________________
तिलकमञ्जरी
१४३ विषमपाषाणपटलस्थपुटितावतारेण वनतरङ्गिणीश्रोतसा भग्नगमनत्वरस्तरसान्तरिक्षमुदपतत् । उत्पत्य चातिदूरमूरीकृतकुबेरदिङ्मुखाभिमुखयात्रो गात्रनिर्वापणाय परितः प्रकीर्णेन विस्तारिणा कराग्रशीकरजलासारेण निर्भरान्धकारितगगनगर्तः पुष्करावर्तजलद इव संवर्तकालमरुताहतो वेगमतिमहान्तमतनोत् [3]। तेन चास्य वेगातिशयेन संजातगुरुविस्मयोऽहं मुहुर्मुहुः कौतुकादधोमुखक्षिप्तदृष्टिरस्फुटोपलक्ष्यमाणग्रामनगरां कीटप्रायजनपदां दूर्वाप्रतानोपमानविततवेलावनखण्डां गण्डशैलप्रख्यविन्ध्य-सह्यप्रमुखभूधरामुरगकन्यकानिर्मोकसदृशमन्दाकिनीपुरःसरमहासरित्प्रवाहां नड्वलाकारमानसप्रभृतिदिव्यसरोवरां सर्वत एव चक्षुषा परिच्छिद्यमानविस्तारामतिदवीयस्तया रसातल इव प्रविष्टामन्धकूप इव निपतितां जातानुतापेन मधुरिपोराच्छिद्य बलिनेवात्मसंनिधावानीतामब्धिपर्यन्तामवनिमीक्षमाणः [च], कचित् समासन्नतया तपनमण्डलस्यातिदुःसहेन तापोष्मणा दह्यमानकायः, कचिदयत्नातपत्रतां गतैरम्भोदपटलैरुपरिविस्तार्यमाणमांसल
टिप्पनकम्-संवर्तकाल:-क्षयकालः [ङ] । नवलम्-अखातसरः [च] ।
पटलस्थपुटितावतारेण विषमेण निम्नोन्नतेन, पाषाणपटलेन-प्रस्तरराशिना, स्थपुटित--आवृतः, अवतारः-प्रवेशमार्गो यस्य तादृशेन, वनतरङ्गिणीस्रोतसा वननदीप्रवाहेण, भग्नगमनत्वरः विच्छिन्नगमनवेगः सन् , तरसा वेगेन, अन्तरिक्षं गगनम् , उदपतत् उच्छलितवान् , च पुनः, अतिदूरभ् अत्यन्तदूरम् , उत्पत्य उड्डीय, ऊरीकृतकुबेरदिङ्मुखाभिमुखयात्र: उरीकृता-स्वीकृता, कुबेरदिङ्मुखाभिमुखी-उत्तरदिगन्ताभिमुखी, यात्रा-प्रयाणं येन तादृशः, गात्रनिर्वापणाय शरीरशोधनाय, परितः सर्वतः, प्रकीणन प्रक्षिप्तेन, विस्तारिणा दीर्घण, करायशीकरजलासारेण शुण्डादण्डाग्रसम्बन्धिजलकणधारासम्पातेन, निर्भराधकारितगगनगर्तः निर्भरम्-अत्यन्तम् , अन्धकारितः-अन्धकारसमयीकृतः, गगनगर्तः-आकाशबिलं येन तादृशः, संवर्तकालमरुता प्रलयकालिकपवनेन, आहतः उद्धृतः, पुष्करावर्तजलद इव पुष्करावर्तसंज्ञकमेघविशेष इव, अतिमहान्तम अत्यधिकम् , वेगम् , आतनोत विस्तारितवान् |
ङच पुनः, अस्य बुद्धिसन्निकृष्टस्य गन्धगजस्य, तेन अनुपदवर्णितेन, वेगातिशयेन वेगाधिक्येन, संजातगुरुविस्मयः उत्पन्नात्यन्ताश्चर्यः, अहम् , मुहुर्मुहुः वारं वारम् , कौतुकात् औत्सुक्यात , अधोमुखक्षिप्तदृष्टिः अधोमुखम्-अधोदेशाभिमुखं, क्षिप्ता-प्रेरिता, दृष्टियेन तादृशः सन् , अस्फुटोपलक्ष्यमाणग्रामनगराम् अस्फुटम्-अव्यक्ताकारं यथा स्यात् तथा, उपलक्ष्यमाणाः-दृश्यमानाः, ग्रामाः-गृहसमूहाः, नगराणि च यस्यां तादृशीम् , पुनः कीटप्रायजनपदां कीटप्रायाः-कीटवदणुप्रमाणाः, जनपदाः-देशा यस्यां तादृशीम् , पुनः दूर्वाप्रतानोपमानविततवेलावनखण्डां दूर्वाप्रतानोपमानाः-दूर्वाख्यतृणपुञ्जतुल्याः, वितताः-विस्तृताः, वेलावनखण्डाः-तटवर्तिवनगणा यस्यां तादृशीम् , पुनः गण्डशैलप्रख्यविन्ध्यसाप्रमुखभूधरां गण्डशैलप्रख्याः-पर्वतच्युतस्थूलशिलातुल्याः, विन्ध्यसह्यप्रमुखाः-विन्ध्यसह्यप्रभृतयः, भूधराः- पर्वता यस्यां तादृशीम् , पुनः उरगकन्यकानिर्मोकसदृशमन्दाकिनीपुरस्सरमहासरित्प्रवाहाम् उरगकन्याकानिर्मोकसदृशाः-सर्पकन्याशरीरच्युतत्वतुल्याः, मन्दाकिनीपुरस्सराणां-गङ्गाप्रमुखानां, महासरितामहानदीनां, प्रवाहा यस्यां तादृशीम् , पुनः नङ्गलाकारमानसप्रभृतिदिव्यसरोवरा नडुलम्-अखातं सरः, तदाकाराः, मानसप्रभृतयः-मानसादयः, दिव्याः-उत्तमाः, सरोवरा:-कासारश्रेष्ठा यस्यां तादृशीम् ,सर्वत एव न त्वेकदेशतः, चक्षुषा नेत्रेण, परिच्छिद्यमानविस्तारा परिच्छिद्यमानः-मीयमानः, विस्तारः-दैर्घ्य यस्यास्तादृशीम् , पुनः अतिदवीयस्तया अत्यधिकदूरया, रसातले पाताले, प्रविष्टामिव कृतप्रवेशामिव, पुनः अन्धकूपे अन्धे-अन्धकारपूर्णे कूपे, निपतितमिव अधोगतामिव, पुनः जातानुतापेन उत्पन्नपश्चात्तापेन, बलिना तदाख्यदानवेन्द्रेण, मधुरिपोः विष्णोः, आच्छिद्य बलाद् गृहीत्वा, आत्मसन्निधौ स्वनिकटे, आनीतामिव उपस्थापितामिव, अब्धिपर्यन्तां समुद्रपर्यन्ताम् , अवनिं पृथ्वीम् , ईक्षमाणः अवलोकमानः [च। क्वचित कस्मिंश्चित् प्रदेशे, तपनमण्डलस्य सूर्यमण्डलस्य, समासन्नतया सन्निहिततया, अतिदुस्सहेन अतिदुःखसहेन, तपोष्मणा तदीयकिरणोष्णतया, दह्यमानकायः सन्तप्यमानशरीरः, पुनः क्वचित् कस्मिंश्चित् स्थले, अयत्नातपत्रतां अकृत्रिमच्छत्ररूपता, गतैः आपन्नैः, अम्भोदपटलैः मेघगणैः, उपरिविस्तार्यमाणमांसलच्छायः
"Aho Shrutgyanam"