Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 185
________________ तिलकमञ्जरी १७३ शास्त्रम्, यत्र मन्दिरोपवनान्यावासनगराणि, तमालतरुनिकुञ्जाः सद्नानि, लवङ्गपल्लवस्रस्तराः पर्यङ्काः, प्रणयकलहाः कलयः, नखदशनविन्यासाः शरीराभरणमणयः, प्रियावदनशतपत्राणि पानपात्राणि, कामसूत्र मध्यात्मवाजीकरणयोगोपयोगो व्याधिभेषजम्, अनङ्गपूजा देवतार्चनम्, सुरतदूतिका गुरवो भुजङ्गवर्गस्य [श ] | यत्र हृन्मर्मभेदिनः कटाक्षाः कुसुमेषवः, लवङ्गककोलपरिमलवाही मुखानिलो मलयसमीर ः, स्फुटितकुमुदोज्वलः स्मितालोकश्चन्द्रोदयः सच्छायतनुलताभिरामो नवयौवनावतारो मधुसमयः, चित्तोन्मादकारिणी वचनचाटुपद्धतिर्मदिरा, कोकिलध्वनिकला कृतकको पहुङ्कृतिः पञ्चमोद्वार:, इति केवलासु प्रमदासु परिसमाप्यते समस्तापि जैत्रा तन्त्रसामग्री कुसुमकार्मुकस्य [स] । यत्र मधुकरध्वनिपटुहुङ्काराणि समुल्लसत्सरससहकारमञ्जरीतर्जनिकानि कृततर्जनानीव प्रियकरोत्क्षिप्तासु मुक्ताशुक्तिषु विलोकयन्ति तालफलरसमधूनि ध्वस्तमानावलेपा विलासिन्यः [ ह ] । यत्र सुलभनागवल्लीदलार्द्रपूगीफलानि क्वणत्कुररकुल टिप्पनकम् - वाजीकरणयोगोपयोगः शुक्रोपचयचूर्णभक्षणम् [ रा ] | रक्तत्वं भङ्गुरता न । पूज्यनामसु गुरुजनसंज्ञाशब्देषु बहुवचनप्रयोगः आदरार्थं बहुवचनविभक्तिप्रयोगः, पुनः परप्रयोजनाङ्गीकरणेषु परेषाम्-अन्येषाम्, यत् प्रयोजनम् - उद्देश्यम्, तदङ्गीकरणेषु तत्सम्पादनप्रतिज्ञासु, बहुवचन प्रयोगः अव्यवस्थितार्थकविविधवाक्यप्रयोगो न । रतेषु संभोगेषु, विभ्रमः विलासः, कामिनीचेष्टाविशेष इत्यर्थः, पुनः चित्तेषु लोकानां हृदयेषु, विभ्रमः विशेषेण भ्रान्तिः न । अत्र सर्वत्र श्लेषानुप्राणित परिसंख्यालङ्कारः [व] । यत्र यस्यां नगर्याम्, मन्दिरोपवनानि मन्दिरनिकटवर्त्यद्यानान्येव, आवासनगराणि निवासोपयोगिनगराणि, तमालतरुनिकुञ्जः तमाललतापिहितोदरगृहा एव, सदनानि निवासगृहाः, लवङ्गपल्लवस्त्रस्तराः लवङ्गलतानूतन पत्रमयकटा एव, पर्यङ्काः विशिष्टखदाः; प्रणयकलहाः प्रेमप्रयुक्त कलहा एव, कलयः युद्धानि; नखदशनविन्यासाः नखदन्तसंस्थान्येव शरीराभरणमणयः शरीरालङ्करणरत्नानि; प्रियावदनशतपत्राणि प्रणयिनीमुखकमलान्येव, पानपात्राणि रसपानाधारपात्राणि; कामसूत्रं वात्स्यायनप्रणीतसूत्रात्मककामशास्त्रमेव, अध्यात्मशास्त्रम् आध्यात्मिकविद्या; वाजीकरणयोगोपयोगः सम्भोगकालिकशुक्रस्तम्भनोपायप्रयोगः एव, व्याधिभेषजं रोगौषधम् ; अनङ्गपूजा कामदेवाराधनमेव, देवतार्चनं देवाराधनम्, सुरतदूतिकाः सम्भोगाभिसारिका एव, गुरवः अभिमत मार्गदर्शिका: भुजङ्गवर्गस्य विटगणस्य [ रा ] । यत्र यस्यां नगर्याम्, हृन्मभेदिनः हृदयसम्बन्धिमर्माघातकाः, कटाक्षाः विलासिनीनामपाङ्गदर्शनान्येव, कुसुमेषवः पुष्पबाणाः; लवङ्गकक्कोल परिमलवाही लवङ्गकक्कोलाख्यलताविशेषसम्बन्धिगन्धवाहकः, मुखानिलः मुखमारुत एव मलयसमीरः मलयपवनः; स्फुटितकुमुदोज्ञलः विकसित कैरववद्विशदः स्मितालोकः मन्दहासप्रकाश एव, चन्द्रोदयः चन्द्रप्रकाशः सच्छायतनुलताभिरामः सती छाया - कान्तिर्यस्याः सा सच्छाया तादृश्या, तनुलतया - शरीरलतया, अभिरामः - मनोहरः, नवयौवनावतारः नवीन तारुण्योद्गम एव, मधुसमयः वसन्तकालः; चित्तोन्मादकारिणी हृदयोन्मादजननी, वचनचाटुपद्धतिः प्रियवचनरीतिरेव, मदिरा मद्यम्; कोकिलध्वनिकला कोकिलकूजितवदव्यक्तमधुरा, कृतककोपहुङ्कृतिः कृत्रिमक्रोधहुङ्कार एव, पञ्चमोद्वारः पञ्चमखरः : इति ईदृशी, कुसुमकार्मुकस्य कामदेवस्य, जैत्रा जयनशीला, समस्तापि सकलापि, तन्त्रसामग्री मारण- मोहन वशीकरणोपकरणानि, केवलासु प्रमदासु विशिष्टस्त्रीषु, परिसमाप्यते परिपूर्यते [स]। पुनः यत्र यस्यां नगर्यो, प्रियकरोत्क्षिप्तासु प्रियहस्तोद्धृतासु, मुक्ताशुक्तिषु मुक्तोपादानशुक्तिषु, मधुकरध्वनिपटुहुङ्काराणि मधुकरध्वनयः - भ्रमरगुञ्जितान्येव, पटुहुङ्काराः - स्फुटहुङ्कारा येषु तादृशानि पुनः समुल्लसत्सरससहकारमञ्जरीतर्जनिकानि समुहसन्ती - सम्यगुद्वेलन्ती, सरसा - आर्द्रा, सहकारमञ्जरी - अतिसुरभिचूतमञ्जर्येव, तर्जनी - तर्ज्यते भर्त्स्य यया सा अङ्गुष्टसमीपाङ्गुली येषु तादृशानि अत एव कृततर्जनानीव कृतभर्त्सना नीवेत्युत्प्रेक्षा, तालफलरसमधूनि तालफलसम्बन्धिरसरूपमद्यानि, ध्वस्तमानावलेपाः ध्वस्तः, मानः - चित्तोद्रेक ईर्ष्यति यावत्, अवलेपः - गर्वश्च यासां तादृश्यः, विलासिन्यः विलासशीलाः स्त्रियः, विलोकयन्ति पश्यन्ति [ह]। पुनः यत्र यस्यां नगर्या, वनितासखाः स्वविलासिनीसमेताः, सुखिनः सुखोपभोक्तारो जनाः, वनानि च पुनः, निधुवनानि सुरतानि, समं तुल्यं, निषेवन्ते नितरां सेवन्ते, कीदृशानि ? सुलभनागवल्लीदलाई पूगीफलानि सुलभानि - अनायासलभ्यानि, नागवल्लीदलानि - ताम्बूलपत्राणि, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202