Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 184
________________ १७२ टिप्पनक-परागविवृतिसंवलिता । रामाश्च, हरिद्रासान्द्ररुचयो रागिणः सुवर्णचम्पकस्तबकनिचयाश्च, प्रगुणविशिखा गृहनिवेशाः सुभटबाणधयश्च, बहुमालिकाः प्रासादाः प्रकृतयश्च, सकुञ्चितालकाः प्रधानापणाः प्रमदाललाटलेखाश्च, सुराभिरामाभिरुचितकारिण्यः पण्यवनिताः पौरयुवतयश्च [२] । यत्र नारङ्गपनसकदलकप्रायमशनम् , नालिकेरीफलरसप्रायं पानम् , मुक्ताफलप्रायमाभरणम् , कृपाप्रायं धर्मानुष्ठानम् , दानप्रायं कर्म, सत्यशौचप्रायमाचरणम्, शास्त्रविचारणप्रायो विनोदो निवासिलोकस्य[ल] । यत्र मुग्धता रूपेषु न सुरतेषु, हरिद्रारागो देहेषु न स्नेहेषु, बहुवचनप्रयोगः पूज्यनामसु न परप्रयोजनाङ्गीकरणेषु, विभ्रमो रतेषु न चित्तेषु [व]। नागवल्लीलालसा धनिन उद्यानपालाश्च एकत्र करिण इव विलासमन्थराः, अन्यत्र ताम्बूलीलम्पटाः । परमतज्ज्ञाः पौराःप्रामाणिकाश्च एकत्र अन्याभिप्रायवेदकाः, अन्यत्र बौद्धादिदर्शनज्ञातारः। सफलजातयः श्रोत्रिया गृहारामाश्च एकत्र सफलब्राह्मणाः[ण्याः], अन्यत्र सफलजन्मानः, फलयुक्तमालतीवृक्षा वा। हरिद्रासान्द्ररुचयो रागिणः सुवर्णचम्पकस्तवकनिचयाश्च एकत्र हरिद्रया, अन्यत्र हरिद्रावत् , सान्द्रा-बहला, रुचिः-दीप्तिर्येषां ते तथोक्ताः। प्रगुणविशिखा गृहनिवेशाः सुभटबाणधयश्च एकत्र प्राञ्जलरथ्याः, अन्यत्र प्रकृष्टबाणाः, बाणधिः-तूणीरः । बहुमालिकाः प्रासादाः प्रकृतयश्च एकत्र अनेकभूमिकाः, अन्यत्र नानामालाकाराः । सकुश्चितालकाः प्रधानापणाः प्रमदाललाटलेखाश्च एकत्र कुञ्चिकासहिततालकाः, अन्यत्र कुटिलकेशसहिताः । सुराभिरामाभिरुचितकारिण्यः पण्यवनिताः पौरयुवतयश्च एकत्र मदिराभिर्नूतनाभिश्च स्वार्थायोचितकरणशीलाः, अन्यत्र देवरमणीयप्रियतमकर्व्यः । मुग्धता रूपेषु मनोज्ञता, न रतेषु मूढता । हरिद्रारागः हरिद्रारक्तत्वं, देहेषु शरीरेषु, न स्नेहेषु हरिद्रावद् रक्तत्वम्अस्थिरता । बहुवचनप्रयोगः जसादिप्रयुक्तिः, पूज्यनामसु गुरव इत्यादिषु, न परप्रयोजनाङ्गीकरणेषु नानावचनोच्चारणम् , एकवचनेनैवाङ्गीकुर्वन्तीति । विभ्रमो रतेषु न चित्तेषु विभ्रमः-विलासः, अन्यत्र भ्रान्तिः [व] । परेषाम्-अन्येषाम् , यद् मतं-मन्तव्यम् , अभिप्राय इति यावत् , तज्ज्ञाः -तज्ज्ञातारः, अन्त्ये परेषाम्--अन्येषां, बौद्धादीनां, यद् मतं-दर्शनं, तज्ज्ञाः-तज्ज्ञातारः। श्रोत्रियाः वेदाध्येतारः, च पुनः, ग्रहारामाः गृहसमीपोद्यानानि, सफलजातयः आद्ये वैदिककर्मानुष्ठानेन सार्थकजन्मानः, अन्त्ये-सफलाः-फलविशिष्टाः, जातयः-मालतीवृक्षा येषु तादृशाः । रागिणः अङ्गरागप्रियाः, च पुनः, सुवर्णचम्पकस्तबकनिचयाः सुवर्णतुल्यवर्णकचम्पकविशेषगुच्छराशयः, हरिद्रासान्द्ररुचयः आये हरिद्राभिः-हरिद्रारसैः, अन्ये हरिद्रावत् , सान्द्रा-निबिडा, रुचिः-कान्तिर्येषां तादृशाः। गृहनिवेशाः गृहपतयः, च पुनः, सुभटबाणधयः सुभटाना-सुयोधानां, बाणधयः-बाणाधारा निषङ्गाः, प्रगुणविशिखाः आये प्रगुणा-सरला, विशिखारथ्या येषु, अन्ये प्रगुणाः-सरलाः, विशिखाः-बाणा येषु तादृशाः। प्रासादाः राजमन्दिराणि, च पुनः, प्रकृतयः पौरगणाः, बहुमालिका आद्ये माला एव मालिकाः, बह्वयो मालिकाः-भूमिकाः खण्डा इत्यर्थः, येषु, अन्त्ये बहवः मालि मालाकारा इति यावत् , येषु तादृशाः । प्रधानापणा: मुख्यक्रय्यवस्तुशालाः, च पुनः, प्रमदाललाटलेखाः स्त्रीविशेषललाटपतयः; सकुञ्चितालकाः आधे कुम्च्यां-कुञ्चिकया सरिताः, तालका येषु, अन्त्ये कुश्चिताः-कुटिलाः, अलका:-चूर्णकुन्तलाः केशा यासु तादृश्यः। पण्यवनिताः वेश्याः, च पुनः, पौरयुवतयः तत्पुरवासितरुण्यः, सुराभिरामाभिरुचितकारिण्यः आये आमाभिः-अपरिणताभिः, नवीनाभिरित्यर्थः, सुराभिः-मदिराभिः, उचितकारिण्यः उचितं-कामिजनार्ह यत् कार्य, तत्कारिण्यः-खार्थार्थ तत्कारणशीलाः, अन्त्ये सुरवत्-देववत् , अभिरामः-रमणीयो यः पतिः, तस्य यद् अभिरुचितं-प्रियतम, तत्कारिण्यः । अत्र सर्वत्र श्लेषानुप्राणिततुल्ययोगितालङ्कारः [र] । यत्र यस्यां नगर्यां, नारङ्ग-पनस-कदलकप्रायं तत्तत्संज्ञकफलप्रचुरकम् , अशनं भोजनम् , पुनः नालिकेरीफलरसप्रायं नालिकेरीफलसम्बन्धिरसप्रचुरकं, पानम् , पुनः मुक्ताफलप्रायं मुक्तामणिप्रचुरकम् , आभरणम् अलङ्करणम् , पुनः कृपाप्रायं लोकानुग्रहप्रचुरकं, धर्मानुष्ठानं धर्माचरणम् , पुनः दानप्रायं दानप्रचुरकं, कर्म क्रियाः, पुनः सत्यशौचप्रायं यथार्थव्यवहारान्तर्बहिःशुद्धिप्रचुरकम् , आचरणं चारित्रम् , पुनः निवासिलोकस्य तन्नगरीवास्तव्यजनस्य, शास्त्रविचारणप्रायः शास्त्रीयचर्चाप्रचुरकः, विनोदः प्रमोदः, अत्र सर्वत्र व्यतिरेकालंकारः [ल] । यत्र यस्यां नगर्याम् , रूपेषु लोकशरीरेषु, मुग्धता सौन्दर्यम् , पुनः सुरतेषु स्त्रीसंभोगेषु, मुग्धता अपाटवं न। देहेषु शरीरेषु हरिद्रारागः हरिद्राद्रवोपलेपनम् , पुनः स्नेहेषु प्रीतिषु, हरिद्रारागः हरिद्रावद् "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202