Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१७६
टिप्पनक-परागविवृतिसंवलिता । तस्यां च निजविभूतिजितसुरेन्द्रसदनसौन्दर्यायां नगर्यामनपवार्यविस्फूर्जथुपृथुप्रतापवज्राग्निजनितसकलारातिकुलपर्वतप्रमाथः स्वर्णाथ इव पार्थिवश्रीपरिभोगवाञ्छया प्रच्छादितसहजरूपो रूपलावण्यलघूकृतकुसुमायुधो धृतायुधैकदक्षिणबाहुसाहायकप्रसाधितानन्तप्रान्तदेशो देशान्तरभ्रान्तशशिकरावदातकीर्तिर्नीतिशास्त्रशाणनिशितनिर्मलप्रज्ञापरामर्शपरशुशातिताशेषविजिगीषुविजयोद्यमद्रुमः कल्पद्रुमः क्रमागतलोकानां वज्रपञ्जरो भीतानामुत्तम्भनस्तम्भो निजवंशवेश्मनः समीरो वैरिसुन्दरीसीमन्तसिन्दूरस्य क्रूरग्रहदृष्टिपातो दुष्टनिग्रह क्रियायामुदात्तनिजचरितचारणीकृतखेचरगणो गुणगरिमातिरेकतृणीकृतभरतसगराद्यादिराजो राजा कुसुमशेखरो नाम [ज] । यस्य मलयाचलस्येव पूर्वापरदिगन्तलब्धायतेर्दक्षिणोदधिवेलावनं व्यापद खिलमपि कटकविस्तारः [झ] ।
टिप्पनकम्-पूर्वापरदिगन्तलब्धायतेः एकत्र आयतिः-दैर्घ्यम् , अन्यत्र आज्ञा, कटकविस्तारः एकत्र कटकःप्रस्थः, अन्यत्र सैन्यम् [झ]।
च पुनः, निजविभूतिजितसुरेन्द्रसदनसौन्दर्यायां निजविभूत्या-खकीयैश्वर्येण, जितं-तिरस्कृतं, सुरेन्द्रसदनसौन्दर्यम्-अमरावतीरामणीयकं यया तादृश्यां, तस्यां प्रकृतायां नगर्या, काञ्चयामित्यर्थः, कुसुमशेखरो नाम तत्संज्ञकः, राजा.अस्ति इति शेषः। कीदृशः? अनपवार्यविस्फर्जेथपथप्रतापवजानिजनितसकलारातिकलपर्वतप्रमाथ: अ वार्यः-वारयितुमशक्यः, विस्फूर्जथुः-विशिष्टस्फूर्तियुक्तः, पृथु:-विशालः, एवंविधो यः प्रतापः-कोशदण्डजं तेजः, तद्रूपवज्राग्निना जनितः-कृतः, सकलारिकुलपर्वतानां सर्वशत्रुरूपकुलगिरीणां, प्रमाथः-विनाशो येन स तथा, पक्षे-अनपवार्य विस्फूर्जथु-विशिष्टवज्रनिर्घोषयुक्तं प्रतापं-प्रकृष्टतापयुक्तं च यद् वज्रं तदग्निना जनितः, सर्वशत्रुभूतपर्वतानां प्रमाथः-विनाशो येन स तथा, पार्थिवश्रीपरिभोगवाञ्छया पृथिवीस्थसम्पत्तिसंभोगेच्छया, प्रच्छादितसहजरूपः तिरोहितस्वाभाविकवरूपः, स्वणोथ इव वर्गाधिपतिरिव, सुरेन्द्र इवेयर्थः, इत्युत्प्रेक्षा; पुनः कीदृशः ? रूपलावण्यलघुकृतकुसुमायुधः रूपलावण्येन-खरूपसौन्दयेण, लघूकृतः-तिरस्कृतः, कुसुमायुधः-कामदेवो येन तादृशः; पुनः धृतायुधेकदक्षिणबाहुसाहायकप्रसाधितानन्तप्रान्तदेशः धृतः- गृहीतः, आयुधः-बाणो येन तादृशस्य, एकस्य-अद्वितीयस्य, दक्षिणबाहोः, साहायकेन-साहाय्येन, प्रसाधिताः-आयत्तीकृताः, अनन्ताः-अपरिच्छिन्नाः, प्रान्तदेशाः-निकटजनपदा येन तादृशः; पुनः देशान्तरभ्रान्तशशिकरावदातकीर्तिः देशान्तरेषु-अन्यान्यदेशे, भ्रान्ताः-प्रथिताः, शशिकरावदाताः-चन्द्रकिरणवदुज्वलाः, कीर्तयो यस्य तादृशः; पुनः नीतिशास्त्रशाणनिशितनिर्मलप्रज्ञापरामर्शपरशुशातिताशेषविजिगीषुविजयोद्यमद्रुमः नीतिशास्त्ररूपे शाणे-निकषोपले, निशितया-तीक्ष्णीकृतया, निर्मलया-विशुद्धया, प्रज्ञया-वुद्ध्या, यः परामर्शः-कर्तव्याकर्तव्यविवेकः, तद्रूपेण परशुना-कुठारेण, शातिताः-कर्तिताः, अशेषाणां, विजिगीषूणां-विजेतुमिच्छता, विजयोद्यमरूपाः-विजयोत्साहरूपाः, द्रुमाः-वृक्षा येन तादृशः; पुनः क्रमागतलोकानां क्रमेण-न्याय्यमार्गेण, यद्वा क्रम-चरणं चरणशरणमित्यर्थः, आगतानाम्-उपस्थितानां, लोकानां-जनानां, कल्पद्रुमः-कल्पवृक्षः, सर्वाभीष्टप्रद इत्यर्थः; पुनः भीतानां भयग्रस्ताना, वज्रपञ्जरः सुदृढ़पञ्जरः, सुरक्षक इत्यर्थः; पुनः निजवंशवेश्मनः खवंशरूपस्य गृहस्य, उत्तम्भनस्तम्भः उत्तम्भनाय-उत्थापनाय स्तम्भः-स्थूणादण्डः; पुनः वैरिसुन्दरीसीमन्तसिन्दूरस्य वैरिसुन्दरीणां-शत्रुरमणीनां, यत् सीमन्तसिन्दूरं-केशविन्यासाङ्गभूतं सिन्दूरं, तस्य समीरः-उत्क्षेपकः, तद्वैधव्यापादक इत्यर्थः; पुनः दुष्टनिग्रहक्रियायां दुष्टजनहननविधौ, क्रूरग्रहदृष्टिपातः पापग्रहाभिमुखीभावात्मकः; पुनः उदात्तनिजचरितचारणीकृतखेचरगणः उदात्तानाम्-उत्कृष्टानां, निजचरिताना-स्वचारित्राणां गायकीकृतः, खेचरगण:-विद्याधरगणो येन तादृशः; पुनः गुणगरिमातिरेकतृणीकृतभरतसगराधादिराजः गुणगरिमातिरेकेण-खगुणगौरवातिशयेन, तृणीकृताः-तृणवत्तुच्छत्वमापादिताः, भरतसगरादयः-भरत-सगरप्रभृतयः, आदिराजानः-प्राचीननृपतयो येन तादृशः[ज मलयाचलस्येव मलयपर्वतस्येव, पूर्वापरदिगन्तलब्धायतेः पूर्वापरदिगन्तयोः-पूर्वपश्चिमदिगन्तयोः, लब्धा-प्राप्ता, आयतिः-प्रभाव आज्ञा वा, पक्षे दैर्ध्य येन तादृशस्य, यस्य कुसुमशेखरस्य, कटकविस्तारः सैन्यविस्तारः, पक्षे प्रस्थविस्तारः, अखिलमपि समस्तमपि, दक्षिणोदधिवेलावनं दक्षिणसमुद्रतटवर्तिवनं, व्यापत् आक्रान्तवत् [झ] ।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202