Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१७०
टिप्पनक-परागविवृतिसंवलिता।
मामीहशस्य मानसदुःखभारस्य भाजनं कृता महानुभावा दैवेन' इति सोद्वेगविस्मयः समाश्वास्य तां सुचिरमुत्थाय च कराञ्जलिपुटावर्जितं दीर्घिकाजलमुपानयम् । सापि किञ्चिद्विरलशोका बाष्पजलपरिप्लुतारपक्ष्म भालं प्रक्षाल्य तेन प्रमृज्य चोत्तरीयपल्लवप्रान्तेन वदनमुत्सृष्टदीर्घनिःश्वासा विलम्ब्य कञ्चित्कालमुपचक्रमे वक्तुम् [भ]-'कुमार ! निर्जनारण्यवासिनो जीर्णवल्कलनिवसनस्य वन्यफलभुजः स्थण्डिलातिवाहितनिशासमयनिद्रस्य दुष्कृतकारिणो मद्विधजनस्य प्रागवस्थोपवर्णनमतिशयेन व्रीडाकरम् , पृष्टा च त्वयाहम् , अतो न तूष्णीमासितव्यम् , किन्तु सर्वदा सुखोचितस्य तेन किञ्चिदनेकदुःखपरम्पराविरसेन श्रुतेनानेन फलम् । अथ कुतूहलं ततः शृणु, निवेदयामि, यात्वनेनैव तावद् विनोदेन सर्वदैव दुःखोपतप्ताया दिनमिदं मे । त्वमपि भुवनत्रयप्रथितमहामहिमा महामेदिनीपालसूनुः समानदेशावाप्तजन्मा कथञ्चिद् गृहमुपागतः प्राप्नुहि जनान्निष्किञ्चनादपूर्वं तावदिदमेवातिथ्यम्' [म ] इत्यभिधाय भूयः कृताश्रुपाता शनैः शनैरारभत कथयितुम्
अस्ति निजशोभाजितसमस्तभुवनान्तःपुरा महादेवीव सकलभूचक्रवर्तिनो मर्त्यलोकस्य, लङ्केव लवणसागरेण त्रिदशनगरीवान्तरिक्षेण कृतपरिकरा मकरकुलीरमीनराशिसंकुलेन परिखामण्डलेन, कुण्डलितसागर
मानसदुःखभारस्य हार्दिकदुःखराशेः, भाजनं पात्रं, स्थानमित्यर्थः, कृता सम्पादिता' इति इत्थं, सोद्वेगविस्मयः उद्वेगविस्मयाभ्यां-सम्भ्रमाश्चर्याभ्यां सहितः, सुचिरम अतिदीर्घ कालम् , तां तापसकन्यकां, समाश्चास्य सम्यक सान्त्वयित्वा, च पुनः, उत्थाय कराञ्जलिपुटावर्जितं हस्ताञ्जलिरूपपात्रगृहीतं, दीर्घिकाजलं वापिकाजलम् , उपानयम् आनीतवान् । सापि तापसकन्यकापि, किञ्चिद्विरलशोका किञ्चिन्मन्दशोका, बाष्पजलपरिप्लुतारपक्ष्म बाप्पजलैः- अश्रुजलैः-परिप्लुते क्लिन्ने, आरपक्ष्मणी-प्रान्तभागस्थनेत्ररोमराजी यत्र तादृशं, भालं ललाटं, तेन दीर्घिकाजलेन, प्रक्षाल्य विशोध्य, च पुनः उत्तरीयपल्लवप्रान्तेन उत्तरीयस्य-ऊर्ध्वदेहधार्यवस्त्रस्य पल्लवप्रान्तेन-नूतनदलतुल्यकोमलाग्रभागेन, वदनं मुखं, प्रमृज्य विशोध्य, 'बाप्पजलपरिप्लतारपक्ष्ममालम्' इति पाठे तु वदनमित्यस्य विशेषणमेतद् , बाष्पजलेन परिप्लुता आरपक्ष्ममालापक्ष्मप्रान्तरोमराजी यत्रेति, उत्सृष्टदीर्घनिःश्वासा उत्सृष्टः-त्यक्तः, दीर्घः-महान् , निःश्वासः-नासिकावायुर्यया तादृश्नी, कश्चित् कियन्तं, कालं, विलम्ब्य विश्रम्य, वक्तुं वक्ष्यमाणरीत्या कथयितुम् , उपचक्रमे आरेभे [भ] । कुमार युवराज ! निर्जनारण्यवासिनः निर्जनवनवास्तव्यस्य, पुनः वन्यफलभुजः वनसम्बन्धिफलाहारिणः, पुनः स्थण्डिलातिवाहितनिशासमयनिद्रस्य स्थण्डिले-चत्वरभूमौ, अतिवाहिता-व्यतीता, निशासमयनिद्रा-रात्रिकालिकनिद्रा येन तादृशस्य, दुष्कृतकारिणः अनुपदोक्तदुःखावहकार्यकारिणः, मद्विधजनस्य मादृशव्यक्तेः, प्रागवस्थोपवर्णनं पुरातनावस्थाकीर्तनम् , अतिशयेन अत्यन्तं, ब्रीडाकरं लज्जाजनकम् । च पुनः, त्वया, अहम्, पृष्टा पूर्वावस्थाजिज्ञासां विज्ञापिता, अतः अस्मात् कारणात् , तूष्णीं मौनावस्थया, न आसितव्यम् उपवेष्टव्यम् , किन्तु सर्वदा सर्वकालं, सुखोचितस्य अभ्यस्तसुखस्य, ते तव, अनेकदुःखपरम्पराविरसेन अनेकया-बया, दुःखपरम्परया-दुःखश्रेण्या, विरसेन-नीरसेन, अप्रियेणेत्यर्थः, अनेन मत्पूर्ववृत्तान्तेन, श्रुतेन श्रवणगोचरीकृतेन, किश्चित् किमपि, फलं प्रयोजनं न, अस्तीति शेषः । अथ यदि, कुतूहलम् औत्सुक्यम् , ततः तर्हि, शृणु श्रवणगोचरीकुरु, निवेदयामि, विज्ञापयामि, स्वपूर्वावस्थामिति शेषः । सर्वदैव सर्वकालमेव, दुःखोपतप्तायाः दुःखाक्रान्तायाः, मे मम, इदं वर्तमानं, दिनम् , अनेनैव स्वपूर्ववार्तोपन्यासविषयकेणैव, विनोदेन प्रमोदेन, यातु व्यत्येतु, तावदिति वाक्यालङ्कारे । भुवनत्रयप्रथितमहामहिमा भुवनत्रये-लोकत्रये, प्रथितःप्रसिद्धः, महामहिमा अत्यन्तमाहात्म्यं यस्य तादृशः, पुनः महामेदिनीपालसूनुः महामेदिनीपालस्य-महाराजस्य, मेघवाहनस्येत्यर्थः, सूनुः पुत्रः, पुनः समानदेशावाप्तजन्मा समाने-एकस्मिन्नेव, देशे-जनपदे, अवाप्तं-लब्धं, जन्म येन तादृशः, पुनः कथञ्चित् केनापि प्रकारेण, महता क्लेशेनेत्यर्थः, गृहं मदीयवसतिम् , उपागतः अभ्यागतः, निष्किञ्चनात् सर्वथैवातिथ्यसामग्रीशून्यात् , जनात् मत्तः, अपूर्व विलक्षणम् , इदमेव मत्पूर्ववार्ताश्रवणरूपमेव, आतिथ्यम् अतिथिसत्कार, तावत् प्रथमं, प्रामुहि गृहाण' इति इत्थम् , अभिधाय उक्तवा, भूयः पुनः, कृताश्रुपाता स्पन्दितनयनजला, शनैः शनैः मन्दं मन्द, कथयितुं वपूर्ववार्तामावेदयितुम् , आरभत प्रारब्धवती [ म] ।
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202