Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१६८
टिप्पनक-परागविवृतिसंवलिता। स्थित्वा च कञ्चित् कालमवचना पूर्वदृष्टमिव सह संवृद्धमिव दृढमारूढप्रणयमिव चिरसमागतमभीष्टबन्धुमिव सस्नेहमवलोकयन्ती पुनः पुनर्मां तमेव पूर्वमावेदितं विस्तरेण द्विपापहारवृत्तान्तमपृच्छत् [न] ।
दृष्ट्वा च तां तथाविधामतिरेकमन्तःप्रकटितप्रीतिमुत्पन्नदृढतरसौहृदोऽहं सोद्वेगमवदम्-'महाभागे! नैसर्गिकान्तःस्वच्छतापिशुनेन प्रणयिहृदयाह्लादकारिणा सर्वथैवोपलक्षितपक्षपातेन तवामुना शीलेन तरलतां नीतो न शक्नोमि निभृतः स्थातुम् , येन 'आत्मनो महिमानमिच्छता पुरुषेण पूर्वे वयस्यपूर्वा सर्वापि परयोषित् प्रायशो न बहु भाषणीया, विशेषतः प्रथमयौवना व्रतस्था यतात्मनामपि मोहविकारहेतुरेकाकिनी रूपलावण्यादिगुणगणावासस्वादशी' इति विद्वानपि भवत्याः प्रवृत्तोऽहं प्रश्नकर्मणि[प]। कथय-का त्वम् ? कस्मिन्नखिलदोषमुक्ते मुक्तेव देवारण्यवंशे वंशे समुत्पन्नासि ? कानि ते हृदयदाहज्वरहराणि दिव्यमन्त्रपदानीव नामाक्षराणि क्षरन्ति कर्णयोरमृतम् ? केनात्र तव वपुषि देवाङ्गनिवसना गर्हणानपेक्षेण विनिक्षिप्तान्यमूनि वृक्षाणां वल्कलानि ? किं फलमतिशयस्वादुरसमभिलष्य विरसान्यनुदिवसमश्नासि वन्यद्रुमफलानि ? केन
टिप्पनकम्-मुक्तेव देवारण्यवंशे मुक्ताफलमिव सुरवनवेणी, अन्यत्र देवारण्यसम्बन्धिनि कुले [फ] ।
च पुनः स्थित्वा उपविश्य, कश्चित कियन्तं. कालम. अवचना मौनमवलम्बमाना, पर्वष्यमिव प्रागवलोकितमिव, पुनः सह संवृद्ध मिव सह-खेन साकं. संवृद्ध-तारुण्यापन्नमिव, पुनः दृढम् अत्यन्तम् , आरूढप्रणयमिव सञ्जातसख्यमिव, पुनः चिरसमागतं चिरेण-दीर्घकालेन, समागतं समुपस्थितम् , अभीष्टबन्धुमिव अभिमतबन्धुमिव, सस्नेहं सप्रीति, अवलोकयन्ती पश्यन्ती, पूर्वम् , आवेदितं ज्ञापितं तमेव द्विपापहारवृत्तान्तं गजकर्तृकापहरणवार्ता, पुनः पुनः अनेकवारं, मां, विस्तरेण सविस्तरम् , अपृच्छत् पृष्टवती [न] ।
च पुनः. तथाविधां सस्नेहावलोकनपराम, पुनः अतिरेकम अत्यन्तम, अन्तःप्रकटितप्रीतिम अन्तःअन्तःकरणे, प्रकटिता-आविष्कृता, प्रीतिर्यया तादृशीम् , तां तापसकन्यकां, दृष्ट्वा साक्षात्कृत्य, उत्पन्नदृढतरसौहृदः उद्भूतसान्द्रसख्यः, अहम् , सोद्वेगं ससम्भ्रमम् , अवदम् उक्तवान् , महाभागे! महानुभावे ! नैसर्गिकान्त स्वच्छतापिशुनेन स्वाभाविकान्तःकरणनिर्मलतासूचकेन, पुनः प्रणयिहदयाह्लादकारिणा प्रियजनमानसानन्दजनकेन, पुनः सर्वथैव सर्वात्मना, उपलक्षितपक्षपातेन प्रतीतानुरागेण, अमुना अनुभूतेन, तव, शीलेन स्वभावेन, तरलतां चपलता, वाचालतामित्यर्थः, नीतः प्रापितः, अहम् , निभृतः निःशब्दः, स्थातुं न शक्नोमि प्रभवामि, येन यस्मात् कारणात् , 'आत्मनः खस्य, महिमानं महत्ताम् , इच्छता कामयमानेन, पुरुषेण पुंजनेन, पूर्वे, वयसि अवस्थायां, यौवनावस्थापन्नेनेत्यर्थः, अपूर्वा अपरिचिता, सर्वापि सकलापि,परयोषित् परस्त्री,प्रायशः बाहुल्येन, बहु अधिकं, न भाषणीया, आलपनीया, विशेषतः किमुत, प्रथमयौवना नवयौवना, पुनः व्रतस्था ब्रह्मचर्ये स्थिता, पुनः यतात्मनामपि मुनीनामपि, मोहविकारहेतुः मोहस्य-वैचित्त्यस्य, विकारस्य-खेदरोमाज्यादिकामविकारस्य, हेतुः-प्रयोजिका, पुनः एकाकिनी असहाया, पुनः रूपलावण्यादिगुणगणावासः स्वरूपसौन्दर्यादिगुणसमूहास्पदभूता, त्वादृशी त्वत्सदृशी, भाषणीयेत्यर्थः' इति इत्थं, विद्वानपि जानन्नपि, अहं, भवत्याः तव, त्वां प्रति इत्यर्थः, प्रश्नकर्मणि अनुपदवक्ष्यमाणप्रकारकप्रश्नकार्ये, प्रवृत्तः प्रसक्तः [प] । कथय ब्रूहि, त्वं का किन्नामधेया; अखिलदोषमुक्ते समस्तदोषरहिते, देवारण्यवंशे देववनवेणी, अन्यत्र देवारण्यबन्धिनि, मुक्तेव मुक्तामणिरिव, अखिलदोषमुक्ते, कस्मिन् , वंशे कुले, समुत्पन्ना सञ्जाता, असि वर्तसे; पुनः दिव्यमन्त्रपदानीव उत्तममन्त्राक्षराणीव, हृदयदाहज्वरहराणि अन्तस्तापात्मकज्वरशमकानि, ते तव, कानि नामाक्षराणि नामसम्बन्धिवर्णाः, कर्णयोः श्रोत्रयोः, अमृतं सुधां, क्षरन्ति स्पन्दयन्ति; पुनः देवाङ्गनिवसना देवोचित्ताङ्गावरणाहे, अत्र अस्मिन् , तव, वपुषि शरीरे, गर्हणानपेक्षेण अयोग्ययोजनजन्यनिन्दानपेक्षिणा, केन, अमूनि तानि, वृक्षाणां बल्कलानि त्वचः, विनिक्षिप्तानि निवेशितानि पुनः अतिशयस्वादुरसम् अत्यन्तमधुररसं, किं फलम् , अभिलष्य उद्दिश्य, विरसानि अस्वादुरसानि, वन्यद्रुमफलानि वनसम्बन्धिवृक्षफलानि, अनुदिवसं प्रतिदिनम् , अनासि मुझे
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202