Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१८२
टिप्पनक-परागविवृतिसंवलिता । कृतमिथःसंलापाभिश्च साध्वसनिरुद्धशरीरचेष्टाभिश्च जनशब्दश्रवणसावधानाभिश्च वामहस्तपर्यस्तवदनव्यञ्जितविषादाभिश्च तत इतः प्रहितविकाशोत्ताननयनसूचितान्तःकौतुकाभिश्च महाहवेषधारणीभिरसाधारणरूपशोभाभिर्निभर्सितसुराङ्गनाकाराभिराकारसंभाव्यमानमहाभिजनप्रसूतिभिर्नरेन्द्रकन्या भिः परिवृतमात्मानमपश्यम् [ब]।
___ दृष्ट्वा च समुपजातचित्तसंक्षोभा 'किमेतत्' इति चिन्तयन्ती सत्वरमुत्थाय संयतशिथिलकुसुमापीडा निबिडितपरिधाननीविरवच्छाद्य सत्वरं सव्येतरकरावर्जितेनोत्तरीयवाससाङ्गमङ्गीकृता युगपदुत्थितैः साध्वसप्रमोदविस्मयादिभिर्भावैः स्तम्भितेव लिखितेव संयतेवोत्कीर्णेव मुहूर्तमतिष्ठम् । अनवलोकयन्ती चात्मनो भवनं चित्रशालिकां शयनीयमालीजनं परिजनं च जातविस्मया 'कच्चिन्मया स्वप्नोऽयमनुभूयते, विभ्रमो वायमिन्द्रियाणाम् , इन्द्रजालं वा केनाप्युपदर्शितमेतत्' इति पुनः पुनश्चिन्तयन्ती चकितचकिता द्वारदेशमागमम् [भ] । एकपाविलम्बिनी च विलम्ब्य तत्र क्षणमात्रमुत्सृज्य पर्यायेण स्त्रैणसहजं साध्वसमाधाय
टिप्पनकम्-अभिजनः-कुलम् [व] ।
च पुनः, ऊर्ध्वस्थिताभिः उपरिवर्तिनीभिः; च पुनः, वातायननिविष्टाभिः गवाक्षदेशोपविष्टाभिः; च पुनः, गृहीतचिन्तामौनाभिः गृहीतं-स्वीकृतं, चिन्तया मौनं-वाङ्गिरोधो याभिस्तादृशीभिः; च पुनः, शनैः शनैः मन्दं मन्दं, कृतमिथःसंलापाभिः कृतपरस्परसम्भाषणाभिः; च पुनः, साध्वसनिरुद्धशरीरचेष्टाभिः साध्वसेन-भयेन, निरुद्धानिवारिता; शरीरचेष्टा-अङ्गसञ्चारो याभिस्तादृशीभिः; च पुनः, जनशब्दश्रवणसावधानाभिः लोकोक्तिश्रवणप्रवणाभिः; च पुनः, वामहस्तपर्यस्तवदनव्यञ्जितविषादाभिः वामहस्तपर्यस्तेन-वामहस्तविक्षिप्तेन वदनेन-मुखेन, व्यजितः- सूचितः. विषादो याभिस्तादृशीभिः; च पुनः, तत इतः सर्वतः, प्रहितविकाशोत्ताननयनसूचितान्तःकौतुकाभिः प्रहिताभ्यांव्यापारिताभ्या, विकाशोत्तानाभ्याम्-उन्मीलनोन्नताभ्यां, नयनाभ्यां-सूचितं-प्रत्यायितम् , अन्तःकौतुकम्-अन्तःकरणोत्सुक्यं याभिस्तादृशीभिः पुनः महाहवेषधारिणीभिः मनोहरवेषग्राहिणीभिः; पुनः असाधारणरूपशोभाभिः उत्कृष्ट स्वरूपसौन्दर्याभिः; पुनः निर्भसितसुराङ्गनाकाराभिः तिरस्कृतदेवगनास्वरूपाभिः; पुनः आकारसम्भाव्यमानमहाभिजनप्रसूतिभिः आकारेण-आकृत्या, सम्भाव्यमाना-प्रतीयमाना, महाभिजने-उत्कृष्टकुले, प्रसूतिः-उत्पत्तिर्यासां तादृशीभिः [ब।
दृष्टा तादृशमात्मानमवलोक्य, समुपजातचित्तसंक्षोभा समुत्पन्नान्तःसम्भ्रमा, 'एतत् किम्' इति चिन्तयन्ती वितर्कयन्ती, सत्वरं शीघ्रम्, उत्थाय शय्यामुन्मुच्य, संयतशिथिल कुसुमापीडा संयतः-आबद्धः, शिथिल:-शयनकालिकपार्श्वपरिवर्तनेन शोल्यमापन्नः, कुसुमापीडः-पुष्पमयशिरोमाल्यं यया तादृशी; पुनः निविडितपरिधाननीविः निबिडिता-द्रढिता, परिधाननीविः-परिधानीयवस्त्रकटीबन्धो यया तादृशी सती, सव्येतरकरावर्जितेन वामहस्तगृहीतेन, उत्तरीयवाससा उत्तरीयवस्त्रेण, सत्वरं शीघ्रम् , अङ्गं शरीरम, अवच्छाद्य आच्छाद्य, युगपत् एककालम् , उत्थितैः उद्धतैः, साध्वस-प्रमोद-विस्मयादिभिः भय-हर्षा-ऽऽश्चर्यप्रभृतिभिः, भावैः मानसविकारैः, अङ्गीकृता आक्रान्ता सती, स्तम्भितेव निरुद्धव्यापारेव, पुनः लिखितेव चित्रितेव, पुनः संयतेव नियन्त्रितेव, पुनः उत्कीर्णेव मृदादिवत् पुञ्जितेव, मुहूर्त क्षणम् , अतिष्ठं स्थितवती । च पुनः, आत्मनः खस्य, भवनं गृहम् , चित्रशालिकां चित्रगृहम् , शयनीयं
आलीजनं सखीजनम् , च पुनः, परिजनं परिवारम् , अनवलोकयन्ती अपश्यन्ती, जातविस्मया उत्पन्नाश्चर्या मया, अयं तादृशात्मविषयकः, खप्नः, अनुभूयते, कच्चित् किमु, वा अथवा, अयम् , इन्द्रियाणां विभ्रमः भ्रमणा, वा किं वा. केनापि केनचिदैन्द्रजालिकेन, एतत् इदम् , इन्द्रजालं मायाजालम् , उपदर्शितं दृष्टिपथमारोपितम् , इति इत्थं, पुनः पुनः असहकृत् , चिन्तयन्ती तर्कयन्ती, चकितचकिता अत्यन्तं चकिता, द्वारदेशं तत्प्रासादप्रवेशनिर्गमप्रदेशम् , आगमम् आगतवती [भ] | च पुनः, एकपाचवलम्बिनी तद्धारदेशैकदेशवर्तिनी, तत्र द्वारदेशे, क्षणमात्रं मुहूर्तमात्रं विलम्ब्य स्थित्वा, पर्यायेण क्रमेण, स्त्रैणसहजं स्त्रीगण स्वभावसिद्धं, साध्वसं भयम् , उत्सृज्य त्यक्त्वा, पुनः मनसि,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 192 193 194 195 196 197 198 199 200 201 202