Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 193
________________ तिलकमञ्जरी १८१ विषमबाणस्य पुलकजाड्योत्कम्पादिविकारबहुलं शिशिरावतारं तरुणजनहृदयतामरसानां प्रपञ्चितचतुरोक्तिमग्रदूतं प्रगल्भताया उदीरितोत्कलिकासहस्रं प्रलयकालं रागजलधेरङ्गीकृतवती नवयौवनावतारमङ्गैः [न]। सर्वदा च विस्तारितकलाशास्त्रविनोदेन सदृशवयसा सदृशरूपलावण्येन सदृशवस्त्रभूषणादिवेषपरिच्छदेन प्रियवादिना विदग्धेन स्निग्धेन सध्रीचीनजनेनामुक्तसंनिधिरविदितप्रणयिसार्थप्रार्थनाभङ्गदुःखान्यननुभूतभोगचिन्ताज्वरजागराणि धृतिमयानीव निर्वृतिमयानीव कतिचिदिनान्यनैषम् [प]। ____ एकदा च प्रदोषसमये निजप्रासादस्य शिखरशालायां प्रसुप्ताहमाहतानेकपटहझल्लरीमृदङ्गझात्कारमुखरेण श्रवणहारिणा दिव्यतूर्यनिनादेन निद्राममुञ्चम् [फ] । उन्मीलितलोचना च सहसैव सुरविमानसंनिभस्य नभस्तलोल्लेखिशिखरोन्नतेरतिविपुलावकाशोदरस्य साक्षादिव दिवसकरमण्डलस्य तत्कालसंनिहितपन्नगेश्वरश्वासपवनै रसातलान्मर्त्यलोकमानीतस्य किमपि विस्मयनीयाकृतेर्मणिशिलामयस्य जिनवेश्मनः कोणैकदेशे निषण्णमासन्नवर्तिनीभिरूस्थिताभिश्च वातायननिविष्टाभिश्च गृहीतचिन्तामौनाभिश्च शनैः शनैः क्रीडोपवनम् ; पुनः पुलकजाड्योत्कम्पादिविकारबहुलं पुलकं- रोमाञ्चः, जाड्यं-निश्चष्टत्वम् , उत्कम्पः-प्रकम्पनं, तदादिभिः-तत्प्रभृतिभिः, विकारैः-शैत्योपद्रवः, पक्षे कामवासनोपद्रवैः, बहुलं-पूर्ण, तरुणजनहृदयतामरसानां युवजनहृदयकमलानां, तद्विक्रियाऽऽपादकमित्यर्थः, शिशिरावतारं शीतागमकालम् । पुनः प्रपश्चितचतुरोक्तिं प्रपञ्चिताः-प्रकटिताः, चतुराः-वैदग्ध्यपूर्णाः, उक्तयः-वचनानि येन तादृशम् , प्रगल्भतायाः अभीरुतायाः, अग्रदूतम् सन्देशहारकाणामग्रेसरम उदीरितोत्कलिकासहस्रम् उदीरितं-प्रकटितम् , उत्कलिकासहस्रं-कामकृतमौत्सुक्यसहस्रं, पक्षे तरङ्गसहस्रं येन तादृशं, रागजलधेः प्रणयसिन्धोः, तदुद्वेलकमित्यर्थः, प्रलयकालं युगान्तकालम् [न] । च पुनः, सर्वदा सदा, सध्रीचीनजनेन सहचरीजनेन, अमुक्तसन्निधिः अत्यक्तपार्धा, कतिचित् कतिपयानि, दिनानि अनैषम् व्यतीतवती; कीदृशेन ? विस्तारितकलाशास्त्रविनोदेन विस्तारितः-प्रपञ्चितः, कलाशास्त्रविनोदः कलाशास्त्रेण मनोऽनुरञ्जनं येन तादृशेन; पुनः सदृशवयसा तुल्यवयस्केन; पुनः सदृशरूपलावण्येन समानाकृतिसौन्दर्यकेण; पुनः सदृशवस्त्रभूषणादिवेषपरिच्छदेन सदृशः, वस्त्रभूषणादिरूपः, वेषपरिच्छदः-कृत्रिममण्डनोपकरणं यस्य तादृशेन; पुनः प्रियवादिना मधुरभाषिणा; पुनः विदग्धेन चतुरेण; पुनः स्निग्धेन स्नेहास्पदेन; कीदृशानि दिनानि ? अविदितप्रणयिसार्थप्रार्थनाभङ्गदुःखानि अविदितानि-अननुभूतानि, प्रणयिसार्थस्य-स्नेहिगणस्य, या प्रार्थना, तद्भङ्गजन्यदुःखानि येषु तादृशानि, पुनः अननुभूतभोगचिन्ताज्वरजागराणि अननुभूता भोगचिन्तात्मकन ज्वरण जागरा-निद्राभङ्गो येषु तादृशानि, पुनः धृतिमयानीव सन्तोषपूणोंनीव, पुनः निर्वृतिमयानीव सुखपूर्णानीव [प]। एकदा एकस्मिन् समये, प्रदोषसमये सायंसमये, निजप्रासादस्य स्वमहाभवनस्य, शिखरशालायां शिरोगृहे, प्रसुप्ता शयिता, अहम् , आहतानेकपटहझल्लुरीमृदङ्गझात्कारमुखरेण आहतानां-ताडितानाम् , अनेकेषां, पटहानांदुन्दुभीनां, झल्लरीणां-झालरशब्देन लोकप्रसिद्धानां वाद्यविशेषाणां, मृदङ्गानां च, झात्कारैः-ध्वनिभिः, मुखरेण-वाचालेन, समृद्धेनेत्यर्थः, पुनः श्रवणहारिणा श्रवणप्रियेण, दिव्यतूर्यनिनादेन मनोज्ञवाद्यभेद वनिना, निद्राम् , अमुञ्चम् अत्यजम् [फ]। च पुनः, उन्मीलितलोचना उद्घाटितनयना सती, सहसैव शीघ्रमेव, आत्मानं स्वम् , अपश्यं दृष्टवतीत्यप्रेणान्वेति; कीदृशम् ? जिनवेश्मनः जिनमन्दिरस्य, कोणकदेशे कोणकभागे, निषण्णम् उपविष्टम् । कीदृशस्य ? सुरविमानसंनिभस्य देवसम्बन्धिव्योमयानतुल्यसन्निवेशस्य पुनः नभस्तलोलेखिशिखरोन्नतेः नभस्तलोल्लेखिनी-गगनतलस्पर्शिनी. शिखरोन्नतिर्यस तादृशस्य; पुनः अतिविपुलावकाशोदरस्य अतिविपुलः-अत्यन्तविस्तृतः, अवकाशः-रिक्तस्थानं यस्य तादृशम् उदरं-मध्यं यस्य तादृशस्य; पुनः साक्षाद् दिवसकरमण्डलस्येव सूर्यमण्डलस्येवेत्युत्प्रेक्षा; पुनः तत्कालसन्निहितपन्नगेश्वरश्वासपवनैः तत्कालसन्निहितैः-तत्क्षणसम्पृक्तः, पन्नगेश्वराणां-भुजङ्गराजानां, श्वासपवनैः-श्वासवायुभिः कर्तृभिः, रसातलात् पातालात् , मर्त्यलोकं मर्त्यभुवनम् , आनीतस्य उत्क्षिप्तस्य; पुनः किमपि अनिर्वचनीयं यथा स्यात् तथा. विस कृतेः आश्चर्यास्पदाकारविशिष्टस्य; पुनः मणिशिलामयस्य मणिरूपा या शिला पाषाणः, तन्मयस्य-तत्प्रकृतिकस्य पुनः कीदृशमात्मानम् ? नरेन्द्रकन्याभिः राजसुताभिः, परिवृतं परिवेष्टितम् , कीदृशीभिः ? आसन्नवर्तिनीभिः पार्श्ववर्तिनीभिः; "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202