Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 191
________________ तिलकमञ्जरी परम्परया सर्वेऽपि नगरीनिवासिनः प्रधानपौराः परां मुदमवापुः, आनन्दसंभ्रमाकुलाश्च तत्कालमेव प्रत्यापणं प्रतिगृहं प्रतिचत्वरं प्रत्यायतनमनिलनर्तित विचित्रचीनांशुकव्रजान् ध्वजानाबबन्धुः [त] । बन्धुतेव प्रतिगृहं गृहीतविकटप्रसाधना धिन्वन्ती मङ्गलगीतिभिर्जगजगौ जनता, निष्पर्यायमाहताभिरानन्दतूर्यसंहतिभिरुच्चैस्तरोऽपि चारणानामारवः श्रवसि निविशमानश्चस्खाल, मदविशृङ्खलपदक्षेपक्षोभितकाश्चयश्च सह भुजङ्गजनेन ननृतुर्नृपाङ्गणेषु गणिकाः [थ] । तातोऽपि तोरणबद्धहरितवन्दनमालमुद्दामगन्धोदकच्छटाविच्छर्दविरजीकृताजिरमुपरचितमौक्तिकचतुष्कं पातितपुष्पप्रकरमागत्य मातुर्मे भवनमनेकराजलोकपरिवृतः पुत्रजन्मसदृशमतिमहान्तमुत्सवमकारयत् , अतिक्रान्ते च दशमेऽहनि समागतसमस्तज्ञातिलोकः प्रवर्तितमङ्गलोपचारः स्वगोत्राचारकर्मण्यतिसादरो मलयसुन्दरीति मे नाम कृतवान् [द] । अथाहमनुदिनोपचीयमानसुकुमारावयवा चन्द्रमूर्तिरिव दूरस्थितापि दर्शनेनाप्याययन्ती पुरजनं, पदे टिप्पनकम्-बन्धुतेव बन्धुसमूह इव, धिन्वन्ती प्रीणयन्ती, जनता जनसमूहः । निष्पर्यायम् एककालम् [थ] । पृथिव्याः, आधिपत्यं खाम्यं, करिष्यति लप्स्यते, इत्येतत् अनुपदोक्तं फलादेशवाक्यम् , कर्णपरम्परया जनपरम्परया आकर्ण्य श्रुत्वा, सर्वेऽपि नगरीनिवासिनः काञ्चीवास्तव्याः, प्रधानपौराः मुख्याः पुरजनाः, पराम् अत्यन्ता, मुदं हर्षम् , अवापुः अन्वभूवन् ; च पुनः, आनन्दसंभ्रमाकुलाः आनन्दावेगाकुलाः सन्तः, तत्कालमेव तत्क्षणमेव, प्रत्यापणं प्रतिहट्ट, प्रतिग्रहं गृहे गृहे, प्रतिचत्वरं प्रत्यङ्गण, प्रत्यायतनं प्रतिमन्दिरम् , अनिलनर्तितविचित्रचीनांशकवजान अनिलेन-वायुना, नर्तितः-उत्क्षिप्तः, विचित्रः-विलक्षणः, विशिष्टचित्रवर्णों वा, चीनांशुकः-चीनदेशनिष्पन्नसूक्ष्मश्लक्ष्णपटो येषु तादृशान् , ध्वजान पताकाः, आबबन्धुः आरोपितवन्तः [त]। पुनः बन्धुतेव बन्धुगण इव, गृहीतविकटप्रसाधना धृतोज्वलवेषा, जनता जनगणः, मङ्गलगीतिभिः मङ्गलगायनैः, जगत् लोकं, धिन्वन्ती प्रीणयन्ती, प्रतिगृहं गृहे गृहे, जगौ गायति स्म । पुनः निष्पर्यायं युगपदेव, आहताभिः ताडिताभिः, आनन्दतूर्यसंहतिभिः आनन्दवाद्यविशेषसमूहैः, उच्चैस्तरोऽपि अत्युच्चोऽपि, चारणानां बन्दिजनानाम् , आरवः शब्दः, श्रवसि कर्णे, निविशमानः प्रविशन्नेव, चस्खाल मातुमक्षमतया बहिव्यकीयेत । च पुनः, मदविशङ्कलपदक्षेपक्षोभितकाञ्चयः मदेन विशृङ्खलयोः-अनियन्त्रि तयोः, विचलितयोरिति यावत् , पदयोः, क्षेपेण-प्रेरणया, क्षोभिताः-सञ्चलिताः, काञ्चयः-रशना यासां तादृश्यः, गणिकाः वेश्याः, भुजङ्गजनेन विटगणेन सह, नृपाङ्गणेषु नृपाणां-राज्ञाम् , अङ्गणेषु-चत्वरस्थानेषु, ननृतुः नृत्यं चक्रुः [थ]। तातोऽपि मत्पितापि, मे मम, मातुः, भवनं गृहम् , आगत्य, अनेकराजलोकपरिवृतः अनेकनृपजनपरिवेष्टितः, पुत्रजन्मसदृशं पुत्रोत्पादोत्सवसदृशम् , अतिमहान्तम् अतीवोत्कृष्टम् , उत्सवम् , अकारयत् समपादयत् , कीदृशं मातुर्भवनम् ? तोरणबद्धहरितवन्दनमालं तोरणबद्धा-बहिरदेशावनमिता, हरिता-हरितवर्णविशिष्टकिसलमयी, वन्दनमाला-मङ्गलमाला यस्य तादृशम् , पुनः उद्दामगन्धोदकच्छटाविच्छर्दविरजीकृताजिरम् उद्दानाम्-अव्याहतानां, गन्धोदकच्छटानांसुगन्धिजलधाराणां, विच्छेर्दैन-परितो विक्षेपेण, विरजीकृतं-निधूलीकृतम्, अजिरं-प्राङ्गणं यस्य तादृशम् , पुनः उपरचितमौक्तिकचतुष्कम् उपरचितं-निर्मितं, मौक्तिकचतुष्कं-मुक्तामणिबद्धवेदिका यस्मिंस्तादृशम् , पुनः पातितपुष्पप्रकरं पातितः-विकीर्णः, पुष्पप्रकरः-पुष्पराशियस्मिस्तादृशम् । च पुनः, दशमे, अहनि दिने, अतिक्रान्ते व्यतीते सति, एकादशेऽहनीत्यर्थः, समागतसमस्तज्ञातिलोकः समागतः-उपस्थितः, समस्तः, ज्ञातिलोकः-बन्धुजनो यस्य तादृशः, पुनः प्रवर्तितमङ्गलोपचारः अनुष्ठितमाङ्गलिकक्रियः, पुनः स्वगोत्राचारकर्मणि स्वकुलाचारप्राप्तक्रियायाम् , अतिसादरः अतीव संलग्नः, मत्पितेति शेषः, मे मम, मलयसुन्दरीति नाम संज्ञां, कृतवान् [द]। अथ अनन्तरम् , अहं, शैशवं बाल्यावस्थाम् , अतिवाहितवती व्यतीतवतीत्यप्रेणान्वेति, कीदृशी ? अनुदिनोपचीयमानसुकुमारावयवा अनुदिनं-दिने दिने, उपचीयमानाः-वर्धमानाः, सुकुमारा:-कोमलाः, अवयवाः-अङ्गानि यस्यास्तादृशी; पुनः दूरस्थिताऽपि चन्द्रमूर्तिरिव चन्द्राकृतिरिव, पुरजनं प्रकृतपुरवासिजनं, दर्शनेन दृष्टिगोचरीभवनेन, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202