमण्डलेश्वर इव, विचित्रवीर्यो नाम तत्संज्ञकः, अस्तीति शेषः [र] | अथ अनन्तरं, कनकवेत्रलतापाणिः सुवर्णमयदण्डात्मकलतामण्डितहस्तः, पुनः उदारगम्भीराकृतिः उदाराप्रधाना, गम्भीरा - विस्तृता च, आकृतिः - शरीरं यस्य तादृशः, एकः पुमान् पुरुषः, सहसैव शीघ्रमेव, उपसृत्य उपस्थाय तं विचित्रवीर्यनामानं विद्याधरपतिं, व्यजिज्ञपत् विज्ञापितवान्-देव ! प्रभो !, इतः अस्मिन् दृश्यमानकन्यकान्दे इत्यर्थः, क्षणं कञ्चित् कालं यावत्, दृष्टिः चक्षुः, दीयतां प्रक्षिप्यताम् । अभिनवप्रियमञ्जरी पिशङ्गावदातदेहा अभिनवानूतना, या प्रियङ्गुमञ्जरी - प्रियङ्गुनामकलतासम्बन्धिनी नवाङ्कुरश्रेणी तद्वत्, पिशङ्गः- पीतवर्णः, अवदातः विशुद्धश्च देहो यस्यास्तादृशी पुनः हरहुताशनप्लुष्टसकलमलकलङ्का हरहुताशनेन - शिवनेत्राग्निना, पुष्टः- दग्धः सकलमलकलङ्कः-समग्रमलरूपः कलङ्को यस्यास्तादृशी, कुसुमकार्मुकस्य पुष्पधन्वनः, कामदेवस्येत्यर्थः, कनककमलचापयष्टिरिव सुवर्णकमलरूपधनुर्दण्ड इवेत्युत्प्रेक्षा, या, इयं पुरोवर्तिनी, कन्यका, निजत्विषा स्वकान्त्या, मणिप्रदीपान् मणिरूपान् प्रदीपान् तिर "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202