________________
१४५
समुद्वहन् मामुदधिगम्भीरे सरसि तस्मिन्नदृष्टपाराख्ये सत्वरोपसंहृतपुरोगमनमात्मानममुञ्चत् । पतनसमनन्तरमेव च तिरोभावमुपगते तत्र निरवलम्बनोऽहं पतनवेगा न्निमज्ज्य दूरमतिचिरादुन्मग्नोऽप्यजातसंक्षोभः पर्यायेण विहितायतोत्क्षेप - विक्षेपाभ्यां भुजाभ्यामनवरतमभिमुखाकृष्टसलिलस्तूर्णमेव तीर्त्वा सर उरोदन्ननीरं तीरदेशमस्यासादयम् [झ ] |
तत्र चारोहणसमयलग्नेन गात्रोद्धूलनरेणुना गगनगमनवेगश्रमविकीर्णेन च तस्य करिण: करा - शीकरजलेन कलुषीकृतं प्रक्षाल्य सुचिरमङ्गमुत्तीर्य मध्य । दुद्वाप्य निष्पीडिते निबिडमवगलित पर्युषिताङ्गरागविमले दुकूलवाससी कृत्वाऽऽचमनजलपानादिकर्म निविश्यैकस्य कूलासन्नवर्तिनो लतागुल्मस्य मूले मुहूर्त - मतिवाहितश्रमः स्वस्थचेतास्तथा शिलातलोपविष्टमे का किनमनिवारिता पतत्परुषमध्यंदिनानिललुप्यमानवपुषमनवरतजायमानकण्ठास्यशोषमात्मानमवलोक्य संजातविस्मयश्चिन्तितवान् [ अ ] 'अहो विरसता संसारस्थितेः, अहो विचित्रता कर्मपरिणतीनाम्, अहो यदृच्छाकारितायामभिनिवेशो विधेः, अहो भङ्गुरस्वभावता
टिप्पनकम् - उरोदनं वक्षःस्थलोर्ध्वप्रमाणम् [झ ] ।
तादृशः सन् तथैव पूर्ववदेव, स्कन्धवद्धासनं स्कन्धप्रदेशोपविष्टं, मामू, समुद्रहन् धारयन्, उदधिगम्भीरे समुद्रवन्निने, अदृष्टपाराख्ये अदृष्टपारेत्यन्वर्थनानि, तस्मिन् प्रकृते, सरसि कासारे, सत्वरोपसंहृतपुरोगमनम् सत्वरं - शीघ्रम्, उपसंहृतं निरुद्धम् अग्रगमनं येन तादृशम्, आत्मानं स्वम्, अमुञ्चत् पातितवान् । च पुनः पतनसमनन्तरमेव पतनाव्यवहितोत्तर कालमेव, तत्र तस्मिन्, गजे, तिरोभावम् अन्तर्धानम्, उपगते प्राप्ते, अहं पतनवेगात् पतनजनित. वेगवशात्, निमज्ज्य निमग्नो भूत्वा, अतिचिरात् अतिदीर्घकालात्, दूरम्, उन्मग्नोऽपि उद्गतोऽपि, अजातसंक्षोभः अनुत्पन्न - सम्भ्रमः पर्यायेण क्रमेण विहितायतोत्क्षेपविक्षेपाभ्यां विहितौ कृतौ आयतौ दीर्घौ, उत्क्षेप-विक्षेपौ-उत्तानवितानौ ययोस्तादृशाभ्यां भुजाभ्यां बाहुभ्याम्, अनवरतम् निरन्तरम्, अभिमुखाकृष्टसलिलः अभिमुखाकृष्टानिसम्मुखमानीतानि, सलिलानि - जलानि येन तादृशः, तूर्णमेव सत्वरमेत्र, सरः प्रकृतकासारं, तीर्त्वा लङ्घित्वा, उरोदननीरम् उरोदनम् - वक्षः प्रमितं, नीरं जलं यस्मिंस्तादृशम्, अस्य सरोवरस्य, तटप्रदेशम् आसादयं प्राप्तवान् [झ ] ।
तिलकमञ्जरी
च पुनः, तत्र तस्मिन् तीरदेशे, आरोहणसमयलग्नेन हस्तिपृष्ठोपरिगमनकालसंसक्तेन, गात्रोद्धूलनरेणुना गात्रेण-शरीरेण, यद् उद्भूलनं - धूलीमर्दनं, तत्सम्बन्धिन्या रेण्वा-धूल्या, च पुनः, गगनगमनवेगश्रमविकीर्णेन आकाशगमनायासविक्षिप्तेन, तस्य प्रकृतस्य, करिणः हस्तिनः, कराग्रशीकर जलेन शुण्डादण्डाग्रवर्त्तिजलकणेन, कलुषीकृतं मलिनीकृतम्, अङ्गम् शरीरावयवं सुचिरम् अतिदीर्घकालं, प्रक्षाल्य विशोध्य पुनः मध्यात् तत्तीराभ्यन्तरात्, उत्तीर्य ऊर्ध्वमागत्य, पुनः, निष्पीडिते संमर्दिते, निविडं अत्यन्तं पुनः अवगलितपर्युषिताङ्गराग विमले अवगलितैः - निष्पतितैः, पर्युषितैः-पूर्व लग्नैः, अङ्गरागैः - अङ्गविलेपनद्रव्यैः, विमले - मलशून्ये, दुकूलवाससी दुकूले- क्षौमे अधरीयोत्तरीयवस्त्रे, उद्वाप्य निष्कास्य, पुनः आचमनजलपानादिकर्म आचमनं मुखादिप्रक्षालनं, जलपानं पानीयपानं, तदादिकं कर्म क्रियां, कृत्वा सम्पाय, पुनः एकस्य, कूलासन्नवर्तिनः तटनिकटवर्त्तिनः, लतागुल्मस्य लतापुञ्जस्य, मूले अधोदेशे, निविश्य उपविश्य, मुहूर्त क्षणम्, अतिवाहितश्रमः उपशमितखेदः, अत एव स्वस्थचेताः प्रशान्तहृदयः, तथा तेन प्रकारेण, शिलातलो - पविष्टं शिलापृष्टोपविष्टं, पुनः एकाकिनम् असहायम्, अनिवारितापतत्परुषमध्यन्दिनानिललुप्यमानवपुषम् अनिवारितेन अनवरुद्धेन, परुषेण - तीव्रेण, मध्यन्दिनानिलेन - मध्याह्नका लिकवायुना, लुप्यमानं शोष्यमाणं, वपुः शरीरं यस्य तादृशम्, पुनः अनवरत जायमानकण्ठास्यशोषम् अनवरतं - निरन्तरं जायमानः- उत्पद्यमानः कण्ठास्यशोषः कण्ठमुखशोषणं यस्य तादृशम्, आत्मानं खम्, अवलोक्य अनुभूय, संजातविस्मयः उत्पन्नाश्चर्यः सन् चिन्तितवान् आलोचितवान् [ अ ] | संसारस्थितेः सांसारिकावस्थायाः, विरसता अतात्त्विकता, अहो आश्चर्यम्, पुनः कर्म परिणतीनां कर्मविपाकानां विचित्रता विलक्षणता, अहो आश्चर्यम्, पुनः विभवानां धनसंपदा, भङ्गुरस्वभावता नश्वरस्वभावता; अहो
१९ तिलक०
"Aho Shrutgyanam"