Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 192
________________ १८० टिप्पनक-परागविवृतिसंवलिता । पदेऽनुगम्यमाना पृष्ठतो, हसिते हसिते चुम्ब्यमाना कपोलयोः, रुदिते रुदिते विनोद्यमाना विचित्रक्रीडनकैः, स्खलिते स्खलितेऽनुभाव्यमानाऽवतारणकमङ्गलानि, गदिते गदिते सहासमारोप्यमाणा वक्षसि क्षितिपाललोकेन, रक्ष्यमाणा च राज्यलक्ष्मीरिव सततमप्रमत्तैः शस्त्रपाणिभिर्वीरपुरुषैः, शैशवमतिवाहितवती [ध]। उचितसमये च यथाशक्त्यधीतराजकन्यकोचितविद्या, सोपनिषदि नाट्यवेदे गीतवाद्यादिषु च कलासु कृतपरिचया, विनयपरतया पितुरेकापत्यतया मातुर्वत्सलतया ज्ञातिपक्षस्य दाक्षिण्यनिन्नतया परिजनस्य प्रियंवदतया पौरलोकस्य परां चक्षुःप्रीतिमादधाना, क्रमेण निर्वापकमविप्रयुक्तरागिमिथुनानां संतापकं दरिद्रकामिहृदयानां प्रसाधकं कुरूपाणामध्यापकमशेषविभ्रमक्रमकलानां सन्नद्धोन्नतपयोधरं वर्षासमयमिन्द्रियस्रोतसां विस्तारितकुमुदविशदस्मितं प्रदोषागममङ्गलावण्यचन्द्रोदयस्य वलितरङ्गितमध्यसरणिं क्रीडारामं टिप्पनकम्-सोपनिषदि सरहस्ये, नाट्यवेदे नर्तनशास्त्रे, निघ्नतया-परवशतया, प्रसाधकं विभूषकम् , अध्यापकम् उपाध्यायम् , इन्द्रियस्रोतसाम् इन्द्रियनदीनाम् , स्मितं-हासो विकासश्च, वलितरङ्गितमध्यसरणिं एकत्र वलिभिः-वलित्रयेण तरङ्गिता मध्यसरणिः-मध्यदेशोऽस्मिन् स तथोक्तः, अन्यत्र वलिता-भ्रामितारङ्गिता चविस्तीर्णा च मध्ये सरणिः-मार्गो यस्य स तथोक्तस्तम् , उत्कलिका-कल्लोलः, उत्कण्ठा च [न] । आप्याययन्ती वर्धयन्ती, अह्रादयन्तीत्यर्थः; पुनः पृष्ठतः पश्चाद्भागेन, पदे पदे प्रतिपादनिक्षेपम् , अनुगम्यमाना अनुस्त्रियमाणा; पुनः हसिते हसिते प्रत्येकं हासावसरे, कपोलयोः गण्डस्थलयोः, चुम्ब्यमाना ओष्ठेन संयोज्यमानाः पुनः रुदिते रुदिते प्रत्येकं रोदनावसरे, विचित्रक्रीडनकैः विविधक्रीडोपकरणैः, विनोद्यमाना अनुरज्यमाना; पुनः स्खलिते स्खलिते प्रत्येकं पतनावसरे, अवतारणकमङ्गलानि अवतारणकोत्सवान् , अनुभाव्यमाना दय॑माना; पुनः गदिते गदिते प्रत्येकं भाषणावसरे, क्षितिपाललोकेन नृपजनेन, वक्षसि वक्षःस्थले, सहासं हासपूर्वकम् , आरोप्यमाणा निवेश्यमाना; च पुनः, सततम् अनवरतम् , अप्रमत्तैः अवहितहृदयैः, शस्त्रपाणिभिः गृहीतशस्त्रैः, वीरपुरुषैः पराक्रमशालिजनैः, राज्यलक्ष्मीरिव राज्यसम्पदिव, रक्ष्यमाणा विप्लवाद् वार्यमाणा [ध] । च पुनः, उचितसमये अध्ययनयोग्यकाले, यथाशक्ति स्वशक्त्यनुसारम् , अधीतराजकन्यकोचितविद्या अधीता-पठिता, राजकन्यकोचिता काऽध्ययनीया विद्या यया तादृशी; सोपनिषदि रहस्यसहिते, नाट्यवेदे नाट्यशास्त्रे, च पुनः, गीतवाद्यादिषु गानवादनादिषु, कलासु नैपुणीषु, कृतपरिचया लब्धशिक्षा सती; विनयपरतया नम्रतया, पितुः, पुनः एकापत्यतया अद्वितीयात्मजतया, मातुः, पुनः वत्सलतया स्नेहास्पदतया, ज्ञातिपक्षस्य बन्धुवर्गस्य, पुनः दाक्षिण्यनिघ्नतया वैदग्ध्यवशेन, परिजनस्य परिवारजनस्य, पुनः प्रियंवदतया मधुरालापितया, पौरलोकस्य पुरवासिजनस्य, पराम् अत्यन्तां, चक्षुःप्रीति नयनानन्दम्, आदधाना जनयन्ती; क्रमेण शनैः अझैः शरीरावयवैः, यौवनावतारं तारुण्योद्गमम्, अङ्गीकृतवती स्वीकृतवतीत्यग्रेणान्वेति; कीदृशम् ? अविप्रयुक्तरागिमिथुनानां संयुक्तकामिद्वन्द्वानां, सविलासिनीकविलासिनामित्यर्थः, निर्वापकं शान्तिजनकं, सन्तोषाधायकमित्यर्थः; पुनः दरिद्रकामिहृदयानां कामिनीविरहितकामिजनमनसां, सन्तापकं सन्तापजनकम् ; पुनः कुरूपाणां कुत्सिताकृतीनां, प्रसाधकं सौन्दर्यसम्पादकम् । पुनः अशेषविभ्रमक्रमकलानाम् अशेषाः-समग्राः, या विभ्रमक्रमकलाः-विलासक्रमकौशलानि, यद्वा अशेषाणां विभ्रमक्रमाणां याः कलाः, तासाम् , अध्यापक शिक्षकम् । पुनः सन्नद्धोन्नतपयोधरं सन्नद्धौ-परिपूर्णी, उन्नतौ, पयोधरौ-स्तनौ, यस्मिन् , पक्षे सन्नद्धः-वर्षणप्रवणः, उन्नतः, पयोधरः-मेघो यस्मिंस्तादृशम् , इन्द्रियस्रोतसाम इन्द्रियनदीनां, वर्षासमयं वर्षतुम् पुनः विस्तारित कुमुदविशदस्मितं विस्तारितं, कुमुदवत्-चन्द्रविकास्यकमलवत् , विशद-स्वच्छं, स्मितं-मन्दहासः, पक्षे कुमुदानां-चन्द्रविकास्यकमलानां, विशदम्-उज्ज्वलं, स्मितं-विकासो येन तादृशम् , अङ्गलावण्यचन्द्रोदयस्य शरीरसौन्दर्य चन्द्रोदयस्य, प्रदोषागर्म सन्ध्याकालिकसमयम् ; पुनः वलितरङ्गितमध्यसरणिं वलिभिः-निम्नोदररेखाभिः, तरङ्गिता-सञ्जाततरङ्गेव, मध्यसरिणिः-शरीरमध्यभागात्मकमार्ग उदरप्रदेशात्मकमार्गो यस्य, पक्षे वलिता-भ्रमिता, रङ्गिता-विशाला च मध्ये सरणिःमार्गों यस्य तादृशम् , विषमबाणस्य विषमाः-पञ्चत्वात्मकविषमसंख्यकाः, बाणा यस्य तादृशस्य, कामदेवस्येत्यर्थः, क्रीडाराम "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202