________________
१४४
टिप्पनक-परागविवृतिसंवलिता। च्छायः, क्वचिदभ्रवर्त्मनाभिमुखमापतद्भिः सिद्धाध्वन्यमिथुनैः करिभयाद् दूरत एव विहितापसरणः, क्वचित तरलितोत्तरीयपटपल्लवेन तुङ्गगिरिशिखरनिर्झरवायुना स्वयमुद्भूततालवृन्तेनेवापनीतश्रमस्वेदजलकणः क्षणेनैवास्य पर्वतपतेरेकशृङ्गाख्यस्य शिखराप्रवर्तिनमाकाशप्रदेशमासादयम् [छ ] । दृष्ट्वा च निकटवर्तिनं पुरो वैताढ्यमीषद्गलितदाळ इति मनस्यकरवम् – 'एष कुञ्जरः केनाप्यसुरेण राक्षसेन वा पूर्वजन्मनि मया कृतं स्मृत्वा कमप्यपकारमुत्पन्नकोपेनानुप्रविश्य नीयते वश्यम , न हि पशूनां स्वरूपेणाकाशगमने कदाचिदस्ति शक्तिः, न चातिवेगादवगम्यते कियन्तमध्वानमहमनेनानीत इति, तदयमद्यापि यावदतिदूरं न याति क्षितिगोचरैरलङ्घयशिखरोच्छ्रायमचलं वा नैनमुल्लङ्घयति, पयोधिमध्ये द्वीपान्तरे वा न मां प्रापयति, तावदेनं व्यावर्तयामि' इति संप्रधार्य तिर्यगुन्नमितकूर्परः पाणिना दक्षिणेन जघनावनद्धां खड्गधेनुकामस्पृशम् [ज] ।
दृष्ट्वा च तां समुत्खन्यमानामखण्डितोल्लसदसितलोलांशुमालाकरालितदिगन्तामुत्पातविद्युतमिवाम्बरे विस्फुरन्ती स वारणः सहसैव मुक्तार्तभीषणनिनादः सपक्षशैल इव कुलिशोत्रासितस्तथैव स्कन्धबद्धासनं
उपरि-शिरोदेशे, विस्तार्यमाणा-प्रसार्यमाणा, मांसला-सान्द्रा, छाया-अनातपो यस्य तादृशः, पुनः क्वचित् कस्मिंश्चित् स्थाने, अभ्रवर्त्मना आकाशमार्गेण, अभिमुखं सम्मुखम् , आपतद्भिः-आगच्छद्भिः, सिद्धाध्वन्यमिथुनः सिद्धाः-सिद्धियुक्ताः, ये अध्वन्यः-पथिकाः, तन्मिथुनैः-तद् द्वन्द्वैः, करिभयात् हस्तिभयात् , दरत एव दूरादेव, विहितापसरणः कृतत्यागः; पुनः क्वचित् कस्मिंश्चित् स्थाने; तरलितोत्तरीयपटपल्लवेन तरलितः-चञ्चलितः, उत्तरीयपटपल्लवः-पल्लवकोमलोत्तरीयवस्त्रं येन तादृशेन; तुङ्गगिरिशिखरनिर्झरवायुना उन्नतपर्वतशिखरसम्बन्धिजलप्रवाहशीतलवायुना, स्वयमुद्भूततालवृन्तेनेव स्वयंपरप्रेरणमन्तरेणैव, उद्भूतेन-उत्कम्पितेन, तालवृन्तेनेव-तालव्यजनेनेवेत्युत्प्रेक्षा, अपनीतश्रमस्वेदजलकणः अपनीताः-दूरीकृताः, शोषिता इत्यर्थः,श्रमस्वेदजलकणाः-श्रमजनितस्वेदजलबिन्दवो यस्य तादृशः सन् , क्षणेनैव क्षणमात्रेण, एकशङ्कास्यस्य एकशृङ्गसंज्ञकस्य, अस्य बुद्धिसन्निहितस्य, पर्वतपतेः पर्वतराजस्य, शिखराग्रवर्तिनं शिखरोर्वस्थितम् , आकाशप्रदेशम् आकाशमार्गम् , आसादयं प्राप्तवान् [छ । च पुनः, पुरः अग्रे, निकटवर्तिनं समीपस्थं, वैताढ्यं तदाख्यपर्वतं, दृष्ट्वा अवलोक्य, ईषद्गलितदायः किञ्चिन्नष्टान्तर्बलः सन् , इति इत्थम् , मनसि हृदि, अकरवं विचारितवान् । केनापि अनवगतनाम्ना, असुरेण सामान्यदैत्येन, राक्षसेन वा क्रव्यादेन वा, पूर्वजन्मनि प्राग्भवे, मया कृतं कमपि, अपकारम् अप्रियकार्य, स्मृत्वा स्मरणगोचरीकृत्य, उत्पन्नकोपेन जातक्रोधेन, अनुप्रविश्य अन्तर्भूय, एषः अयं, कुञ्जरः हस्ती, वश्यं खवश्यतां, नीयते प्राप्यते, हि यतः, पशूनां पशुजातीयानां, स्वरूपेण स्वयम् , आकाशगमने आकाशविचरणे, शक्तिः सामर्थ्य, कदाचित् कदापि, न, अस्ति वर्तते, च पुनः, अतिवेगात् वेगातिशयाद्धेतोः, अहम् , अनेन हस्तिना, कियन्तं किं प्रमाणकम् , अध्वानं पन्थानम् , आनीतः लङ्गितः, इति न, अवगम्यते ज्ञायते, तत् तस्माद्धेतोः, अयं हस्ती, अद्यापि अधुनापि, यावत् , अतिदूरम् अधिकदूरदेशं, न, याति गच्छति, वा पुनः, क्षितिगोचरैः भूमिवासिभिः, मत्यैरित्यर्थः, अलवयशिखरोच्छायम् अलङ्घयः-लचितुमशक्यः, शिखरोच्छायः- उन्नतशिखरो यस्य तादृशम् , एनम् इभम् , अचलं पर्वतं, न, उल्लङ्घयति अतिक्रामति, पुनः पयोधिमध्ये समुद्रमध्ये, द्वीपान्तरे वा अन्यस्मिन् द्वीपे वा, मां न, प्रेरयति गमयति, तावत् एनम् इमं, हस्तिनं, व्यावर्तयामि अग्रगमनान्निवारयामि, इति इत्थं, सम्प्रधार्य निश्चित्य, तिर्यगुन्नमितकूपरः तिर्यक्-वकं यथा स्यात् तथा, उन्नमितः-उत्क्षिप्तः, कूर्परः-कराधःप्रदेशो येन तादृशः सन् , दक्षिणेन, पाणिना हस्तेन, जघनावनद्धां नितम्बपुरोभागनिबद्धां, खड्गधेनुकाम् असिपुत्रिकाम् , छुरिकामित्यर्थः, अस्पृशम् स्पृष्टवान् [ज]।
__ च पुनः, समुत्खन्यमानां समुद्भियमाणां, पुनः अम्बरे गगने, उत्पातविद्युतमिव उपद्रवजनकतडिदिव, अखण्डितोल्लसदसितलोलांशुमालाकरालितदिगन्ताम् अखण्डितम्-अविच्छिन्नं यथा स्यात् तथा, उल्लसन्त्या-उच्छ
गुमालया-श्यामलचपलकिरणश्रेण्या, करालितः-व्याप्तः, दिगन्तो यया तादृशी, विस्फरन्तीम् उद्भासमानां, तां छुरिकां, दृष्ट्वा, सः प्रकृतः, वारणः गजः, कुलिशोत्रासितः वज्रोद्वेजितः, सपक्षशैल इव पक्षान्वितपर्वत इव, सहसैव शीघ्रमेव, मुक्तार्तभीषणनिनादः मुक्तः-कृतः, आर्तः-दुःखपूर्णः, भीषणः-भयंकरः, निनादः-चीत्कारः पक्षे शब्दो येन
"Aho Shrutgyanam"