Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 183
________________ तिलकमञ्जरी १७१ प्रख्यस्य सर्वतः प्रेङ्खतः परिखाजलप्राग्भारस्य तरङ्गविक्षिप्तेन फेनविसरेणेव दिवसैः स्फातिमुपगतेन स्फाटिकधवलभित्तिना प्राकारेण परिवृता, विधृततट साधर्म्य हर्म्यावलीधृतोभय विभागैरजिरपुञ्जितप्राज्यरत्नप्रभाजालजलनिर्भरैरनवरतवहत्समुद्रयायिजननिवह कलकलाक्रान्तदिक्चकैः क्षितिरिव प्रलय महापगास्रोतोभिः समन्ततः सीमन्तिता विशालायतैर्विपणिपथैः आवासितशरज्जलदशिबिरेव सुरमन्दिरैः, बन्दीकृत समस्त - भोगभूमिरिव परिसरारामैः, एकीकृताशेषविषयान्तरेव सर्वदेशभाषाश्रुतिभिः, उद्घाटित समग्रासुरविवरेव विलासिनीवासभवनैः, अनतिदूरवर्तिनी दक्षिणोदधेरपारधनकनकसञ्चया काञ्ची नाम नगरी [य] । यत्र नागवल्लीलालसा धनिन उद्यानपालाश्च परमतज्ज्ञाः पौराः प्रामाणिकाश्च, सफलजातयः श्रोत्रिया गृहा ww " टिप्पनकम् - कुलीरः - कर्कटकः । प्रख्यः सदृशः । अनवरतवहत्समुद्रयायीत्यादि विशेषणानि, एकत्र वहन् - मानो यः समुद्रगन्तृलोकसंघातः, अन्यत्र वहन् - गच्छन्, यः समुद्रयायिजनसंघातः, शेषं तुल्यम् [य ] | काञ्ची नाम काञ्चीनाम्नी नगरी, अस्ति वर्तते, कीदृशी ? निजशोभाजित समस्तभुवनान्तःपुरा निजयास्वकीयया, शोभया-प्रासादादि सौन्दर्येण जितानि - अधरीकृतानि, समस्तानि, भुवनान्तःपुराणि भुवनान्तर्गतानि नगराणि यया, पक्षे निजशोभया - स्वकीयकान्त्या दिगुणोत्कर्षेण, जितानि - अधरीकृतानि, भुवनानां जगताम्, अन्तःपुराणि - राजाङ्गनानिवासस्थानानि यया तादृशी, सकलभूचक्रवर्तिनः अखण्डभूमण्डलेश्वरस्य, मर्त्यलोकस्य मर्त्यभुवनस्य, महादेवीव पट्टराज्ञीव; पुनः लवणसागरेण लवणसमुद्रेण, लङ्केव लङ्काख्यरावणनगरीव, पुनः अन्तरिक्षेण गगनमण्डलेन, यद्वा तद्वर्तिग्रहादिलोकेन, त्रिदशन गरीव देवनगरीव, मकर-कुलीर-मीनराशिसंकुलेन मकराणां-तजातीयजलचरविशेषाणां, कुलीराणां - कर्कटानां, मीनानां - मत्स्यानां च, राशिना - समूहेन, अन्तरिक्षपक्षे मकर - कुलीर-मीनात्मकैः राशिभिः - सपादनक्षत्रयुगलैः, संकुलेन - व्याप्तेन, परिखामण्डलेन परितः कृतगर्त भूमिमण्डलेन, कृतपरिकरा कृतपरिवेष्टना; पुनः प्राकारेण आवेष्टनेन परिवृता आवेष्टिता, कीदृशेन ? कुण्डलितसागरप्रख्यस्य परिखाकारेण वेष्टितसमुद्रतुल्यस्य, सर्वतः सर्वभागेषु, प्रेङ्खतः प्रवहतः परिखाजलप्राग्भारस्य परिखाजलराशेः तरङ्गविक्षितेन तरङ्गोत्पातितेन, पुनः दिवसैः कतिपयदिनैः, स्फातिं वृद्धिम्, उपगतेन प्राप्तेन, फेनविसरेणेव फेनसमूहेनेवेत्युत्प्रेक्षा, स्फाटिकधवलभित्तिना स्फटिकाख्यमणिमयशुभ्रभित्तिशालिना, पुनः विशालायतैः विशालैः, आयतैः- दीर्घेश्च, विपणिपथैः पण्यवीयिका मार्गैः, प्रलय महापगास्रोतोभिः कल्पान्तकालिक महानदीतरङ्गैः, क्षितिरिव भूमिरिव, समन्ततः सर्वतः, सीमन्तिता व्याप्ता, कीदृशैः ? विधृततटसाधर्म्यहर्म्यावलीधृतोभयविभागैः विधृतं - गृहीतं, तटसाधर्म्य - तटसाम्यं यया तादृश्या, हर्म्यावल्या - धनिकगृहपङ्ख्या, धृतः, उभयविभागः - पार्श्वद्वयं येषां तादृशैः, पुनः अजिरपुञ्जितप्राज्यरत्नप्रभाजालजलनिर्भरैः अजिरे- प्राङ्गणे, पुञ्जितानां - संगृहीतानां, प्राज्यरत्नानांप्रचुरमणीनां, प्रभाजालरूपैः - द्युतिसमूहात्मकैः, जलैः, निर्भरैः- पूर्णैः, पुनः अनवरतवहत्समुद्रयायिजननिवह कलकलाकान्तदिक्चकैः अनवरतं - निरन्तरं वहतां - नीयमानानां, पक्षे गच्छतां, समुद्रयायिजनानां - समुद्रयात्रिकजनानां निवहस्यसमूहस्य, कलकलेन - कोलाहलेन, आक्रान्तं पूर्ण, दिक्चक्रं - दिङ्मण्डलं यैस्तादृशैः; पुनः सुरमन्दिरैः देवमन्दिरैर्हेतुभिः, आवासितशरज्जलद शिबिरेव आवासितं - संस्थापितं, शरज्जलदशिबिरं - शरत्कालिक मेघसैन्यावासो यया तादृशीव; पुनः परिसरारामैः प्रान्तवयुपवनैर्हेतुभिः, बन्दीकृत समस्तभोगभूमिरिव बन्दीकृताः - स्तुतिपाठकीकृताः, दासीकृता इत्यर्थः यद्वा कारागारनियन्त्रिताः, समस्ताः - सकलाः, भोगभूमयः -- भोगस्थानानि यया तादृशीव; पुनः सर्वदेशभाषाश्रुतिभिः अखिलदेशभाषाश्रवणैः, एकीकृताशेषविषयान्तरेव एकीकृतानि - ऐक्यमापादितानि, अशेषाणि - समस्तानि, विषयान्तराणि - देशान्तराणि यया तादृशीव; पुनः विलासिनीवासभवनैः निन्नवर्तिसम्भोगवतीवासगृहैर्हेतुभिः, उद्घाटितसमप्रासुरविवरेव उद्वाटितं - मुक्तकपाटं, समग्रं समस्तम्, असुरविवरं - राक्षसबिलं, पातालमित्यर्थः, यया तादृशीव; पुनः दक्षिणोदधेः दक्षिणसमुद्रस्य, अनतिदूरवर्तिनी किञ्चिद् दूरवर्तिनी; पुनः अपारधनकनकसञ्चया अपारः - अपरिमितः धनानां - सुवर्णातिरिक्तधनानां, कनकानां - सुवर्णानां च सञ्चयः -संग्रहो यस्यां तादृशी [य] । यत्र यस्यां नगर्यां धनिनः धनिकाः, च पुनः, उद्यानपालाः उपवनरक्षकाः, नागवल्लीलालसाः आये ताम्बूलात्यन्ताभिलाषिणः, अन्त्ये नागवत् - हस्तिवत् लीलायां-क्रीडायाम्, अलसाः-आलस्ययुक्ताः । पौराः तत्पुरवास्तव्याः, च पुनः, प्रामाणिकाः प्रमाणेन प्रवर्तिनो जनाः, परमतज्ज्ञाः आये "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202