Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१८७
प्राजापत्या अपि पराजयन्तेऽन्तःपुरिकाजनस्य रूपम् , कुरूपा अप्यप्सरायन्ते स्त्रियः, वचनचातुर्य तु ते जन्मान्तराभ्यस्तमिव शरीरेणैव सार्धमाविर्भूतम् , अर्भकत्वेऽपि भुजङ्गजनगोष्ठीषु परां प्रतिष्ठामागतासि, प्रागल्भ्येन स्वभावमधुराः सर्वजनहृदयहारिणः क्षणमात्रपरिचितेऽपि जने जनितनिर्भरविश्रम्भाः कस्य नाम न विस्मयमावहन्ति कं वा विधेयं न कुर्वन्त्यपूर्वाभिर्भङ्गिभिरुद्भासिताः पदे पदे तव विनोदकथालापाः । कथयामि वाग्मिनि ! विवक्षितम् , या इमाः पवनगतिना संप्रत्युपदर्शिताः कन्यकाः, इमाः खलु निखिला अपि भारतक्षेत्रदक्षिणार्धमध्यमखण्डवासिनां मण्डलपतीनामात्मजाः, कथञ्चिदवगतस्वरूपैरेवं रूपवत्य एवं कलाकुशला इति पूर्वमेव निवेदिता विद्याधरैरानीताश्च संप्रति कुतूहलतरलितैरलङ्कर्तुमिमं यात्रोत्सवम् , अत्र चास्य भगवतश्चराचरगुरोरभिषेकमङ्गलानन्तरमेव प्रवर्तयिष्यन्ति संगीतकम् [क्ष] । अतस्तथा प्रसाधय, प्रसादय च यथैताः शिथिलयन्ति स्त्रीस्वभावसुलभं साध्वसम् , विस्मरन्त्याकस्मिकबन्धुजनवियोगजनितमुद्वेगम् , आसादयन्ति परतत्रतादर्शनदूरीकृतं प्रमोदम् , गृहन्ति महाजनसमाजलज्जास्तम्भितं लास्यलीला
चतुरप्रसाधनाः रचितं-सम्पादितं, चतुरं-मनोहरं, प्रसाधनं-मण्डनं येषां तादृशाः, परिणतवयसोऽपि जीर्णवयस्का अपि, सद्यः तत्क्षणं, तरुणतां युवतां, प्रतिपद्यन्ते प्राप्नुवन्ति; प्राजापत्या अपि सामान्या अपि, अन्तःपुरिकाजनस्य अन्तःपुरस्त्रीजनस्य, रूपम् आकृति, पराजयन्ते, तिरस्कुर्वन्ति, कुरूपा अपि कुत्सितरूपा अपि स्त्रियः, अप्सरायन्ते अप्सरसः-स्वर्वैश्याः, ता इवाचरन्ति । ते तव, वचनचातुर्य वाग्वैदग्ध्य, वाग्मित्वमित्यर्थः, तु, जन्मान्तरा भ्यस्तमिव पूर्वपूर्वजन्माभ्यस्तमिव, शरीरेणैव सार्धं सह आविर्भूतं प्रकटितं, खभावसिद्धमित्यर्थः; अर्भकत्वेऽपि बाल्येऽपि, भुजङ्गजनगोष्ठीषु विटजनसभासु, प्रागल्भ्येन धायेण, पराम् अत्यन्तां, प्रतिष्ठां सम्मानम् , आगता प्राप्ता, असि वर्तसे । स्वभावमधुराः अकृत्रिममाधुर्यशालिनः, पुनः सर्वजनहृदयहारिणः सकलजनहृदयाकर्षण शीलाः, पुनः क्षणमात्रपरिचितेऽपि क्षणमात्रं-मुहूर्तमात्रमपि यः परिचितः-विज्ञातकुलशीलादिः, तादृशेऽपि जने जनितनिर्भरविश्रम्भाः उत्पादितनिश्चलविश्वासाः, पुनः अपूर्वाभिः अननुभूतपूर्वाभिः, भङ्गिभिः चमत्कृतिभिः, पदे पदे प्रत्येकपदे, उद्भासिताः उद्दीपिताः, तव विनोदकथालापाः मनोऽनुरञ्जककथासम्बन्धिन आलापाः-आभाषणानि, नामेति वाक्यालङ्कारे, कस्य जनस्य, विस्मयम् आश्चर्य, न आवहन्ति अनुभावयन्ति, वा अथवा, के जनं विधेयं ववश्यं, न कुर्वन्ति सम्पादयन्ति। वाग्मिनि! प्रशस्तवाग्वैभवशालिनि !, विवक्षितं वक्तुमिष्टं वृत्तान्तं, कथयामि विज्ञापयामिपवनगतिना अन्वर्थतन्नाम्ना विद्याधरेण, इमाः पुरोवर्तिन्यः, याः कन्यका उपदर्शिताः आनीय दृष्टिपथमवतारिताः, खलु निश्चयेन, ताः निखिला अपि समस्ता अपि, इमाः कन्यकाः कुमार्यः, भारतक्षेत्रदक्षिणार्धमध्यमखण्डवासिनां भारतक्षेत्रस्य-भारतवर्षस्य, यो दक्षिणार्धः-दक्षिणोऽर्धभागः, तस्य यो मध्यमः-मध्यवती खण्डः-भागः, तद्वासिनां, मण्डलपतीनां मण्डलाधिपानाम् । आत्मजाः सुताः, सन्तीति शेषः । कथश्चित् केनापि प्रकारेण, अवगतस्वरूपैः विज्ञाततत्तत्कन्यकास्वरूपैः, विद्याधरैः, एवं रूपवत्यः ईदृशस्वरूपाः, एवं कलाकुशला ईदृक्कलाकौशलवत्यः, ताः कन्यका इति शेषः, इति इत्थं, पूर्वमेव आनयनात् प्रागेव, निवेदिताः विज्ञापिताः, च पुनः, कुतूहलतरलितैः औत्सुक्योद्वेलितः इमम् अनुपदप्रवर्तमानं, यात्रोत्सवं भगवदभिषेकमङ्गलयात्रोत्सवम् , अलङ्कर्तुं सम्प्रति आनीताः उपस्थापिताः । अत्र अस्मिन् स्थाने, चराचरगुरोः स्थावरजङ्गमाधिष्ठातुः, भगवतः जिनेन्द्रस्य, अभिषेकमङ्गलानन्तरमेव स्नपनमङ्गलाव्यवहितोत्तरकालमेव, सङ्गीतकं प्रेक्षणक, प्रवर्तयिष्यन्ति प्रारप्स्यन्ते, इमाः कन्यका इति शेषः [क्ष]। अतः अस्माद्धेतोः, तथा तेन प्रकारेण, प्रसाधय अलङ्कुरु, च पुनः, प्रसादय प्रमोदय, उल्लासयेति यावत्, यथा एताः इमाः कन्यकाः, स्त्रीस्वभावसुलभ स्त्रीणां प्रकृतिसिद्धं, साध्वसं भयं, शिथिलयन्ति मान्द्यमापादयन्ति; पुनः आकस्मिकबन्धुजनवियोगजनितम आकस्मिकेन-अतर्कितोपनतेन, बन्धुजन वियोगेन-मातापित्रादिविरहेण, जनितम्-उत्पादितम्, उद्वेगं तत्सङ्गमौत्सुक्यातिरेकं, विस्मरन्ति उपेक्षन्ते; पुनः परतन्त्रतादर्शनदूरीकृतं पारवश्यानुभवनिराकृतं, प्रमोद प्रसादम् , आसादयन्ति अनुभवन्ति; पुनः महाजनसमाजलज्जास्तम्भितं महाजनसमाजात्-सभ्य जनसमूहात्, या लज्जा तया
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 197 198 199 200 201 202