SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ टिप्पनक - परागविवृतिसंवलिता । मसृणमांसलाभोगं जघनभागमुद्वहन्तीम् [ध ], अविरलविभाव्यमानमरकतेन्द्रनील कुरुविन्दशकलया लब्धुमन्तमिव समन्ततः पर्यन्तेषु भ्रान्तया वेलयेवातिदूरप्रवृद्धस्य शृङ्गारजलधेः समदसारस क्रौन कलविलापया काञ्चितया वलयितविशाल श्रोणिपुलिनाम् [ न ], अगाधनाभिविवरवारितप्रसरामभिनवागतेनाक्षपटलमास्थाय कायस्थेन तरुणिम्ना तत्क्षणाधिगतराज्यस्य रतिपतेरसिताक्षर श्रेणिमिव दर्शितामतिशयश्लक्ष्णसुकुमाररेखा रोमराजिमुदरेणोद्वहन्तीम् [प], ऊर्ध्वरेखाकाररोमावली समविभक्तोभयविभागस्य मध्येऽधिकतनोरतिविशालसारिफलकस्योदरोद्देशस्य शिरसि जातान्योऽन्यघट्टनेन स्वर्णशारद्वयेनेव सुवृत्तकठिनपीनपृष्ठेन स्तनपीठोभयेन स्फुटावेदितमनोभवविजयाम् [फ ], उपरिपर्यस्तकर्णाभरणप्रभाकिरणसंभारेण तद्भरादिवाभितः स्रस्तांशभागेन भिन्नहरितालरोचिषा भुजलताद्वयेन द्विगुणित प्रलम्बचम्पकप्रालम्बवैकक्ष्यकाम् [ब], १५० टिप्पनकम् - अभिनवागतेनाक्षपटलमास्थाय कायस्थेन तरुणिम्नाऽसिताक्षरश्रेणिमिव एकत्र कायस्थेनअक्षरजीविना, अक्षपटलं-करणस्थानम् अध्यास्य, अन्यत्र तारुण्येन शरीरवर्तिना, अभिनवायातेन, अक्षपटलम् - इन्द्रियसंघातमध्यारुह्य [ प ] | रेखा - राजि:, उभयत्रापि, शारद्वयेन शारियुग्मेन [ फ ] । वैकक्ष्यकं-स्कन्धलम्बिसूत्रम् [ब] । अनुपूर्व - पूर्वपूर्वभागो यस्य तादृशेन, परिणाहिना दीर्घेण, ऊरुतूणीरद्वयेन जङ्घारूपनिषङ्गद्वयेन, अशून्यपार्श्वम् अशून्यंसमन्वितं पार्श्व - समीपं यस्य तादृशं पुनः कुसुमात्रपत्रिणां कुसुमास्त्रस्य कामदेवस्य, पत्रिणां शराणां निशानमणिशिलाफलकमिव निशानार्थ - तीक्ष्णीकरणार्थं, यत् मणिशिलाफलकं-मणिरूप शिलापट्ट तद्रूपमिव, पुनः अतिविशालमसृणमांसलाभोगम् अतिविशालः - अत्यन्तविस्तृतः, मसृणः - चिक्कणः, मांसल :- स्थूलश्च, आभोगः - मण्डलं यस्य तादृशं, जघनभागं कटिपुरोभागम्, उद्वहन्तीं धारयन्तीम् [ध ]; पुनः काञ्चिलतया लताकारमेखलया, वलयितविशालश्रोणिपुलिनां वलयितं वेष्टितं, विशालं, श्रोणिपुलिनं- कटिरूपमचिर जलोत्थितं स्थलं यस्यास्तादृशीं कीदृश्या ? अविरलविभाव्यमानमरकतेन्द्रनील कुरुविन्दशकलया अविरलं- निरन्तरं विभाव्यमानं दृश्यमानं, मरकतस्य - हरित मणेः, इन्द्रनीलस्य - नीलमणेः, कुरुविन्दस्य-रक्तवर्णमणिविशेषस्य, शकलं-खण्डं यस्यां तादृश्या, पुनः अन्तं पारं, लब्धुमिव प्राप्तुमिव, समन्ततः सर्व॑तः, पर्यन्तेषु नितम्बप्रान्तेषु भ्रान्तया विचरितया पुनः अतिदूरप्रवृद्धस्य अत्यन्तदूरमुच्छलितस्य शृङ्गारजलधेः शृङ्गाररससागरस्य, वेलयेव लहर्येवेत्युत्प्रेक्षा, पुनः समदसारस क्रौञ्चकलविलापया समदसारस क्रौञ्चवत्-मत्ततत्तदाख्यपक्षिविशेषवत्., कलविलापया- मधुरनिनादया [न]। पुनः कीदृशीम् ? उदरेण उदरद्वारा, रोमराजिं रोमावलीम्, उद्वहन्तीं धारयन्तीम्, कीदृशीम् ? अगाधनाभिविवरवारितप्रसराम् अगाधेन अतलस्पर्शेन, नाभिविवरेण-नाभिरन्ध्रेण, वारितः-अवरुद्धः, प्रसरः - विस्तारो यस्यास्तादृशीम्, पुनः अक्षपटलम् इन्द्रियसमुदायम्, आस्थाय अध्यास्य, पक्षे करणस्थानमध्याह्य, अभिनवागतेन अचिरागतेन, कायस्थेन शरीरस्थेन, पक्षे कायस्थाख्यलेखकुशलजातिविशेषेण, तरुणिना तारुण्येन, तत्क्षणाधिगतराज्यस्य तत्क्षणप्राप्ताधिपत्यस्य, रतिपत्तेः कामदेवस्य दर्शितां दृष्टिपथमुपस्थापिताम्, असिताक्षरश्रेणिमिव तद्राज्यप्रमापककृष्णवर्णाक्षर पङ्क्तिमिवेत्युत्प्रेक्षा, पुनः अतिशयश्लक्ष्णसुकुमाररेखाम् अतिशयेन श्लक्ष्णाचिक्कणा, सुकुमारा - कोमला च रेखा यस्यास्तादृशीम् ; [प]; पुनः कीदृशीम् ? स्तन पीठोभयेन स्तनात्मक प्रदेशद्वयेन स्फुटावेदितमनोभवविजयां स्फुटं स्पष्टं यथा स्यात् तथा, आवेदितः विज्ञापितः, मनोभवस्य - कामदेवस्य, विजयःउत्कर्षो यथा तादृशीम् कीदृशेन ? ऊर्ध्वरेखाकाररोमावली समविभक्तोभयविभागस्य ऊर्ध्वरेखाकारया - ऊर्ध्वगामिरेखारूपया, रोमावल्या - रोमपङ्कया, समं तुल्यं यथा स्यात् तथा, विभक्तः - पृथकृतः, उभयविभागः - दक्षिणवामविभागो यस्य तादृशस्य, पुनः मध्ये मध्यभागे, अधिकतनोः अत्यन्तकृशस्य, अतिविशाल सारिफलकस्य अतिदीर्घ- क्रीडनपाशकपट्टरूपस्य, उदरोद्देशस्य उदरप्रदेशस्य, शिरसि ऊर्वभागे, जातान्योऽन्यघट्टनेन उत्पन्नपरस्परसंघर्षेण, स्वर्णशारद्वयेनेव सुवर्णमयक्रीडनपाशकद्वयेनेवेत्युत्प्रेक्षा, सुवृत्तकठिन पीन पृष्ठेन सुवृत्तं सुवर्तुलं, कठिनं कठोरं, पीनं-स्थूलं च पृष्टं यस्य तादृशेन [फ ]; पुनः कीदृशीम् ? भुजलताद्वयेन लताकारबाहुद्वयेन, द्विगुणितप्रलम्बचम्पकप्रालम्बवैकक्ष्यां द्विगुणितं द्विगुणीकृतं, प्रलम्बं-- प्रकर्षेण लम्बमानं, चम्पकस्य - चम्पकाख्यपुष्पतरोः प्रालम्बं- कण्ठादुभयतो वक्षसि लम्बमानं पुष्यदाम, "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy