Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
mwww mmmmmm
टिप्पनक-परागविवृतिसंवलिता । वारणमलंकरोति, असावपि सैन्यभरदलितपाश्चात्यसिन्धुरोधसः क्रीडदवरोधसुन्दरीस्वच्छन्दोपभुक्तरैवतकपरिसरोद्यानस्य सौराष्ट्रमण्डलपतेर्महाबलस्य बन्धुमती [प] । याश्चैता विचित्रवेषधारिण्यः स्फाटिकवितर्दिकोपविष्टाः क्षोभविरतविभ्रमैः ससंभ्रममितस्ततो वलद्भिरीक्षणैर्मण्डपक्षणेषु विकचेन्दीवरदलोपहारमिव पातयन्ति, एता अपि कलिङ्ग-बङ्ग-अङ्ग-कोशल-कुलूतादिदेशस्वामिनामवनिपालाना-मिन्दुलेखा लीलावती-मालतिका-मदनलेखापायाभिराख्याभिरधिगतप्रख्यातयो देशान्तरेषु दुहितरः' [स] । इत्यभिधाय तूष्णीमास्थिते तस्मिन् स राजा स्मेरतारकः सविस्मयमालोक्य ताः समस्ता अपि प्रत्येकं कन्यका मां च किंचिद्वलितकन्धरो नातिनिकटे समुपविष्टामुत्कृष्टवसनालंकारभूषितविग्रहामग्राम्येण मण्डनप्रकारेणाकारेण च परं प्रसाधितामितस्ततोऽभिव्यज्यमानजरसि प्रौढे वयसि वर्तमानामेकां विलासिनी सपरिहासमवोचत्-चित्रलेखे ! त्वं हि वत्सायाः पत्रलेखायाः परं प्रसादभूमिः प्रधानसैरन्ध्री स्वकर्मकौशलेन कृत्स्नेऽपि जगति लब्धजयपताका जानासि विविधाभिर्भङ्गिभिरलंकर्तुमित्यनेकशः श्रुतमस्माभिः [ह ], अमूलमत्रं कार्मणं तव प्रतिकर्म किमपि सुभगङ्करणमङ्गनानाम् । तथाहि
प्रसादपरया त्वया रचितचतुरप्रसाधनाः । परिणतवयसोऽपि सद्यस्तरुणतां प्रतिपद्यन्ते ॥ १ ॥ इत्यर्थः, असावपि सापि, बन्धुमती बन्धुमतीनाम्नी, बलस्य तन्नाम्नो नृपस्य, कन्यकेति शेषः, कीदृशस्य ? सैन्यभरदलितपाश्चात्यसिन्धुरोधसः सैन्यभरेण-सैन्यसम्भारेण, दलितं-विदारितं, पाश्चात्यसिन्धोः-पश्चिमसागरस्य, रोधः-तटं येन तादृशस्य; पुनःक्रीडदवरोधसुन्दरीस्वच्छन्दोपभुक्तरैवतकपरिसरोद्यानस्य क्रीडन्तीभिः, अवरोधसुन्दरीभिः-अन्तःपुरसुन्दरीभिः, स्वच्छन्द-यथाकामम् , उपभुक्तं-लब्धविहारादिसुखं, रैवतकपरिसरोद्यानं-रैवतकपर्वतपर्यन्तारामो यस्य तादृशस्य; पुनः सौराष्ट्रमण्डलपतेः सौराष्ट्रदेशस्वामिनः [ष] । च पुनः विचित्रवेषधारिण्यः विलक्षणकृत्रिमाङ्गमण्डनशालिन्यः, पुनः स्फाटिकवितर्दिकोपविष्टाः स्फटिकाख्यमणिमयवेदिकोपविष्टाः, या एताः इमाः कन्यकाः, क्षोभविरतविभ्रमैः क्षोभेणसंचलनेन, विरतः - निवृत्तः, विभ्रमः-विलासो येषां तादृशैः, ससम्भ्रमं सत्वरम् , इतस्ततः सर्वतः, वलद्भिः व्याप्रियमाणैः, ईक्षणैः नयनैः, मण्डपक्षणेषु मण्डपमध्यभागेषु, विकचेन्दीवरदलोपहारं विकचं-विकसितं, यद् इन्दीवर-कमलं, तत्पत्ररूपोपहारं, पातयन्तीव प्रक्षिपन्तीवेत्युत्प्रेक्षा, एता अपि इमा अपि कन्यकाः इन्दुलेखा-लीलावती-मालतिका-मदनलेखाप्रायाभिः तत्प्रभृतिभिः, आख्याभिः नामभिः, देशान्तरेषु अन्यान्यदेशेषु, अधिगतप्रख्यातयः प्राप्तप्रसिद्धयः, कलिङ्ग चङ्ग-अङ्ग-कोशल-कुलूतादिदेशस्वामिनां तत्तन्नामकजनपदाधिपतीनाम् , अवनिपालानां नृपतीनाम् , दुहि. तरः कन्यकाः, सन्तीति शेषः [स] । इत्यभिधाय एवमुक्तवा, तस्मिन् विज्ञापकजने, तूष्णीमास्थिते मौनमालम्बितवति, सः प्रकृतः, राजा चित्रवीर्यः, स्मेरतारकः विकखरनेत्रकनीनिकः, ताः समस्ता अपि सर्वा अपि, कन्यकाः, प्रत्येकम् एकैकाम्, च पुनः माम्, सविस्मयं साश्चयेम्, अवलोक्य दृष्ट्वा, किञ्चिद्वलितकन्धरः इषद्वक्रितग्रीवः सन् , नातिनिकटे किञ्चिन्निकटे, समुपविष्टां सम्यगुपविष्टाम् , उत्कृष्टवसनालङ्कारभूषितविग्रहाम् उत्कृष्टवसनालङ्करैःउत्तमवस्त्राभरणैः, भूषितः-अलङ्कृतः, विग्रहः-शरीरं यस्यास्तादृशीम् , पुनः अग्राम्येण सभ्यजनोचितेन, मण्डनप्रकारेण वेषविन्यासेन, च पुनः, आकारेण अवयवसंस्थानेन, परम अत्यन्तं, प्रसाधितां शोभिताम् , पुनः इतस्ततः विरलरूपेण, अभिव्यञ्जमानजरसि प्रकाशमानवार्धक्ये, प्रौढे प्रागल्भ्यपूर्णे, वयसि अवस्थायां, वर्तमानाम् , एका, विलासिनी विलासशीलां स्त्रिय, सपरिहासं परिहासपूर्वकम्, अवोचत उक्तवान् , किमित्याह,-चित्रलेखे!, वत्साया: मद्वात्सल्यास्पदभूतायाः, पत्रलेखायाः, परम् अयन्तं, प्रसादभूमिः प्रसादयित्री, प्रधानसैरन्ध्री मुख्यशिल्पिनी, पुनः स्वकर्मकौशलेन निजकार्यनैपुण्येन, कृत्स्नेऽपि समग्रेऽपि, जगति भुवने, लब्धजयपताका प्राप्तसर्वोत्कर्षद्योतकध्वजा त्वं, विविधाभिः बहुप्रकाराभिः, भङ्गिभिः चमत्कारैः, अलंकर्तु दिव्यरूपतामापादयितुं, जानासि, इति, अनेकशः असकृत् , अस्माभिः, श्रुतं श्रवणगोचरीकृतम् [ह] । अमूलमन्त्रं नास्ति मूलम्-उच्चाटनादिप्रयोजकमीषधिमूलं मन्त्रश्च यस्मिंस्तादृशं, कार्मणं दिव्यरूपापादकतान्त्रिकक्रियात्मकं, तव, प्रतिकर्म प्रसाधन मण्डन मिति यावत् , अङ्गनानां स्त्रीजनानां किमपि विलक्षणं, सुभगङ्करणं सौन्दर्यापादकम् । तथाहि-तदेवोच्यते प्रसादपरया प्रसीदन्मानसया, त्वया, रचित
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202