Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१७४
टिप्पनक-परागविवृतिसंवलिता । कलध्वनिवर्धितानङ्गोत्साहानि संनिहितचन्दनशिशिरदीर्घिकातरङ्गपवनानि वनानि निधुवनानि च निषेवन्ते समं वनितासखाः सुखिनः [क्ष] । यत्र सायन्तनस्तानार्द्रवपुषां द्रविडयोषितामसान्द्रलग्नस्य हरिद्राद्रवरसस्य च्छायया पिञ्जरिततनुकिरणकन्दलो दलितचम्पककर्णपूरमनुकरोति कपोलदर्पणावलम्बी पार्वणो रजनिजानिः [] । यत्र तीरासन्नजातानां कतकविटपिनामनारतं गलद्भिः फलैः प्रशमितपकोदयानि निर्दयास्वपि कामिमिथुनमज्जनकेलिषु कालुष्यं नानुभवन्ति भवनदीर्घिकाजलानि [क] । यत्रैलालतासदनासूत्रितविचित्रमोहनाभिद्रविडयुवतिभिः प्रियेषु प्रयुज्यमानं बहुप्रकारमुपगृहनोपचारमुपशिक्षितुमिव क्रमुकवृक्षकानावेष्टयन्ति कृतविचित्रवलना नागरखण्डपत्रवल्लयः [ख] । यत्र च युवजनेन दयिताकपोलदशनच्छेदविद्यामभ्यसितुमनुदिवसमाच्छिद्यमानानि परिकर्मितान्यपि न यान्ति परमपरिपाकमजिरसहकारशाखिनांफलानि [ग]।
यस्यां गुणौघजुषि दूषणमेकमेव, यद् वासदन्तवलभीषु विलासिनीनाम् ।। उद्यन्नजस्रमसितागुरुदाहजन्मा, धूमः करोति मलिना नवचित्रभित्तीः ॥ १॥[घ।
आर्द्रपूगीफलानि-सरसक्रमुकफलानि येषु तादृशानि, पक्षे सुलभानि-नागवल्लीदलेन आणि पूगीफलानि येषु तादृशानिः पुनः कणत्कुररकुलकलध्वनिवर्धितानङ्गोत्साहानि क्वणतः-कूजतः, कुररकुलस्य-कुररजातीयपक्षिगणस्य, कलध्वनिभिःमधुरकूजितैः, वर्धितः, अनङ्गोत्साहः-कामोद्रेको येषु तादृशानीत्युभयत्र तुल्यम् ; पुनः सन्निहितचन्दनशिशिरदीर्घिकातरङ्गपवनानि सन्निहितैः-समीपस्थैः, चन्दनैः-चन्दनतरुभिः, शिशिराः-शीतलाः, दीपिकातरङ्गपवनाः वापीतरङ्गवायवो येषु तादृशानि, पक्षे सन्निहितानि चन्दनानि-चन्दनद्रवाः, शिशिरा दीर्घिकातरङ्गपवनाश्च यत्र तादृशानि [क्ष]। पुनः यत्र यस्यां नगर्या, सायन्तनस्नानार्द्रवपुषां सायन्तनेन-सन्ध्याकालिकेन, स्नानेन, आर्द्र-क्लिन्नं, वपुः-शरीरं यासां तादृशाना, द्रविडयोषितां द्रविडदेशवास्तव्याङ्गनानाम् , असान्द्रलग्नस्य विरलसंसृष्टस्य, हरिद्राद्रवरसस्य हरिद्रापङ्करसस्य, छायया प्रतिबिम्बेन, पिञ्जरिततनुकिरणकन्दलः पिञ्जरितं-पीतिमानमापादितं, तनुकिरणकन्दलं-सूक्ष्मकिरणनवाङ्कुरो यस्य तादृशः; कपोलदर्पणावलम्बी गण्डमण्डलात्मकदर्पणप्रतिबिम्बितः, पार्वणः पर्वणि-पूर्णिमायां भवः, रजनिजानिः रजनिः-रात्रिः, जाया-पत्नी यस्य सः चन्द्रमाः, दलितचम्पककर्णपूरं दलितं-विकसितं यच्चम्पर्क-तदाख्यपुष्पविशेषः, तद्रूपं, कर्णपूरं-कर्णाभरणम् , अनुकरोति विडम्बयति []। पुनः यत्र यस्यां नगर्याम् , तीरासन्नजातानां तटनिकटप्ररूढानां, कतकविटपिनां जलमलापनोदकफलप्रसविनां कतकाख्यवृक्षविशेषाणाम् , अनारतं निरन्तरं, गलद्भिः पतद्भिः, फलैः, प्रश-. मितपङ्कोदयानि प्रशमितः-निवर्तित;, पङ्कोदयः-कर्मोद्गमो येभ्यस्तादृशानि, निर्मलानि इत्यर्थः, भवनदीर्घिकाजलानि गृहा. सन्नवापीजलानि, निर्दयास्वपि अतिमात्राखपि, कामिमिथुनमजनकेलिषु कामुकदम्पतिमज्जनक्रीडासु सतीषु, कालुष्यं मलिनता, न अनुभवन्ति आपद्यन्ते [क] । पुनः यत्र यस्यां नगर्याम् , एलालतासदनासूत्रितविचित्रमोहनाभिः एलालतासदने-एलालतागृहे, आसूत्रिता-आवेष्टिता, विचित्रा-विलक्षणा, मोहना-तदाख्यकुटिललता याभिस्तादृशी भिः, द्रविडयुवतिभिः द्रविडाभिजनतरुणीभिः, प्रियेषु पतिषु, प्रयुज्यमानं क्रियमाणं, बहुप्रकारं नानाविधम् , उपगृहनोपचारम् आलिङ्गनोपकरणम् , उपशिक्षितुमिव विज्ञातुमिव, कृतविचित्रवलनाः कृतं विचित्रं-विलक्षणं, वलनं-सञ्चलनं याभिस्तादृश्यः, नागरखण्डपत्रवल्लयः नागराख्यौषधीवनपत्रलताः, मुकवृक्षान् पूगीफलवृक्षान् , आवेष्टयन्ति सर्वतः संयुञ्जन्ति [ख]। च पुनः, यत्र यस्यां नगर्याम् , दयिताकपोलदशनच्छेद विद्यां दयितायाः-प्रियायाः, कपोलयोः- गण्डस्थलयोर्यो दशनच्छेदः-दन्तक्षतं, तद्विद्या-तद्वैदग्धीम् , अभ्यसितुं शिक्षितुं, युवजनेन तरुणपुरुषेण, अनुदिवसं प्रतिदिनम् , आच्छिद्यमानानि संत्रोद्यमानानि, अजिरसहकारशाखिनां प्राङ्गणवर्तिपरमसुरभिचूतवृक्षाणां, फलानि, परिकर्मितान्यपि परिपाका) संस्कृतान्यपि, परमपरिपाकम् आत्यन्तिकपरिपाकं, न यान्ति प्राप्नुवन्ति [ग]।
गुणौघजुषि गुणगणविशिष्टायां, यस्यां काञ्चीनगर्याम् , एकमेव एकमात्रं, दूषणम् , यत् विलासिनीनां विलासवतीनां स्त्रीणां, वासदन्तवलभीषु वासाधिकरणभूतासु हस्त्यादिदन्तमयीषु चन्द्रशालासु, अजस्रं सन्ततम् , उद्यन् उद्गच्छन् , असितागुरुदाहजन्मा कालागुरुसंज्ञकधूपद्रव्याग्नितापजन्यः, धूमः, नवचित्रभित्तीः अभिनवचित्राधारकुख्यानि, मलिनाः कृष्णवर्णाः, करोति सम्पादयति । अत्र निन्दाव्याजेनानवरतसुगन्धिधूमोद्गमस्तुतिव्यञ्जनाद् व्याजनिन्दालङ्कारः ॥१॥ [घ]।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202