________________
टिप्पनक-परागविवृतिसंवलिता। विभवानाम् । अद्यैव तादृशि तृणीकृतत्रिदशपतिविमानसौन्दर्यसंपदि निजे सद्मनि सुहृत्समेतो वीणावादनादिविनोदजनितमानन्दमनुभवन्नवस्थितोऽहमद्यैव दुर्गगिरिकान्तारमध्यवर्ती परिवृतो वनश्वापदशतैरन्यवैदेशिकपथिकसामान्यमवस्थाविशेषम् [ट] । एवमस्वस्थमानसो मानयामि न तद् राज्यम् , न ते राजानः, न स मदान्धगजघटासहस्रसंकुलः स्कन्धावारः, न ते छत्रचामरादयो नरेन्द्रालंकाराः, न तानि श्रवणहारीणि चारणस्तुतिवचनानि, सर्वमेव स्वप्नविज्ञानोपमं संपन्नम् । आस्तां च तावदन्यदप्रत्यासन्नम् , आरोग्य येन स्कन्धमात्मीयमहमेतां भूमिमानीतः, यश्च साधं मयैवास्मिन्नगाधसलिले सरसि मग्नः, सोऽपि नास्ति प्राणभूतो मे पट्टवारणः । न ज्ञायते वराकस्य किं तस्य वृत्तम् , किमतिवेगपतनाद् गुरुत्वाञ्च कायस्य गत्वा दूरमस्य सरसो मूलपङ्के विलग्नो गाढम् , उतान्तराल एव गच्छन् हेलया समकालमेव प्रधावितैः शकलीकृत्य कवलितो महाकायैर्जलचरैः, उतापरमवस्थान्तरं किमपि संप्राप्तः [8] । किं चैकमिह शोच्यते, सर्व एवायमेवंप्रकारः संसारः । इदं तु चित्रं यदीदृशमप्येनमवगच्छतामीदृशीमपि भावानामनियतां विभावयतामीदृशानपि दशाविशेषाननुभवतां न जातुचिजन्तूनां विरज्यते चित्तम्, न विशीर्यते विषयाभिलाषः, न भङ्गुरीभवति
आश्चर्यम् । अद्यैव अस्मिन्नेव दिने, तृणीकृतत्रिदशपतिविमानसौन्दर्यसम्पदि तृणीकृता-तुच्छतामापादिता, त्रिदशपतिविमानस्य-इन्द्रव्योमयानस्य, सौन्दर्यसम्पत्-मनोहरत्यसम्पत्तिर्येन तादृशे, निजे स्वकीये, तादृशि तत्प्रकारके, सद्मनि गृहे, सुहृत्समेतः सुहृदा-समरकेतुसंज्ञकमित्रेण, समेतः-सहितः, वीणावादनादिविनोदजनितं वीणाक्वाणनादिक्रीडाजनितम् , आनन्दम् , अनुभवन् आखादयन् , अहम् , अद्यैव अस्मिन्नेव दिने, दुर्गगिरिकान्तारमध्यवर्ती दुर्गस्य-दुःखेन गन्तुं, शक्यस्य, गिरेः-पर्वतसम्बन्धिनः, कान्तारस्य-वनस्य, मध्यवर्ती-मध्यस्थः सन् , वनश्वापदशतैः वनसम्बन्धिहिंस्रपशुशतैः, परिवृतः परिवेष्टितः, अन्यवैदेशिकपथिकसामान्यम् इतरविदेशवासिपथिकसामान्यम् , अवस्थाविशेषं दुरवस्थाम् , अवस्थितः प्राप्तः [2] । एवम् अनेन प्रकारेण, अस्वस्थमानसः व्याकुलहृदयः, मानयामि मन्ये, तत् अनुभूतपूर्वराज्यं न, अस्तीति, शेषः, ते परोक्षभूताः, यद्वा परिचिताः, राजानः, न सन्तीति योगः, मदान्धगजघटासहस्रसंकुलः मन्दान्धानां-मदमूढानां, गजघटानां-गजयूथानां, सहस्रण, संकुल:- पूर्णः, सः अनुभूतपूर्वः, स्कन्धावारः शिबिरं राजधानी, वा न, अस्तीति शेषः । छत्रचामरादयः, ते अनुभूतपूर्वाः, नरेन्द्रालङ्काराः नृपभूषणानि, न सन्तीति शेषः, पुनः श्रवणहारीणि श्रोत्रप्रियाणि, तानि श्रुतपूर्वाणि, चारणस्तुतिवचनानि बन्दिजनस्तुतिवाक्यानि, न, सन्तीति शेषः । सर्वमेव अनुपदोक्तं समस्तमेव वस्तु, स्वप्नविज्ञानोपमं वनकालिकविज्ञानतुल्यं, मिथ्येति यावत् , सम्पन्नं सजातम् , अप्रत्यासन्नम् असन्निकृष्टम् , अन्यत् अनुपदवक्ष्यमाणाद् व्यतिरिक्तं वस्तु, तावत् , आस्तां तिष्ठतु । येन आत्मीयं स्वकीयं, स्कन्धं पृष्ठोपरि, आरोप्य अधिष्ठाप्य, एताम् इमाम् , भूमिम् , अहम् , आनीतः प्रापितः; च पुनः, यो मयैव, साधं सह; अगाधसलिले अतलस्पर्शजले, अस्मिन् अदृष्टपाराख्ये, सरसि कासारे, मग्नः अन्तर्लीनः, यो मम प्राणभूतः प्राणरूपः, सोऽपि पट्टवारणः प्रधानहस्ती नास्ति, न ज्ञायते निर्णीयते, वराकस्य दयनीयस्य, तस्य पट्टवारणस्य, किं कीदृशं, वृत्तं समाचारः, जातं वा, तथाहि अतिवेगपतनाद वेगातिशयेन पतनाद्धेतोः, च पुनः, कायस्य शरीरस्य, गुरुत्वाद्धेतोः, दूरं गत्वा, अस्य प्रकृतस्य, सरसः कासारस्य, मूलपङ्के अधस्तनकर्दमे, गाढम् अत्यन्तं, विलग्नः निषक्तः, किम् ? उत वितळते, हेलया क्रीडया, गच्छन् समकालमेव एककालमेव, प्रधावितैः प्रकर्षेण कृतधावनैः, महाकायैः विशालशरीरैः, जलचरैः मकरादिभिः, शकलीकृत्य खण्डशः कृत्वा, मध्य एव, कवलितः भक्षितः, उत वितळते, अपरम् उक्तावस्थाद्वयभित्र, किमपि अनिश्चितविशेषम् , अवस्थान्तरम् अवस्थाभेदं, सम्प्राप्तः सम्यगनुभूतवान् , सर्वत्र स पट्टवारण इत्यनुवर्तते [3] | च पुनः, इह संसारे, एकं प्रकृतहस्तिमात्रं, किं शोच्यते शोकलक्ष्यीक्रियते, सर्व एव समस्त एव, अयं संसारः, एवंप्रकारः एतादृशः, शोच्य इत्यर्थः । इदं तु चित्रम् आश्चर्यम् , यत् यस्माद् , एनं संसारम् , ईदृशं शोच्यम् - अवगच्छतामपि जानतामपि, पुनः भावानां वस्तूनाम् , ईदृशीम् एवंप्रकाराम् , अनित्यतां विनश्वरता, विभाव, यतामपि विचारयतामपि, पुनः ईदृशान् अनुपदोक्तप्रकारान् , दशाविशेषान् अवस्थाविशेषान् , अनुभवतामपि
"Aho Shrutgyanam"