________________
१५२
टिप्पनक-परागविवृतिसंवलिता । र्थमुत्पादितं दैवेन नयनोत्पलद्वन्द्वमभिमुखं दर्शयन्तीम् [र], अच्छमणिवालुकापुलिनशङ्कया निशि ललाटमध्यमधिशयितस्य हिमकरकुरङ्गस्य शृङ्गकोटिभ्यामिव तिर्यगुभयतः पर्यस्ताभ्यामसितकुटिलायताभ्यां भ्रूवल्लरीभ्यामुद्भासिताम् , अधिकतरचारुतारोपणाय संचारयितुमतनिष्ठमोष्ठरुचकरागमिव लोचनान्तयोरनवरतकृतगतागतेनात्यन्तसुरभिणा श्वासपवनेन निबिडपुष्पापीडपरिमलहृतानि दूरादेव मधुकरकुलानि स्तम्भयन्तीम् [ल], अधिगतसमस्ताम्भोजगुणसंपदापि नखमणिमयूखोद्भासितेन दक्षिणेतरपाणिना गृहीतचारुपुटकिनीपत्रपुटामासन्नवल्लिविटपेषु पुष्पावचयमाचरन्तीम् , एकाकिनीमेकां बालिकामपश्यम् [व]| .
तस्याश्च दिग्व्यापिना तेन दीप्तिपटलेन रूपलावण्ययौवनपुरोगैश्च मित्रभावमेकत्रागतैरङ्गलतागुणैनितान्तमानीतविस्मयोऽहं मनस्यकरवम्
"ग्रहकवलनाद् भ्रष्टा लक्ष्मीः किमृक्षपतेरियं, मदनचकितापक्रान्ताऽब्धेरुतामृतदेवता। ___ गिरिशनयनोदचिर्दग्धान्मनोभवपादपाद्, विदितमथवा जाता सुभूरियं नवकन्दली ॥ १ ॥
टिप्पनकम्-रुचको-मणिः [ ल] ।
जयाय त्रिभुवनजयोद्देशेन, विहितयात्रस्य प्रयातस्य, मकरकेतोः कामदेवस्य, शकुनसम्पादनार्थ शुभसूचकनिमित्तसिद्ध्यर्थ, दैवेन भाग्येन, उत्पादितम् , आयतस्फारधवलोदरशोभिशफरद्वन्द्वमिव आयतेन-दीर्घेण, स्फारधवलेनअतिशुभ्रेण, उदरेण शोभनशील, शफरद्वन्द्वं-मत्स्यविशेषयुगलमिवेत्युत्प्रेक्षा [र] पुनः कीदृशीम् ? असितकुटिलायताभ्याम् असिताभ्यां- कृष्णवर्णाभ्यां, कुटिलाभ्यां- वक्राभ्याम् , आयताभ्यां- दीर्घाभ्यां च, भ्रूवल्लरीभ्यां नेत्रोपरितनरोमराजिलताभ्याम् , उद्भासिताम् उद्दीपिताम् , कीदृशीभ्याम् ? निशि रात्रौ, अच्छमणिवालुकापुलिनशङ्कया उज्वलमणिरूपवालुकापुलिनशङ्कया-उज्वलमणिरूपवालुकासम्बन्ध्यचिरजलनिर्गतस्थलशङ्कया, ललाटमध्यं भालमभ्यम् , अधिशयितस्य प्रसुप्तस्य, हिमकरकुरङ्गस्य चन्द्रमृगस्य. उभयतः भागद्वये, तिर्यक कुटिलं यथा स्यात् तथा, पर्यस्ताभ्यां प्रकीर्णाभ्यां, शृङ्गकोटिभ्यामिव शृङ्गाग्रभागाभ्यामिवेत्युत्प्रेक्षाः पुनः कीदृशीम् ? अधिकतरचारुतारोपणाय अत्यधिकसौन्दर्यसम्पादनाय, अतनिष्ठम् अतिसान्द्रम् ; ओष्ठरुचकरागम् रुचकाख्यरक्तमणिसदृशौष्टरक्तकान्ति, लोचनान्तयोः अपाङ्गप्रदेशयोः, सञ्चारयितुं संक्रमयितुम् अनवरतकृतगतागतेन निरन्तरकृतगमनागमनेन, पुनः अत्यन्तसुरभिणा अत्यन्तसुन्दरगन्धशालिना, श्वासपवनेन नासिकामारुतेन, निबिडपुष्पापीडपरिमलहृतानि निबिडेन-सान्द्रेण, पुष्पापीडेन पुष्पमयशिरोमाल्येन, हृतानि-आकृष्टानि, मधुकरकुलानि भ्रमरगणान् , स्तम्भयन्ती निवारयन्तीम् ; [ल] पुनः दक्षिणेतरपाणिना वामहस्तेन, गृहीतचारुपुटकिनीपत्रपुटां गृहीतं-धृतं, चारु-मनोहरं, पुटकिन्याः-कमलिन्याः, पत्रपुट-पुटाकारं पत्रं यया तादृशीम् , कीदृशेन ? अधिगतसमस्ताम्भोजगुणसम्पदापि अधिगता-गृहीता, समस्ता-सममा, अम्भोजस्यकमलस्य, गुणसम्पत्-गुणसमृद्धिर्येन तादृशेनापि, नखमणि द्रासितेन न सूर्यकिरणविकासितेन इति विरोधः, तत्परिहारस्तु-नखरूपाणां मणीनां मयूखैः-किरणैः, उद्भासितेन-उज्ज्वलितेन; पुनः कीदृशीम् ? आसन्नवल्लिविटपेषु सन्निहितलतावृक्षेषु, पुष्पावचयं पुष्पत्रोटनम् , आचरन्तीं कुर्वती, पुनः एकाकिनीम् असहायाम् [व]।
च पुनः, तस्याः प्रकृतबालिकायाः, दिग्व्यापिना दिग्विस्तारिणा, तेन अनुपदमनुभूतेन, दीप्तिपटलेन कान्ति कलापेन, च पुनः, रूपलावण्ययौवनपुरोगैः रूपसौन्दर्यतारुण्यप्रमुखैः, एकत्र तदीयशरीररूपे एकस्मिन् स्थाने, मित्रभावं मित्रताम् , आगतैः आपन्नैः, अङ्गलतागुणैः लताकाराङ्गगुणेः, नितान्तम् अत्यन्तम् , आनीतविस्मयः अनुभाविताश्चर्यः, अहं हरिवाहनः, मनसि वहृदि, अकरवम् आलोचयम् ।
इयं पुरोवर्तिनी तरुणी, ग्रहकवलनाद राहुग्रहकर्तृकाद् ग्रासाद्, भ्रष्टा अधश्च्युता, ऋक्षपतेः ताराधिपतेः, चन्द्रस्येत्यर्थः, लक्ष्मीः-शोभा, किम् ? उत अथवा, मदनचकिता मन्मथसम्भ्रान्ता, अत एव, अब्धेः समुद्रात् , अपक्रान्ता निर्गता, अमृतदेवता पीयूषाधिष्ठात्री देवता, विदितं ज्ञातं, यत , इयं पुरोवर्तिनी, सुभ्रूः सुष्ठु ध्रुवौ नेत्रोपरितनरोमराजी
"Aho Shrutgyanam"