Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________ 190 टिप्पनक-परागविवृतिसंवलिता / च नृत्यकर्मणि कृतरङ्गप्रणामामधिगताधिकोल्लासैः श्रमश्वासोद्गमैः किञ्चित्सायासकुचमण्डलामुल्लसितविरलस्वेदाम्बुकणकर्बुरीकृतकपोलपत्रभङ्गां चित्रलेखायाः समीपे निविशमानामाहूय दर्शितावकाशः स विद्याधरराजराजो निजासनस्यैकदेशे मामुपावेशयत् [ई] / निविष्टायाश्च मे शङ्कासंकोचिततनोरवनितलनिहितनिस्तरङ्गदृष्टेनर्तनायासविघटितसंनिवेशं संयम्य हस्ताभ्यां केशहस्तमारोप्य विस्रस्तमीषद्विलासावतंसपल्लवं श्रवसि किञ्चिदावलितकन्धरो दक्षिणकराङ्गुलियुगेनोन्नमय्य चिबुकदेशे त्रपाभरावनतमाननं सबहुमानमभ्यधित-'वत्से ! मलयसुन्दरि ! दूरमावर्जितानि त्वया सामाजिकमनांसि, कथय कुतस्तवेदृशस्यास्य विद्याधरलोकेऽप्यतिविरलप्रचारस्य सकलखेचरचमत्कारकारिणो नाट्यवेदस्याधिगतिः, कथं शिक्षिता स्वल्पेन कालेन ललितानेतावतः करणप्रयोगान', केन संक्रमिता कृतिनां वरेण समस्तरङ्गरागहेतुरियमङ्गहाराणां गतिः, अतिमहत् कुतूहलं मे, न हि कदाचित् क्षितिचारिणीष्वबलासु दृष्टा श्रुता वास्माभिरेवंविधा वैदग्धी नाट्यकर्मणि' इति स्तुताऽहं खेचराधिपेनाधिकमधोमुखीभूय लज्जया पाणिनखशिखाभिः क्षोणिमलिखम् [उ] / टिप्पनकम्-सामाजिकाः सभ्याः [उ] / नृत्यं कत्तुं, प्रवृत्ता व्यापृता [इ]। च पुनः, नृत्यकर्मणि अवसिते समाप्ते सति, सः प्रकृतः, विद्याधरराजराजः विद्याधरचक्रवर्ती, माम् , आहूय स्वान्तिकागमनादेशवाक्येन स्वसमीपमानीय, दर्शितावकाशः निर्दिष्टस्थानः, निजासनस्य स्वकीयोपवेशनाधारस्य, एकदेशे एकभागे, उपावेशयत् उपवेशितवान् , कीदृशीम् ? कृतरङ्गप्रणामां कृतनृत्यभवनाभिवाद. नम् , पुनः अधिगताधिकोल्लासैः अधिगतः-प्राप्तः, अधिकः, उल्लासः-वृद्धिस्तादृशैः, श्रमश्वासोद्गमैः श्रमजन्यमुखनासिकापवननिष्क्रमणैः, किश्चित्सायासकुचमण्डलां किञ्चित्सायासम्-ईषच्छान्तं, कुचमण्डलं-स्तनमण्डलं यस्यास्तादृशीम् , पुनः उल्लसितविरलस्वेदाम्बुकणकर्बुरीकृतकपोलपत्रभङ्गाम् उल्लसितैः-उद्गतैः, विरलैः-असान्द्रः, स्वेदाम्बुकणैःस्वेदजलबिन्दुभिः, कर्बुरीकृतः-चित्रितः, कपोलयोः - गण्डमण्डलयोः, पत्रभङ्गः-पत्राकाररचना यस्यास्तादृशीम्, पुनः चित्रलेखायाः तदाख्यप्रसाधिकायाः, समीपे निविशमानाम् उपविशन्तीम् [ई। च पुनः, निविष्टायाः उपविष्टायाः, पुनः शङ्कासंकोचिततनोः शङ्कया-नृत्यान्यथात्वसन्देहेन, सङ्कोचिता लिता, तनु:-शरीरं यया तादृश्याः, पुनः अवनितलनिहितनिस्तरङ्गहष्टेः अवनितले-भूतले, अधस्तादित्यर्थः, निहितेआरोपिते, निस्तरङ्गे-स्थिरे, दृष्टी-नयने यया तादृश्याः, मे मम, नर्तनायासविघटितसन्निवेशं नर्तनायासेन-नृत्यश्रमेण, विघटितः-विश्लिष्टः, सन्निवेशः-विन्यासो यस्य तादृशं, केशहस्तं केशसमूह, हस्ताभ्यां स्वकराभ्यां, संयम्य संघटय्य, पुनः ईषत् किञ्चित् , विस्रस्तं विस्खलितं, विलासावतंसपल्लवं विलासविधौ भूषणभूतं पल्लवं, श्रवसि कर्णे, आरोग्य निवेश्य, किञ्चिदावलितकन्धरः ईषद क्रितग्रीवः सन्, त्रपाभरावनतं त्रपाभरेण-लज्जातिशयेन, अवनतम्-अधोगतम् , आननं मुखं, दक्षिणकराङ्गलियुगेन दक्षि गहस्तसम्बन्धिना अङ्गुलिद्वयेन, चिबुकदेशे ओष्ठाधःप्रदेशे, उन्नमय्य उन्नतीकृत्य सबहुमानं बहुमानपूर्वकम् , अभ्यधित उक्तवान्-वत्से ! पुत्रि!, मलयसुन्दरि !, त्वया समाजिकमनांसि दर्शकसमाजसमवेतजनहृदयानि, दरं दूरात् , आवर्जितानि आकृष्टानि / कथय ब्रहि, ईदृशस्य एवंविधस्य, विद्याधरलोकेऽपि विद्याघट देशेऽपि, अतिविरलप्रचारस्य अत्यल्पप्रचारस्य, पुनः सकलखेचरचमत्कारकारिणः समस्तविद्याधरमनोविनोदकारिणः, अस्य अनुपदमनुभूतस्य, नाट्यवेदस्य नाट्यविद्यायाः, कुतः कस्मात् नाट्याचार्यात् , तव, अधिगतिः अध्ययनं, शिक्षेत्यर्थः, ललितान् , मनोहरान् , एतावतः एतत्प्रमाणकान्, करणप्रयोगान् नाट्यप्रयोगान् , स्वल्पेन अत्यल्पेन, कालेन, कथं केन प्रकारेण, शिक्षिता अधीतवती; समस्तरङ्गरागहेतुः समस्तस्य-समग्रस्य, रङ्गस्य-नृत्यस्थानस्य, यो रागः-छविः, सौन्दर्यमिति यावत् , यद्वा तस्मिन् यो राग:-प्रीतिः, तस्य हेतुः, इयम् अनुपदमेवानुभूता, अङ्गहाराणां नृत्यानां, गतिः प्रकारः, केन, कृतिनां नृत्यविद्याविदां, वरेण श्रेष्ठेन, संक्रमिता प्रज्ञायां प्रवेशिता, विज्ञापितेत्यर्थः, मे मम, अतिमहत् अत्यधिकं, कुतूहलं जिज्ञासितविषयज्ञानोत्सुक्यम् , अस्तीति शेषः, हि यतः, अस्माभिः, क्षितिचारिणीषु भूमिगोचरासु, अबलासु स्त्रीषु, एवंविधा ईदृशी, नाट्यकर्मणि नृत्यकार्यविषयिणी, वैदग्धी नैपुणी, कदाचित् कदापि न दृष्टा चाक्षुषप्रत्यक्षगोचरीकृता, वा अथवा, श्रुता, इति इत्थं, खेचराधिपेन विद्याधरराजेन, अधिकम् अत्यन्तं, "Aho Shrutgyanam"
Loading... Page Navigation 1 ... 200 201 202