________________
१४८
टिप्पनक-परागविवृतिसंवलिता। स्यैता न पुरुषाणामिति विकल्प्य तास्वेकामतिशयरम्यदर्शनामागमोक्तप्रमाणप्रतिपन्नसकलसुकुमारावयवामब्जचक्रचामरच्छत्रानुकाराभिरनल्पबहुभिरविच्छिन्ननिम्नाभिः प्रशस्तलेखाभिर्लाञ्छितामनुसरन् पदानां पतिमधिकतराभिरामदर्शनमुत्पत्तिसदनमिव सौन्दर्यलक्ष्म्याः श्लक्ष्णसितसुकुमारसिकताकीर्णभूतलमन्योऽन्यलग्नाभिरविरलोद्भिन्नबालदशबलनीलच्छदकलापाच्छादिताभिर्दिवापि संबद्धसान्द्रसंध्यारागशेषं प्रदोषध्वान्तमिव तन्वतीभिरुत्तानकुसुमस्तबकतारकिततनुभिस्तरुणवनलताभिर्निरन्तरपिनद्धनिबिडनिःशेष भित्तिभागं रङ्गमिव जगत्रयारामव्रततिगणिकानां पानगोष्ठीगृहमिवाखिलमधुव्रतव्रातानामाकरमिव समस्तोदारपुष्पमकरन्दस्य स्वेच्छाविहारमन्दिरमिव मकरकेतोरेकमेलालतागृहमद्राक्षम् [ण]।
आगत्य चास्य द्वारदेशे कृताव स्थितिरूवस्थित एवाभ्यन्तरे झगिति पुञ्जीभूतमुद्द्योतमिव दावहुतभुजो जाततद्दाहकशक्तिभङ्ग पिशङ्गीभूतसर्वाङ्गैः स्फुरद्भिरन्तःस्फुलिङ्गैरिव लताभृङ्गनिकुरम्बैः करम्बिताभोगमशनि
रम्यदर्शनाम् अत्यन्तमनोहरदर्शनां, पुनः आगमोक्तप्रमाणप्रतिपन्नसकलसुकुमारावयवाम् आगमोक्तशास्त्रोक्तेन, प्रमाणेन, प्रतिपन्नाः-प्रमिताः, सुकुमाराः-कोमलाः, सकलाः-समस्ताः, अवयवा यस्यास्तादृशी, पुनः अब्जचक्रचामरच्छत्रानुकाराभिः कमल-चक्र-चामर-छत्रसदृशीभिः, क्वचिद् अब्जस्थाने 'अङ्कुश' इति पाठः, अनल्पबहुभिः अतिमात्रबहुभिः, अविच्छिन्ननिम्नाभिः निरन्तरगम्भीराभिः, प्रशस्तलेखाभिः शुभसूचकरेखाभिः, लाञ्छिताम् उपलक्षिताम् , एकां, पदानां पङ्क्षिपथश्रेणीम् , अनुसरन् अनुगच्छन् , एकम अद्वितीयम्, एलालतागृहम एलालतायाः 'एलाया लोकप्रसिद्धलतासम्बन्धिगृहम् , 'अद्राक्षं दृष्टवानहम्' इत्यग्रेणान्वेति, कीदृशम् ? सौन्दर्यलक्ष्म्याः सौन्दर्यसम्पदः, अभिरामदर्शनं मनोहरदर्शनम् , उत्पत्तिसदनमिव उत्पत्तिगृहमिव, पुनः श्लक्ष्णसितसुकुमारसिकताकीर्णभूतलं लक्ष्णाभिःचिक्कणाभिः, सिताभिः-शुभ्राभिः, सुकुमाराभिः-कोमलाभिः, सिकताभिः-वालुकाभिः, आकीर्ण-व्याप्तं भूतलं यस्य तादृशं, पुनः तरुणवनलताभिः प्रौढवनसम्बन्धिलताभिः, निरन्तरपिनद्धनिबिडनिःशेषभित्तिभाग निरन्तरम् अविरतम् , पिनद्धाः-संबद्धाः, निःशेषाः-समस्ताः, भित्तिभागाः- प्रान्तभागा यस्य तादृशम् , कीदृशीभिः ? अन्योऽन्यलग्नाभिः परस्परश्लिष्टाभिः, पुनः अविरलोद्भिन्नबालदशबलनीलच्छदकलापाच्छादिताभिः अविरलोद्भिन्नैः-निरन्तरप्ररूडैः, बालदशबलनीलैः-बाल:-बाल्यावस्थो यो दशबल:-"दानं शीलं क्षमाऽचौर्य ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिनिं दश बुद्धबलानि वै ॥” इत्यन्यत्रोक्तानि दानादीनि दश बलानि यस्यासौ दशबल:-बुद्धः, तद्वन्नीलवणः, छदकलापैः-पत्रगणैः, आच्छादिताभिः-तिरोहिताभिः, पुनः दिवापि दिनेऽपि, सम्बद्धसान्द्रसन्ध्यारागशेष सम्बद्धः-संश्लिष्टः, सान्द्रस्य-निबिडस्य, सन्ध्यारागस्य-सन्ध्याकालिकरक्तकान्तेः, शेषो येन तादृशं, प्रदोषध्वान्तं रात्र्यारम्भकालिकमन्धकार, तन्वतीभिरिव विस्तारयन्तीभिरिवेत्युत्प्रेक्षा, पुनः उत्तानकुसुमस्तबकतारकिततनुभिः उत्तानानां-विकसितानां, कुसुमानां-पुष्पाणां, स्तबकैःगुच्छैः, तारकिता-सञ्जाततारका, तनुः-मूर्तिर्यासां तादृशीभिः, पुनः, कीदृशम् ? जगत्रयारामव्रततिगणिकानां भुवनत्रयोद्यानसम्बन्धिलतारूपवेश्यानां, रङ्गमिव नृत्यभवनमिव, पुनः अखिलमधुव्रतवातानाम् अशेषभ्रमरगणानां, पानगोष्टीगृहमिव पुष्परसपानार्थसमितिभवन मिव, पुनः समस्तोदारपुष्पमकरन्दस्य निखिलदिव्यपुष्परसरत्नस्य, आकरमिव उत्पत्तिस्थानमिव, पुनः मकरकेतोः कामदेवस्य, स्वेच्छाविहारमन्दिरमिव यथेच्छभ्रमणस्थानमिव [ण]।
__ च पुनः, आगत्य निकटमुपस्थाय, अस्य लतागृहस्य, द्वारदेशे प्रवेशनिर्गमस्थाने, कृतावस्थितिः कृतगतिनिवृत्तिः, ऊर्ध्वस्थित एव उत्थित एव, न तूपविष्टः, झगिति शीघ्रम् , अभ्यन्तरे तन्मध्ये, 'आलोकं प्रकाशम् , ईक्षितवान् दृष्टवान्' इत्यप्रेणान्वेति, कीदृशम् ? दावहुतभुजः वनाग्नेः, पुचीभूतं राशीभूतं, जाततद्दाहकशक्तिभङ्गं ध्वस्ततदीयदाहकशक्तिकम् , उद्दयोतमिव प्रकाशमिव पुनः पिशङ्गीभूतसर्वातः पिशङ्गीभूतं-कपिलीभूत, सर्व-समस्तम् , अङ्गं येषां तादृशैः, पुनः अन्तः मध्ये, स्फुरद्भिः सञ्चरद्भिः, लताभृङ्गनिकुरम्वैः लतासक्तभ्रमरगणैः, स्फुलिङ्गैरिव अग्निकणैरिवेत्युत्प्रेक्षा, करम्बिताभोगं करम्बितः-संकीर्णः, आभोगः-मण्डलं यस्य तादृशम् , पुनः अशनिपाताहतिविलीनसुरशैलशिखर
"Aho Shrutgyanam"