Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
टिप्पनक-परागविवृतिसंवलिता । यस्यां ललाटे सदृशद्यतित्वादस्पष्टचामीकरपट्टबन्धे ।
अनति सूक्ष्मालकवल्लरीणां मालाऽरिबन्दीव्यजनानिलेन ॥ ३ ॥ [6] । या च त्रिभुवनख्यातविद्याधरवंशसंभवा भवानीव शंभोर्द्वितीयापि भर्तुरेकं शरीरमभवत् । जातमात्रायामेव मयि समस्तदैवज्ञाग्रतःसरेण सकलनिमित्तशास्त्रतत्त्ववेदिना सहस्रशःसंवादितादेशतया परं संमतेन वसुरातनाम्ना सांवत्सरेण स्फुटीकृत्य तात्कालिकग्रहाणां दशाफलमानन्दाश्रुजलपरिप्लुतेक्षणेन क्षोणीपतेः पुरः स्पष्टाक्षरमिदमादिष्टम् [ण] |-- 'एषा कन्यका निकामं पुण्यभागिनी भाजनं भविष्यति भूयसामुपभोगसौख्यानाम् , ईदृशे च लग्ने लब्धमनया जन्म । योऽस्याः करं ग्रहीष्यति स हेमकूटादिकुलशैलकटकनिविष्टविद्याधराङ्गनोपवर्णितपुण्यचरितप्रशस्तिना पराक्रमाक्रान्तसकलदिक्चक्रेण महानरेन्द्रचक्रवर्तिना संक्रमितनिखिलनिजराज्यभारश्चतुरुदधिरशनागुणायाः क्षितेराधिपत्यं करिष्यति' इत्येतच्चाकर्ण्य कर्ण
टिप्पनकम-द्वितीयापि या द्वितीया द्वयोः पूरणी सा कथम् एकं शरीरम् ? अन्यत्र द्वितीया भार्या सांवत्सरेण ज्योतिषिकः [ण] ।
नृपस्त्रीणां, कर्णोत्तंसद्रुमकिसलयैः कर्णोत्तंसैः-कर्णाभरणभूतैः, द्रुमकिसलयैः-वृक्षनूतनदलैः, ताडितः प्रहृतः । अत्रोत्प्रेक्षालङ्कारः । पद्मशब्दः पुंलिंगेऽपि वर्तते, यद् गौडः- “पद्मोऽस्त्री पद्मके व्यूहे निधिसंख्यान्तरेऽम्बुजे” इति ॥ २ ॥ [ड] ।
सदृशद्युतित्वात् तुल्यकान्तिमत्त्वात् , अस्पष्टचामीकरपट्टबन्धे अस्पष्टः-अस्फुटः, स्फुटमनुपलक्ष्यमाण इत्यर्थः, चामीकरपट्टबन्धः-सुवर्णपट्टबन्धो यस्मिंस्तादृशे, यस्याः गन्धर्वदत्तायाः, ललाटे भालपट्टे, सूक्ष्मालकवल्लरीणां चूर्णकेशपाशानां, माला पतिः, अरिवन्दीव्यजनानिलेन बन्दीभूतानां-कारागारनिगृहीतानाम् , अरीणां-शत्रूणां, व्यजनानिलेनव्यजनपवनेन, अनर्ति आन्दोलिता । अत्र अतिशयोक्तिरलङ्कारः ॥ ३ ॥ [6] ।
च पुनः त्रिभवनख्यातविद्याधरवंशसम्भवा त्रिभुवने-त्रैलोक्यां. ख्यातः-प्रसिद्धो यो विद्याधरवंशः स एव सम्भवः-उत्पत्त्यधिकरणं यस्यास्तादृशी, या गन्धर्वदत्ता, शम्भोः शिवस्य, भवानीव पार्वतीव, द्वितीयापि भिन्नापि, भर्तुः पत्युः, एकं शरीरम् , अभवत् समपद्यत, या द्वितीया द्वयोः पूरणी, खभिन्नेति यावत् , सा कथमेकं शरीरम् , एकशरीररूपेति विरोधः, परिहारस्तु-द्वितीया भार्या, एकं रूपादिना समानं शरीरं चेति, मयि जातमात्रायाम् उत्पन्नमात्रायां सत्यां, समस्तदैवज्ञाग्रतःसरेण सकलदैवज्ञश्रेष्ठेन, सकलनिमित्तशास्त्रतत्त्ववेदिना समग्रज्योतिषशास्त्रसारज्ञेन, सहस्रशःसंवादितादेशतया सहस्रशः-सहस्रसंख्याकाः, बहुतरा इत्यर्थः, संवादिताः-दर्शितफलाः, आदेशाः-भविष्यद्विचारा यैस्तादृशतया, परम् अत्यन्तं, सम्मतेन आदृतेन, वसुरातनाम्ना तदाख्येन, सांवत्सरेण मौहूर्तिकेन, तात्कालिकग्रहाणां तत्कालोपस्थितग्रहाणां, दशाफलम् अवस्थाफलं, स्फुटीकृत्य स्फुटमभिधाय, आनन्दाश्रुजलपरिप्लुतेक्षणेन आनन्दाश्रुजलैः-हर्षजनिताश्रुरूपजलैः, परिप्लुतं-व्याप्तम् , ईक्षणं-नयनं यस्य तादृशेन सता, क्षोणीपतेः राज्ञः, कुसुमशेखरस्येत्यर्थः, पुरः अग्रे, इदम् अनुपदमुच्यमानं, स्पष्टाक्षरं व्यक्ताक्षरं यथा स्यात् तथा, आदिष्टं विज्ञापितम् [ण] 1 किमित्याह-एषा इयं, कन्यका, निकामम् अत्यन्तं, पुण्यभागिनी भाग्यशालिनी, भूयसाम् अत्यधिकानाम् , उपभोगसौख्यानां विषयभोगजन्यानन्दाना, भाजनं पात्रम् , अनुभवित्रीत्यर्थः, भविष्यति सम्पत्स्यते । अनया कन्यकया, ईदृशे एवं विधे, लग्ने राश्युदये, जन्म, लब्धं प्राप्तम् । अस्याः कन्यकायाः, यः करं हस्तं, ग्रहीष्यति परिणेष्यति, सः, हेमकटादिकुलशैलकटकनिविष्टविद्याधराङ्गनोपवर्णितपुण्यचरितप्रशस्तिना हेमकूटादीनां कुलशैलानां-महापर्वतानां, कटकेषुनितम्बेषु, निविष्टाभिः-अवस्थिताभिः, विद्याधराङ्गनाभिः-विद्याधरस्त्रीभिः, उपवर्णिता-उपगीता, पुण्यचरितप्रशस्तिः-पवित्रचरित्रप्रशंसा यस्य तादृशेन, पुनः पराक्रमाक्रान्तसकलदिक्चक्रेण पराक्रमेण-स्ववीर्येण, आक्रान्तम्-आत्मसात्कृतं, सकलंसमग्रं, दिक्चक्रं-दिङमण्डलं येन तादृशेन, महानरेन्द्रचक्रवर्तिना महाराजचक्रवर्तिना, संक्रमितनिखिल भारः संक्रमितः-समर्पितः, निखिलः-समस्तः, निजराज्यभारः-स्वराज्याधिकारो यस्मिंस्तादृशः सन् , चतुरुदधिरशनागुणायाः चत्वार उदधयः-समुद्रा एव, रशनागुणाः-काञ्चीसूत्राणि यस्यास्तादृश्याः, समुद्रचतुष्टयपरिच्छिन्नाया इत्यर्थः, क्षितेः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202