________________
तिलकमञ्जरी
१४७ भोगवाञ्छा, नाभिधावति निःसङ्गतां बुद्धिः, नाङ्गीकरोति निर्व्याबाधनित्यसुखमपवर्गस्थानमात्मा । 'सर्वथातिगहनो बलीयानेष संसारमोहः' इति परिभाव्य मनसा मुहूर्तमुत्थाय तस्मात् प्रदेशात् स्वदेशदर्शनं प्रति निराशो निकटवर्तिनं ग्रामं नगरमाश्रमं वान्वेषयितुकामो निमित्तीकृत्य दिशमेकां शनैः शनैरुदचलम् [ड]।
प्रचलितश्च स्तोकमन्तरमेकत्रातिसूक्ष्मसुकुमारसिकते निरन्तरोद्भिन्नकुसुमगुच्छलतागुल्मोपगूढपर्यन्ते गलितहंसगलरोमस्तोमपश्मलक्ष्मातले मुक्ताशुक्तिसंपुटश्रेणिशारितोदरे विरतशर्वरीविरहशोककोकमिथुनानुभूयमानसान्द्रनिद्रे द्राधीयसि सरस्तीरसैकते विभाव्यमानव्यक्ततरविन्यासा दूरविच्छिन्नान्तरतया क्षितितलाधिकनिमग्नचरणतलतया च प्रकटितगतित्वरातिरेकाः सर्वदिङ्मुखाभिमुखीरनेका मानुषपदश्रेणीरपश्यम [ ढ] ।
दृष्ट्वा च किश्चिदुच्छ्रसितहृदयो निरीक्ष्य निपुणमल्पप्रमाणतया ललितसकलावयवतया च स्त्रीजन
टिप्पनकम्-शारितं कधुरीकृतम् [6]।
भुञ्जानामपि, जन्तूनां जीवानां, चित्तं मानसं, जातुचित् कदाचित् , न विरज्यते वैराग्यमाप्नोति, पुनः विषयाभिलाषः चारुशब्दः रूपरसगन्धाकाङ्क्षा, न विशीर्यते निवर्तते, पुनः भोगवाञ्छा विषयभोगेच्छा, न भङ्गुरीभवति विनश्यति, पुनः बुद्धिः, निःसङ्गताम् अनासक्तिम् , अभिधावति सत्त्वरमभिगच्छति, प्राप्नोतीत्यर्थः; पुनः आत्मा, निाबाधनित्यसुखं नियाबाधं-दुःखासम्भिन्नं, नित्यम्-अविनश्वरं यत् सुखं तद्रूपम् , अपवर्गस्थानं मोक्षस्थानं, न अङ्गीकरोति स्वीकरोति, अभिप्रैतीत्यर्थः, सर्वथा सर्वप्रकारेण, अतिगहनः अतिनिबिडः, अत्यन्तदुःखमयो वा, पुनः बलीयान् बलवत्तरः, एषः अनुभूयमानः, संसारमोहः संसारानुरागः, इति इत्थं, मनसा हृदयेन, परिभाव्य विचार्य, पुनः तस्मात् , प्रदेशात् लतागुल्मरूपात् स्थानात् , उत्थाय, स्वदेशदर्शनं प्रति वाभिजनदर्शनविषये, निराशः आशाशून्यः सन् , निकटवर्तिनं समीपस्थं, ग्राम नगरं, वा अथवा, आश्रमम् ऋषिस्थानम्, अन्वेषयितुकामः अन्वेषयितुमिच्छुः, एका दिशं निमित्तीकृत्य लक्ष्यीकृत्य, शनैः शनैः मन्दं मन्दम्, उदचलं प्रचलितवान् [ड]।
च पुनः, स्तोकं किञ्चित् , अन्तरं दूरं, प्रचलितः प्रयातः, एकत्र एकस्मिन् , सरस्तीरसैकते कासारतटवर्तिसिकतामयप्रदेशे, मानुषपदश्रेणी: मनुष्यपदपती 'अपश्यं दृष्टवानहम्' इत्यप्रेणान्वेति, कीदृशे ? अतिसूक्ष्मसुकुमारसिकते अतिसूक्ष्माः-अत्यणुप्रमाणा;, पुनः सुकुमाराः कोमलाः, सिकताः-वालुका यस्मिंस्तादृशे; निरन्तरोद्भिन्नकुसुमगुच्छलतागुल्मोपगूढपर्यन्ते पुनः निरन्तरोद्भिन्नैः-अविरतप्ररूढैः, कुसुमगुच्छैः-पुष्पस्तबकैः, लतागुल्मैः-लताभिः, गुल्मैः-स्कन्धरहिततरुभिश्च, यद्वा लतास्तम्बैः, उपगूढः-आवृतः, पर्यन्तः-प्रान्तभूमिर्यस्य तादृशे; पुनः, गलितहंसगलरोमस्तोमपक्ष्मलक्ष्मातले गलितेन-पतितेन, हंसगलरोमस्तोमेन-हंसगण्डस्थलसम्बन्धिरोमावल्या, पक्ष्मलं-संकुलं, मातलं पृथ्वीतलं यस्मिंस्तादृशे; पुनः मुक्ताशक्तिसम्पुटश्रेणिशारितोदरे मुक्ताशुक्तीनां ये सम्पुटाः-संश्लिष्टस्वरूपाणि, तदीयश्रेण्या-तदीयपक्या, शारितं-चित्रितम् , उदरं-मध्यं यस्य तादृशे; पुनः विरतशर्वरीविरहशोककोकमिथुनानुभूयमानसान्द्रनिद्रे विरतः-निवृतः, शर्वरी विरहशोकः-रात्रिकालिकविश्लेषदुःखं येषां तादृशैः, कोकमिथुनैः-चक्रवाकदम्पतिभिः, अनुभूयमाना-प्राप्यमाणा, सान्द्रा-निबिडा, निद्रा यस्मिंस्तादृशे; पुनः द्राधीयसि अतिदीर्घे, कीदृशीर्मानुषपदश्रेणी: ? विभाव्यमानव्यक्ततरविन्यासाः विभाव्यमानःप्रतीयमानः, व्यक्ततरः-स्फुटतरः, विन्यासः-विक्षेपो यासां तादृशीः, पुनः दूरविच्छिन्नान्तरतया दूरे विच्छिन्नं- मनम् , अन्तरम्अवकाशो यासां तादृशतया, पुनः, क्षितितलाधिकनिमग्नचरणतलतया क्षितितले-भूतले, अधिकम्-अत्यन्तं, निमग्नम्अन्तलीनं, चरणतलं-पादतलं यासां तादृशतया, प्रकटितगतित्वरातिरेकाः प्रकटितः-प्रत्यायितः, गतित्वरातिरेकः-गमनवेगातिशयो यासां तादृशीः, पुनः सर्वदिङ्मुखाभिमुखीः निखिलदिगन्ताभिमुखगत्वरीः, पुनः अनेकाः अधिकाः, [ ढ]।
च पुनः, दृष्ट्वा तद्दर्शनानन्तरं, किञ्चिदुच्छसितहृदयः ईषदुज्जीवितहृदयः, निपुणं सम्यक्, निरीक्ष्य अवलोक्य, अल्पप्रमाणतया अल्पाकारतया, च पुनः, ललितसकलावयवतया मनोहरसर्वावयवतया, एताः पदपङ्कयः, स्त्रीजनस्य स्त्रीव्यक्तीनामेव, सम्भवन्ति, न तु पुरुषाणां पुंव्यक्तीनाम् , इति इत्थं, विकल्प्य विविच्य, तासु पादपतिघु मध्ये, अतिशय
"Aho Shrutgyanam"