Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१८८
टिप्पनक-परागविवृतिसंवलिता । भ्युपगमम् , अवतरन्त्यनाकुलाभिरङ्गयष्टिभिरङ्गीकृतशृङ्गारचेष्टारङ्गभूमिम् , अभिनयन्ति सम्यगभिनेयमर्थजातम् , आरोपयन्ति प्रेक्षकजनस्य प्रमोदमग्रभूमिम् , आवहन्ति च सहृदयहृदयवर्तिनो रसस्य परमं परिपोषम् , एष ते प्रकाशयितुमतिचिरकालं शिक्षितं प्रसाधनकर्म वचनवैचक्षण्यं च क्षणः' । इति स्मिताननेनाभिहिता नभश्चरभूमिपालेन सा विलासिनी सहासविकसितेक्षणा तत्क्षणमेवोदतिष्ठत् , अन्वतिष्ठच्च सर्वं यथादिष्टम् []।
___ अत्रान्तरे समारभ्यत त्रिभुवनैकभर्तुरभिषेकमङ्गलविधिः, व्यधीयन्त वैणिकैरितस्ततः प्रहततत्रीपरीक्षितकलध्वनिभिर्निश्चलाः कला वल्लकीषु, वितीर्णविविधमार्जनानि सजान्यक्रियन्त नानावादित्राणि भरतपुत्रैः, निचुलकाकृष्टप्रकृष्टवेणवोऽगायनीगणमुपाविशन , वांशिकाः, प्रक्षालनपवित्रपाणिभिरुपानीयन्त पानीयेन सकलतीर्थाहतेन पूरिताः शातकुम्भकुम्भाः पुंभिः, उत्तम्भिताभिषेककाञ्चनकुम्भा इवाभोगशालिभिः पयोधरैरुपलक्ष्यमाणा बभूवुरासन्नाः, बभ्रमुश्च ससंभ्रममितस्ततः काश्चित् कुसुमपटलकहस्ताः काश्चिदनुपलेन
टिप्पनकम्-प्रतिकर्म मण्डनम् । प्राजापत्याः सामान्याः । विश्रम्भः-विश्वासः । संगीतकं प्रेक्षणकम् [१] । क्षणः प्रस्तावः [ज्ञ] । कलाः काष्ठानि । मार्जनं-भोजनम् निचुलकः-निउलकः [अ]। स्तम्भितं-निरुद्धं, लास्यलीलाभ्युपगमं नृत्यक्रीडास्वीकारं, गृह्णन्ति कुर्वन्ति; पुनःअनाकुलाभिः स्वस्थाभिः, अङ्गयष्टिभिः शरीरयष्टिभिः, अङ्गीकृतशृङ्गारचेष्टारङ्गभूमिम् अङ्गीकृताः-स्वीकृता या, शृङ्गारचेष्टानां-कटाक्षविक्षेपादिशृङ्गारोद्दीपनभावात्मकाभिनयानां, रणभूमिः-नृत्यक्षेत्रभूमिः, ताम्, अवतरन्ति आरोहन्ति; पुनः अभिनेयं हस्तादिकचेष्टया दर्शनीयम् , अर्थजातं वस्तुसमूह, सम्यक स्फुटम, अभिनयन्ति हस्तादिचेष्टया दर्शयन्ति; पुनः प्रेक्षकजनस्य दर्शकलोकस्य, प्रमोदम् आनन्दम् , अग्रभूमिम् उत्कर्षशिखरम् , आरोपयन्ति आरोहयन्ति; च पुनः, सहृदयहृदयवर्तिनः सहृदयानां-निरन्तररसाखादस्निग्धहृदयानां, यत् हृदयं तद्वर्तिनः, रसस्य रसात्मना परिणामिनो रत्यादिस्थायिभावस्य, परमं परि. पोषम् अत्यन्तपुष्टिं रसात्मनाऽऽस्वादयोग्यताम्, आवहन्ति सम्पादयन्ति । अतिचिरकालम् अतिदीर्घकालं, शिक्षितम् अभ्यस्तम् , ते तव, प्रसाधनकर्म मण्डनकर्म, च पुनः, वचनवैचक्षण्यं वाग्विलासकौशलं, प्रकाशयितुम् आविष्कर्तुम् , एषः अयं, क्षणः अवसरः। इति इत्थं, स्मिताननेन मन्दहसितमुखेन, नभश्चरभूमिपालेन विद्याधरेन्द्रेण, अभिहिता उक्ता, सा प्रकृता, विलासिनी विलासवती चित्रलेखा, सहासविकसितेक्षणा सहासं-हासपूर्वकं, विकसिते ईक्षणे-नयने यस्यास्तादृशी सती, तत्क्षणमेव तस्मिन्नेव क्षणे, उदतिष्ठत् उत्थितवती, च पुनः, यथादिष्टम् आदिष्टमनतिक्रम्य, सर्वम् , अन्वतिष्ठत् कृतवती [ज्ञ]। . अत्र अस्मिन् , अन्तरे अवसरे, त्रिभुवनैकभर्तुः भुवनत्रयैकनायकस्य, जिनेन्द्रस्येत्यर्थः, अभिषेकमङ्गलविधिः अभिषेकोत्सवक्रिया, समारभ्यत सम्यगारब्धः, इतस्ततः अत्र तत्र, प्रहततन्त्रीपरीक्षितकलध्वनिभिः प्रहताभिःताडिताभिः, तत्रीभिः-वलकीगुणैः परीक्षिताः, कलध्वनयः-मधुराव्यक्तशब्दा यस्तादृशैः, वैणिकैः वीणावादनशिल्पिजनैः, वल्लकीषु वीणासु, निश्चलाः सुदृढाः, कलाः अंशाः, काष्ठानीत्यर्थः, व्यधीयन्त सम्पादिताः । पुनः भरतपुत्रैः नटपुत्रैः, वितीर्णविविधमार्जनानि वितीर्ण-दत्त, सम्पादितमित्यर्थः, विविधम्-अनेकप्रकारकं, मार्जन--विशोधनं येषु, यद्वा वितीर्ण-दत्त, मार्जनं-विशोधनद्रव्यं येषु तादृशानि, नानावादित्राणि विविधवाद्यानि, सजानि निर्मलानि, परिष्कृतानीति यावत्, अक्रियन्त समपाद्यन्त । पुनः निचुलकाकृष्टप्रकृष्टवेणवः निचुलकेभ्यः-चर्मादिमयनालिकातः, आकृष्टाः-आकृष्य बहिष्कृताः, प्रकृष्टाः-उत्तमाः, वेणवः- मारुतपूर्णरन्ध्रण वाद्यविशेषा यैस्तादृशाः, वांशिकाः वंशीवादनशिल्पिनः, अग्रेगायनीगणं गायिकागणस्याग्रे, उपाविशन् उपविष्टाः । पुनः प्रक्षालनपवित्रपाणिभिः प्रक्षालनेन-जलाप्लावनेन, पवित्रौ-विशुद्धौ, पाणी-हस्तौ येषां तादृशैः, पुम्भिः पुरुषः, सकलतीर्थाहृतेन निखिलक्षेत्रानीतेन, पानीयेन जलेन, पूरिताः पूर्णाः, शान्तकुम्भकुम्भाः सुवर्णमयघटाः, उपानीयन्त उपस्थापिता । पुनः, उत्तम्भिताभिषेककाञ्चनकुम्भा इव उत्तम्भिताः-उत्थापिताः, अभिषेकाय, काञ्चनकुम्भाः-सुवर्णमयकलशा याभिस्तादृश्य इवेत्युत्प्रेक्षा, आभोगशालिभिः परिपूर्णतारमणीयैः, पयोधरैः स्तनैः, उपलक्ष्यमाणाः प्रत्याय्यमानाः, वारयुवतयः तरुणगणिकाः, आसन्नाः सन्निहिताः, बभूवुः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 198 199 200 201 202