Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१८९ पात्रधारिण्यः काश्चिद् गृहीतगन्धोदकभृङ्गारा वारयुवतयः [अ] । क्षणेन च प्रथमतरकलशवारिप्रवाहपतनशंसी समकालचलितोभयपक्षताडितनितम्बावलम्बितगर्जन्मेघमुरजैर्भक्तितो दत्तसमहस्तैरिव निशम्यमानः साध्वसादूर्ध्वमुत्पतद्भिरुदधिगोचरैर्गिरिविहङ्गैस्खासतरलिततीरशायिमहानक्रचक्रवालहेलापतनदूरोच्छलितभूरिजलनिवहेन सहसोत्थाय निपुणं निरूप्यमाण इव पुनरप्यमृतमथनोत्प्रेक्षिणा मकराकरेण मुखरीचकार दिक्चक्रमक्रमाहतानां दिव्यतूर्याणामदृष्टमर्यादो नादः [आ] । क्रमेण च समाप्ते परमदेवस्य मज्जनविधौ, निर्मापिते सविस्तरं पूजाकर्मणि, प्रवर्तिते सविस्तरं, गायकगणेन मधुमृदङ्गध्वनिमिश्रे विश्राणितश्रावकश्रोत्रमुदि मङ्गलगीतध्वनौ, प्रनृत्तासु पर्यायेण तासु क्षितिपालकन्यकासु, क्षीणभूयिष्ठायां क्षपायामहं चित्रलेखया विरचितविचित्रवेषा प्रभाबद्धपरिवेषैः प्रलघुभिर्मणिभूषणैः समन्तादलंकृतमनुल्बणधृताङ्गरागमङ्गं दधाना रङ्गमध्यमध्यासितवती, प्रवृत्ता च सखीभिरिव साकं प्रेक्षकमनोवृत्तिभिः प्रनर्तितुम् [इ]। अवसिते टिप्पनकम्-गिरिविहङ्गाः-पर्वतागारपक्षिणः [आ]।
संवृत्ताः; च पुनः काश्चित् कतिचित् वारयुवतयः, कुसुमपटलकहस्ताः पुष्पपुजपूर्णहस्ताः, पुनः कश्चित् कतिचित्, अनुलेपनपात्रधारिण्यः चन्दनपात्रहस्ताः, पुनः काश्चित् कतिचित्, गृहीतगन्धोदकभृङ्गाराः गृहीतः - उद्धृतः, गन्धोदकस्य-सुगन्धिजलस्य, तादृशजलपूर्ण इत्यर्थः, भृङ्गारः-सुवर्णमयजलपात्रं याभिस्तादृश्यः, वारयुवतयः, ससम्भ्रमं सत्वरम् , इतस्ततः अत्र तत्र, बभ्रमुः भ्रान्ताः [अ]। च पुनः, क्षणेन क्षणमात्रेण, दिव्यतूर्याणां महोत्तमवाद्यविशेषाणाम् , अदृश्यमर्यादः अदृष्टावधिः, नादः शब्दः, दिक्चक्रं दिमण्डलं, मुखरीचकार वाचालयामास, कीदृशानाम् ? अक्रमाहतानां युगपत्ताडितानाम् । कीदृशः? प्रथमतरकलशवारिप्रवाहपतनशंसी प्रथमतरस्य-सर्वप्रथमस्य, कलशस्यअभिषेकार्थकुम्भस्य, यः, वारिप्रवाहः-जलनिर्झरः, तत्पतनशंसी-तत्पतनसूत्रकः, पुनः उदधिगोचरैः समुद्रे विहरणशीलैः गिरिविहङ्गः पर्वतागारपक्षिभिः, निशम्यमानः श्रूयमानः, कीदृशैः? समकालचलितोभयपक्षताडितनितम्बावलम्बितगर्जन्मेघमुरजैः समकालचलितेन-युगपत् कम्पितेन, उभयपक्षेन-पक्षद्वयेन, ताडितः-आहतः, नितम्बावलम्बितः-कटिपश्चाद्देशविधृतः, गर्जन् मेघ एव मुरजः-मृदङ्गो यैस्तादृशैः, पुनः चलितः प्रीत्या, दत्तसमहस्तैरिव समर्पितसमानवृत्तिकहस्तैरिवेत्युत्प्रेक्षा, पुनः साध्वसात् भयात् , ऊर्ध्वम् आकाशदेशम् , उत्पतद्भिः उड्डीयमानैः, पुनः मकराकरेण समुद्रेण, सहसा शीघ्रम् , उत्थाय प्रबुध्य, निपुणं सावधानं, निरूप्यमाण इव खमथनध्वनित्वेनावधार्यमाण इवेत्युत्प्रेक्षा, कीदृशेन ? त्रासतरलिततीरशायिमहानचक्रवालहेलापतनदूरोच्छलितभूरिजलनिवहेन त्रासतरलितस्यभयसम्भ्रान्तस्य, तीरशायिनः-तीराधिकरणकशयनशीलस्य, महानकचक्रवालस्य-बृहदाकारनकजातीयजलजन्तुमण्डलस्य, हेलयालीलया, पतनेन-जले निपातेन, दूरम्, उच्छलितः-उत्क्षिप्तः, भूरिजलनिवहः-प्रचुरजलराशियेस्य तादृशेन, पुनः, पुनरपि द्वितीयवारेऽपि, अमृतमथनोत्प्रेक्षिणा स्वरक्षितामृतमन्थनसम्भाविना [आ]।
परमदेवस्य परमेश्वरस्य, जिनेन्द्रस्येत्यर्थः, मज्जनविधौ अभिषेककर्मणि, क्रमेण यथाक्रम, समाप्ते निष्पन्ने सति, पुनः पूजाकर्मणि तदर्चाकार्ये, सविस्तरं विस्तरपूर्वकम् , निर्मापिते निष्पादिते सति, पुनः गायकगणेन गायकसमूहेन, मङ्गलगीतध्वनौ मङ्गलगानध्वनौ, प्रवर्तिते प्रारब्धे सति, कीदृशे ? मधुरमृदङ्गध्वनिमिश्रे श्रवणहारिमृदङ्गनादसंकीर्णे, पुनः विश्राणितश्रावकश्रोत्रमुदि विश्राणिता-दत्ता, सम्पादितेत्यर्थः, श्रावकाणां-श्रोतृणां, श्रोत्रमुत्-श्रवणेन्द्रियानन्दो येन तादृशे, पुनः तासु अनुपदवर्णितासु क्षितिपालकन्यकासु नृपकुमारिकासु, पर्यायेण क्रमेण, प्रनृत्तासु कृतोत्कृष्ट नृत्यासु सतीषु, क्षीणभूयिष्ठायां क्षीणः-व्यतीतः, भूयिष्ठः-बहुतरभागो यस्यास्तादृश्याम् , अल्पावशिष्टायामित्यर्थः, क्षपायां रात्रौ, चित्रलेखया तदाख्यप्रसाधिकया, विरचितविचित्रवेषा विरचितः-निर्मापितः, विचित्र:-आश्चर्यजनको वेषो यस्यास्तादृशी, प्रभाबद्धवेषैः प्रभाभिः-द्युतिभिः, बद्धः-रचितः, परिवेषः-मण्डलं यैस्तादृशैः, प्रलघुभिः अतिसूक्ष्मैः, मणिभूषणैः रत्नमयालङ्करणैः, समन्तात् सर्वतः, अलङ्कृतम् , पुनः अनुल्बणधृताङ्गरागम् अनुल्बणः-अनुत्कटः, धृतः, अङ्गरागः-अङ्गविलेपनं येन तादृशम् , अङ्गं शरीरं, दधाना धारयन्ती, अहं, रङ्गमध्यं नृत्यभवनाभ्यन्तरम् , अध्यासितवती अध्यतिष्ठम् ; च पुनः, सखीभिरिव सहचरीभिरिव, प्रेक्षकमनोवृत्तिभिः दर्शकजनचित्रवृत्तिभिः, साकं सह, प्रनर्तितुं प्रकर्षण
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 199 200 201 202