________________
तिलकमञ्जरी ....
१४९
पाताहतिविलीनसुरशैलशिखरप्रवृत्तकाञ्चनरसप्रवाहबहलमालोकमीक्षितवान् [त] । उत्पन्नवन्यौषधिप्रकाशाशङ्कश्च क्षणमिव ध्यात्वा दिक्षु निक्षिप्तदृष्टिर्वारंवारं बालरक्ताशोकमूले कृतोर्वावस्थानाम् , अमलकान्तिजलतरङ्गिषु सर्वाङ्गभागेषु समकालसंक्रान्तैरासन्नवल्लीपुष्पफलपल्लवैलतेति संलक्ष्यमाणाम् , अल्पदिवसाधिरूढनवयौवनाम् [थ], अतिनिगूढदृढपर्वाभिरधिकतनुतारताम्रनखपरम्परापरिगतामाभिः कुसुमसायकशरशलाकाभिरिव विरहिजनहृदयशोणिताईशल्याभिः सरलसुकुमाराभिरङ्गुलीभिरुपेतेन साधुलोकेनेव स्निग्धत्वचाऽरुणालोकसुभगेन चरणाब्जयुगेनाचिरकालपीतं लाक्षारागरसमिव सफेनोद्गमं धाराभिरुद्रिन्तीम् [द], उद्भिन्नसुन्दरशोणबिन्दोर्वरकरिकलभशुण्डालदण्डस्य खण्डयितुमिव गुणाधिक्यदर्पमुत्सर्पिणा नूपुरपद्मरागकरकलापेन स्पृश्यमानपीनपरिमण्डलोरुयुगलाम् , एकतः कान्तिजलभृता नाभिमण्डलीकनकभाण्डेनान्यतोऽपि वृत्तानुपूर्वेण परिणाहिनोरुतूणीरद्वयेनाशून्यपार्श्व निशानमणिशिलाफलकमिव कुसुमास्त्रपत्रिणामतिविशाल
टिप्पनकम्-साधुलोकेनेव स्निग्धत्वचारुणा लोकसुभगेन एकत्र स्निग्धत्वमनोज्ञेन जनसौभाग्यवता, अन्यत्र स्नेहवञ्चर्मणा रक्ततेजसा [द]। शुण्डारः-हस्वा शुण्डा, 'शुण्डालः-प्रशस्तशुण्डा' [ध]।
प्रवृत्तकाञ्चनरसप्रवाहबहलम् अशनिपाताहत्या-वज्रपाताघातेन, विलीनस्य-द्रुतस्य, सुरशैलस्य-सुमेरुपर्वतस्य, शिखरात, प्रवृत्तेन-आपतितेन, काञ्चनरसप्रवाहेण-सुवर्णरसप्रवाहेण, बहलं-पूर्णम् [त]।
च पुनः, उत्पन्नवन्यौषधिप्रकाशाशङ्कइव उत्पन्नवन्यौषधेः-वनभवौषधेः, प्रकाशस्य, आशङ्का-संशयो यस्मिंस्तादृश इव, क्षणं किञ्चित् कालं, ध्यात्वा विचिन्त्य, दिक्षु, निक्षिप्तदृष्टिः-व्यापारितलोचनः, “एकां बालिका कन्यकाम् , अपश्यं दृष्टवानहम्' इत्यग्रेणान्वेति, कीदृशीम् ? बालरक्ताशोकमूले बालस्य-लघोः, रक्ताशोकस्य-रक्तवर्णाशोकतरोः, मूले–अधोदेशे, कृतोर्वावस्थानाम् उत्थिताम् , न तूपविष्टामित्यर्थः; पुनः अमलकान्तिजलतरङ्गिषु अमलकान्तिजलानाम्-उज्वलद्युतिरूपजलानां, तरङ्गो येषु तादृशेषु, सर्वाङ्गभागेषु सर्वावयवप्रदेशेषु, समकालसंक्रान्तैः युगपतसंलग्नैः, आसन्नवल्लीपुष्पफलपल्लवैः आसन्नानां-सन्निहितानां, वल्लीनां-लतानां, पुष्पैः फलैः पल्लवैश्च, लतेति संलक्ष्यमाणां प्रतीयमानाम् ; पुनः अल्पदिवसाधिरूढनवयौवनाम् अचिरोत्पन्नतारुण्याम् [थ]; पुनः अतिनिगूढदृढपर्वाभिः अतिनिगूढानिअतितिरोहितानि, दृढानि-बलवन्ति, पर्वाणि-ग्रन्थयो यासां तादृशीभिः, पुनः अधिकतनुतारताम्रनखपरम्परापरिगताग्राभिः अधिकतन्वीभिः-अतिकृशीभिः, ताराभिः-स्वच्छाभिः, ताम्राभिः-रक्ताभिः, नखपरम्पराभिः-नखपतिभिः, परिगतंव्याप्तम् , अग्रम्-अन्यभागो यासां तादृशीभिः, पुनः विरहिजनहृदयशोणिताशल्याभिः विरहिजनानां-वियोगजनितकामावस्थाविशेषसहितानां जनानां, यद् हृदयस्य शोणितं-रुधिरं, तेन आद्र-क्लिन्नं, शल्य-शल्यतुल्याग्रभागो यासां तादृशीभिः, कुसुमसायकशरशलाकाभिरिव कुसुमसायकस्य-कामदेवस्य, शरशलाकाभिरिव-बाणलेखाभिरिव, सरलसुकुमाराभिः सरलाभिः-ऋज्वीभिः, सुकुमाराभिः-कोमलाभिश्च, अङ्गुलीभिः, उपेतेन सहितेन, पुनः साधुलोकेनेव सज्जनेनेव, स्निग्ध त्वचा चिक्कणचर्मणा, अरुणालोकसुभगेन रक्तप्रकाशजनप्रियेण, पक्षे स्निग्धत्वचारुणा स्निग्धत्वेन वात्सल्येन, चारुणामनोहरेण, लोकसुभगेन जनप्रियेण, चरणालयुगेन चरणकमलद्वयेन, अचिरकालपीतं किञ्चित्पूर्वकालपीतं, सफेनोद्गमं विकृतरसोद्गमसहितं, लाक्षारागरसं लाक्षासम्बन्धिविलेपनरक्तद्रव्यं, धाराभिः प्रवाहैः, उद्गिरन्तीमिव उद्वमन्तीमिव [द] पुनः उद्भिन्नसुन्दरशोणबिन्दोः उद्भिन्नः-उद्गतः, सुन्दरः, शोणबिन्दुः-रक्तबिन्दुर्यस्मिंस्तादृशस्य; तारुण्ये हि हस्तिनो देहे रक्तबिन्दवो भवन्ति, वरकरिकलभशुण्डालदण्डस्य प्रशस्तत्रिंशदब्दकहस्तिशिशुसंबन्धिप्रशस्तशुण्डारूपदण्डस्य, गुणाधिक्यदर्प गुणोत्कर्षाभिमानं, खण्डयितुमिव निराकर्तुमिव, उत्सर्पिणा उद्भासिना, नूपुरपद्मरागकरकलापेन पादकटकवतिरक्तमणिकिरणनिकरण, स्पृश्यमानपीनपरिमण्डलोरुयुगलां स्पृश्यमान-सम्पृच्यमानं, पीनं-स्थूलं, परिमण्डलं-वर्तुलम् , ऊल्युगलं-जङ्घाद्वयं यस्यास्तादृशीम् ; पुनः एकतः एकभागे, कान्तिजलभृता कान्तिरूपजलपूर्णेन, नाभिमण्डलीकनकभाण्डेन नाभिचक्ररूपेण सुवर्णपात्रेण, पुनः अन्यतोऽपि अन्यभागेऽपि, वृत्तानुपूर्वेण वृत्तं-वर्तुलम् ,
"Aho Shrutgyanam"