________________
तिलकमञ्जरी
१५१
अधिक बहन विस्तारिणा मरकतोर्मिकारागपटलेन घटितविनीलबाह्यपत्र परिपाटि द्विधा विपाट्य लक्ष्मीनिवासतामरसमिव निर्मितेनेव सरलकोमलारुणाङ्गुलीदलभृता पाणियुगलेन भ्राजमानाम् [भ], तत्कालमर्जितबलेन निर्जित्यार्पितं कन्दर्पेण हासमिव हारं हारमुरसा स्वधामधवलितस्तन कलशकैलाश भूधरं धारयन्तीम्, अदृष्टपूर्वपार्वणचन्द्रदर्शन कौतुकेन युगपदुपागताभ्यामुदयास्तसंध्यातपस्तबकाभ्यामिव विबुद्धबन्धूकपुष्पपुटपाटलाभ्यामधरोष्ठबिम्बाभ्यामधिष्ठितमुखीम् [म], उद्भावित रतिप्रीतिदर्पण भ्रमेण स्वच्छकान्तिना कपोलयुगलेन स्निग्धनीलालकलता इव छायागताः कुरङ्गमदपत्राङ्गुलीरुद्वहन्तीम् [य], अतिरेकतरलतारमायतस्फारधवलोदरशोभिशफरद्वन्द्वमिव भुवनत्रयजयाय विहितयात्रस्य मकरकेतोः शकुनसंपादना
टिप्पनकम् – ऊर्मिका- मुद्रिका, घटितविनीलबाह्यपत्रपरिपाटि इति निर्मितं क्रियाविशेषणम् [भ] | तत्कालमर्जितबलेन निर्जित्यार्पितं कन्दर्पेण हासमित्र हारं हारमुरसा । स्वधामधवलितस्तन कलश कैलाशभूधरम् हारं - मुक्ताकलापं कीदृशमिव ? हासमिव, किम्भूतं हासं ? हारं शङ्करसत्कम्, किम्भूतम् ? अर्पितम् केन ? कन्दर्पेण-कामेन, किं कृत्वा ? निर्जित्य - अभिभूय, कथं ? तत्कालं तस्मिन् काले, कीदृशं हारं हासं च ? स्वधाम्ना - स्वतेजसा, धवलितः, स्तनकलशावेव स्तनकलशवद् वा कैलाशभूधरो येन स तथोक्तस्तम् [म] |
वैकक्ष्यकाम्-यज्ञोपवीतन्यायेन उरसि तिर्यक्क्षप्तमाल्यं च यस्यास्तादृशीम् कीदृशेन तेन ? उपरिपर्यस्तकर्णाभरणप्रभाकिरणसम्भारेण उपरि पर्यस्तः - ऊर्ध्वविकीर्णः, कर्णाभरणप्रभारूपाणां कर्णालङ्कारकान्तिरूपाणां, किरणानां, सम्भारः - राशि - र्यस्य तादृशेन, पुनः तद्भरादिव कर्णाभरणप्रभाभारादिव, अभितः सर्वतः स्रस्तांशभागेन स्रस्तः- पतितः, अंशभागःस्कन्धभागो यस्मिंस्तादृशेन, पुनः भिन्नहरितालरोचिषा भिन्नस्य - चूर्णितस्य, हरितालस्येव तदाख्यौषधेरिव, रोचिः- पीतकान्तिर्यस्य तादृशेन [ब]; पुनः कीदृशीम् ? पाणियुगलेन हस्तद्वयेन भ्राजमानां शोभमानाम् कीदृशेन ? अधिकबहलेन अतिप्रचुरेण, विस्तारिणा परितः प्रसारिणा, मरकतोर्मिकारागपटलेन मरकतमणिमयाङ्गुलीयककान्तिकलापेन, पुनः लक्ष्मीनिवासतामरसं श्रीदेवीनिवासभूतकमलं, द्विधा द्वाभ्यां प्रकाराभ्यां विपाट्य विदार्य, घटितविनीलबाह्यपत्र परिपाटि घटिता सम्पृक्ता, विनीला - अतिनीलवर्णा, बाह्या - बहिः स्थिता, पत्रपरिपाटी - पत्राकाररचनापतिर्यस्मिंस्तादृशं यथा स्यात् तथा, निर्मितेनेव रचितेनेवेत्युत्प्रेक्षा, सरलकोमलारुणाङ्गुलीदलभृता सरलानि - ऋजूनि, कोमलानि, अरुणानि-रक्तानि च यानि अङ्गुलीरूपाणि दलानि पत्राणि, तद्भृता तद्धारयित्रा [भ]; पुनः कीदृशीम् ? उरसा वक्षसा, हारं मुक्तामाल्यं धारयन्तीम्, कीदृशम् ? अर्जितबलेन अतिशययुक्तसामर्थ्येण, कन्दर्पेण कामदेवेन, निर्जित्य विजित्य तत्कालं तस्मिन् क्षणे, अर्पितं समर्पितं, हारं शङ्करसत्कं हासमिवेत्युत्प्रेक्षा, कीदृशं हारे हासं च ? स्वधामधवलितस्तन कलशकैलाशभूधरं स्वधाम्ना - स्वकान्त्या, धवलितः - शुभ्रीकृतः, स्तनकलशरूपः - कलशाकारस्तनरूपः कलशाकारस्तनवद् वा, कैलाशभूधरः–कैलाशपर्वतो येन तादृशम् ; पुनः कीदृशीम् ? अधरोष्ठ बिम्वाभ्यां निम्नोध्वष्ठरूपविम्बफलाभ्याम्, अधिष्ठितमुखीम् आश्रितवदनाम्, कीदृशाभ्याम् ? अदृष्टपूर्वपार्वणचन्द्रदर्शन कौतुकेन अदृष्टपूर्वस्य - पूर्वमदृष्टस्य, पार्वणचन्द्रस्य तन्मुखरूपपूर्णिमाचन्द्रस्य, दर्शन कौतुकेन दर्शनौत्सुक्येन युगपदुपागताभ्याम् एककालोपस्थिताभ्याम्, उदयास्तसन्ध्यातपस्तबकाभ्यामिव उदयास्तसम्बन्धिसन्ध्याकालि करक्तातपपुजाभ्यामिवेत्युत्प्रेक्षा; पुनः विबुद्धबन्धूकपुष्पपुटपाटलाभ्यां विबुद्धस्य - विकसितस्य, बन्धूकपुष्पस्य - तदाख्यरक्तपुष्पस्य यत् पुटं - संश्लिष्टस्वरूपं, तद्वत् पाटलाभ्यां रक्ताभ्याम् [म]; पुनः कीदृशीम् ? उद्भावित रतिप्रीतिदर्पणभ्रमेण उद्भावितः - स्वस्मिन्नुत्पादितः, रतेः प्रीतेः - रतिनान्याः प्रीतिनाम्याश्च कामदेवपनयाः, दर्पणयोः-आदर्शयोः, भ्रमो येन तादृशेन, स्वच्छकान्तिना विमलद्युतिना, कपोलयुगलेन गण्डद्वयेन, कुरङ्गमदपत्राङ्गुलीः कुरङ्गमदस्य- मृगमदस्य, कस्तूरिकाया इत्यर्थः, याः पत्राङ्गुल्यः- पत्राकाररचनाः, ताः, उद्वहन्तीं धारयन्तीम्, कीदृशीः ? का इव ? छायागताः प्रतिबिम्बरूपेणापतिताः, स्निग्धनीलालकलता इव सरसनीलवर्णचूर्णकुन्तललता इवेत्युत्प्रेक्षा [ य ]; पुनः कीदृशीम् ? अभिमुखं सम्मुखं, नयनोत्पलद्वन्द्वं नयनकमलद्वयं दर्शयन्तीं दृष्टिपथमवतारयन्तीम्, कीदृशम् ? अतिरेकतरलतारम् अतिरेकेण - अतिशयेन, तरला-चञ्चला, तारा - कनीनिका यस्मिंस्तादृशं पुनः भुवनत्रय
"Aho Shrutgyanam"