Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी येन चाप्रयत्नभग्नसंततवर्धिष्णुभूभृदुन्नतिना भुवनत्रयाभिनन्दितोदयेन कुम्भयोनिनेव प्रसाधिता पवित्रिता च दक्षिणा दिक् [अ]।
___तस्य तेजस्विवर्गाग्रेसरस्य सकलगुणनिधेरीदृशी विगतलक्षणाहमधमाशुशुक्षणेरिव धूमवर्तिरासन्नवर्तिनां जनानामनुपातकारणमेकैवात्मजा जाता, माता तु मे सर्वान्तःपुरपुरन्ध्रिमुख्या महादेवी महिम्नां धाम गन्धर्वदत्ता नाम [ट] । किञ्च
भित्त्वा संपुटमोष्ठयोर्न हसितं निःशङ्कगोष्ठीष्वपि, भ्रान्तं न त्वरितैः पदैर्गृहनदीहंसानुसारेष्वपि । साधं पञ्जरसारिका भिरपि नो भूयस्तया जल्पितं,
न व्यस्रास्तिलकद्रुमेष्वपि चिरं व्यापारिता दृष्टयः ॥ १ ॥ [] । पर्यङ्कापात् क्षणविनिहितः काञ्चने पादपीठे, रक्ताशोकप्रहृतिविहितोग्रापराधः क्रुधेव । वामो यस्याः प्रणतिचटुलैः क्षोणिपालाङ्गनानां, कर्णोत्तंसद्रुमकिसलयैस्ताडितः पादपद्मः ॥ २॥ [3] ।
टिप्पनकम्-अप्रयत्नभग्नसन्ततवर्धिष्णुभूभृत्तदुन्नतिना एकत्र भूभृत्-गिरिः, अन्यत्र नृपाः, प्रसाधिता मण्डिता, आत्मायत्तीकृता च [अ]।
च पुनः, कुम्भयोनिनेव कुम्भः-घटः, योनिः-उत्पत्तिस्थानं यस्य तादृशेन, अगस्तिमुनिनेव, अप्रयत्नभग्नसन्ततवर्धिष्णुभूभृदुन्नतिना अप्रयत्नम्-अनायासं यथा स्यात् तथा, भग्ना निरुद्धा, सन्ततवर्धिष्णुनाम्-अनवरतमुन्नतिशीलानां, भूभृतां-नृपाणां, पक्षे पर्वतानाम् , उन्नतिर्येन तादृशेन, क्वचिद् 'भूभृत्तदुन्नतिना' इति पाठः, तत्राप्रयत्नभन्ना भूभृतस्तदुन्नतिश्च येन तादृशेनेत्यर्थः । पुनः भुवनत्रयाभिनन्दितोदयेन भुवनत्रयेण-लोकत्रयेण, अभिनन्दितः-श्लाघितः, उदयः-समृद्धिः, पक्षे तारकात्मना गगनाङ्गणे प्रकाशो यस्य तादृशेन, येन कुसुमशेखरनृपेण, दक्षिणा दिक्, प्रसाधिता आयत्तीकृता, पक्षे अलङ्कता, च पुनः, पवित्रिता पावित्र्यमापादिता [अ] ।
आशुशुक्षणेः अग्नेः, धूमवर्तिरिव धूमसन्ततिरिव, तेजस्विवर्गाग्रेसरस्य तेजस्विवर्ग-प्रतापिवर्गे, पक्षे दीप्तिमद्वर्ग, अग्रेसरस्य-प्रधानस्य, पुनः सकलगुणनिधेः समस्तगुणाधारस्य, तस्य कुसुमशेखरस्य, विगतलक्षणा शुभलक्षणशून्या, पुनः अधमा तुच्छा, पुनः आसन्नवर्तिनां पार्श्ववर्तिनां, जनानां परिजनानामित्यर्थः, अश्रुपातकारणं दुःखाश्रुपातप्रयोजिका, अहम् , एकैव अद्वितीयैव, आत्मजा सुता, जाता; मे मम, माता तु सर्वान्तःपुरपुरन्ध्रिमुख्या सकलान्तःपुराङ्गनाश्रेष्ठा, महादेवी पट्टराज्ञी, महिम्नां माहात्म्यानां, धाम आस्पदभूता, गन्धर्वदत्ता नाम तत्संज्ञिका, अस्तीति शेषः [2] ।
किञ्च अपि च, तया गन्धर्वदत्तया, निःशङ्कगोष्ठीष्वपि विस्रब्धसखीसमूहेऽपि, ओष्ठयोः सम्पुटं संश्लेषं, भित्त्वा विदार्य, ओष्ठौ विभज्येत्यर्थः, न हसितम् अतिसूक्ष्ममेव हसितमित्यर्थः; पुनः गृहनदीहंसानुसारेष्वपि गृहपार्श्वस्थनदीसम्बन्धिहंसानुगमनेष्वपि, त्वरितैः त्वरान्वितैः, पदैः, न भ्रान्तं भ्रमणं कृतम् , अपि तु मन्दैरेव; पुनः पञ्जरसारिकाभिरपि पञ्जराश्रितपक्षिविशेषैरपि, साधं सह, भूयः अधिकतरं, न जल्पितम् उक्तम् ; पुनः तिलकद्रुमेष्वपि तिलकाख्यवृक्षविशेषेष्वपि, यस्राः त्रिकोणाः, दृष्टयः नेत्राणि, चिरं दीर्घकालं, न व्यापारिताः प्रवर्तिताः । अत्र खभावोक्तिरलङ्कारः ॥ १॥ [7]।
यस्याः गन्धर्वदत्तायाः, वामः, पादपद्मः चरणकमलं, पर्यङ्कापात् पर्यकोर्वभागात् , काञ्चने सुवर्णमये, पादपीठे पादासने, क्षणविनिहितः क्षणमात्रमारोपितः सन् , रक्ताशोकप्रहृतिविहितोग्रापराधः रक्ताशोकप्रहृत्या-रक्ताशोकताडनेन, विहितः, उग्रः-उत्कृष्टः, अपराधो येन तादृशः, क्रुधेव क्रोधेनेव, रक्ताशोकप्रहृतिविहितोग्रापराधक्रुधेवेति पाठे तु तेनापराधेन या क्रुत्-क्रोधः, तयेवेत्यर्थः, प्रणतिचटलैः प्रणामार्थ चपलैः, प्रणामप्रवृत्तरित्यर्थः, क्षोणिपालाङ्कनानां
२३ तिलक०
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202