________________
१४२
टिप्पनक- परागविवृतिसंवलिता ।
हर्तुमिव पार्वती-कमलयोरुत्पादिता कमलयोनिना देवेन लावण्यैकवसतिः सकलस्यापि भवञ्चरणकमलानुवर्तिनो राजलोकस्य मान्या महाराजकन्या ? या तत्र कदलीगृहे गृहीतविरहिणीजनाकल्पा ज्ञापिता कुमारेण मत्स्वरूपम् [ग]।' इति सकौतुकेन पृष्टः समरकेतुना विहस्य हरिवाहनः सहर्षमुवाच - 'युवराज ! कथयामि यदि ते कौतुकम् अवहितो भव, प्रभूतमिदमाख्येयम्, अथवा वृथा ममाभ्यर्थनेयम् अयमेव भूना निरन्तराश्चर्यसरसो मदीयवृत्तान्तः करिष्यत्यवधानवन्तं भवन्तम् । तदा प्रत्यक्षमेव भवतस्तथा मदान्धः स गन्धवारणः स्कन्धदृढबद्धासनं शासनानन्तरमेव साध्वसादाधोरणैरकृत सत्वरोपसर्पणैरनर्पिताङ्कुशमवशमुद्वहन् मामद्रिगह्वरात् ततो निर्गत्य तेनैव गिरितटेन यथोत्तरप्रकटितजवः पृष्ठतो वहद्भिरनवरततर्जितजात्यवाहैर्वाहिनीपतिभिरन्यैश्चाबद्धपरिकरैः परिकारमेण्ठवण्ठप्रायैः प्रजविभिः सैन्ययोधैरनुबद्ध्यमानः कियन्तमपि मार्गमगमत् [घ] । अन्तरितेषु च निरन्तरैर्वनतरुस्तम्बैर्विलम्बितेषु सर्वेष्वनुपदिषु लोकेष्वेकेन मार्गवर्तिना
टिप्पनकम् - चैत्ररथं (थवनं ) - धनदोद्यानम् । आकल्पः - नेपथ्यम् [ग] । अनुबध्यमानः सातत्येनानुगम्यमानः [घ] ] ।
पार्वती- कमलयोः गौरी-लक्ष्म्योः, रूपगर्व सौन्दर्याभिमानम्, अपहर्तुमिव दूरीकर्तुमिव, लावण्यैकवसतिः लावण्यंरूपं, तदेव, एकवसतिः - एकमद्वितीयं निवासस्थानं यस्याः सा, कमलयोनिना कमलोद्भवेन, देवेन ब्रह्मणा, उत्पादिता सृष्टा, पुनः भवच्चरणकमलानुवर्तिनः त्वदीयपादपङ्कजानुसारिणः, सकलस्यापि सर्वस्यापि, राजलोकस्य नृपजनस्य, मान्या आदरणीया, सा दृष्टिगोचरीभूता; महाराजकन्या राजपुत्रिका या तत्र तस्मिन् कदलीगृहे कदलीमण्डपे, गृहीतविरहिणीजना कल्पा धृतवियोगिनीजनवेषा, कुमारेण भवता, मत्स्वरूपं मदीयं स्वरूपं, विज्ञापिता आवेदिता, मां परिचायितेत्यर्थः [ग] । इति इत्थं, सकौतुकेन औत्सुक्यपूर्णेन, समरकेतुना, पृष्टः जिज्ञासां ज्ञापितः सन्न, हरिवाहनः, विहस्य स्मितवदनो भूत्वा, सहर्ष हर्षपूर्वकम् उवाच उक्तवान् युवराज ! कुमार ! यदि ते तव, कौतुकम् औत्सुक्यं, तर्हि कथयामि विज्ञापयामि, अवहितः श्रोतुं सावधानो भव, इदम् अनुपदमुच्यमानम्, आख्येयम् आख्यायिकारूपेण वक्तव्यम्, प्रचुरम् अधिकम् । अथवा इयं तत्कालक्रियमाणा, मम, अभ्यर्थना अवधानप्रार्थना, वृथा व्यर्था, यतः भूना बाहुल्येन, निरन्तराश्चर्यसरसः अनवरतमाश्चर्यरसाष्ठतः, अयं वक्ष्यमाणप्रकारः, मदीयवृत्तान्त एव मदीय समाचार एव, भवन्तं त्वाम् अवधानवन्तं सावधानं, करिष्यति सम्पादयिष्यति । तदा तस्मिन् काले, भवतः तव, प्रत्यक्षमेव समक्षमेव, तथा तेन प्रकारेण, मदान्धः मदमूढः, स गन्धवारणः गन्धाढ्यगजः, स्कन्धदृढबद्धासनं स्कन्धे - ग्रीवाप्रदेशे, बद्धं - कल्पितं, दृढं - स्थिरम् आसनम् - उपवेशनं येन तादृशं, शासनानन्तरमेव दमनाव्यवहितोत्तरक्षणमेव, साध्वसात् भयात्, अकृतसत्वरोपसर्पणैः शीघ्रमनुपगतैः, आधोरणैः हस्तिपकैः, अनर्पिताङ्कुशम् समर्पिताङ्कुशम्, मां हरिवाहनम्, अवशम् अनधीनं यथा स्यात् तथा, स्वच्छन्दमित्यर्थः, उद्वहन् ऊर्ध्वभागे धारयन्, ततः तस्मात्, अद्रिगह्वरात् पर्वतनिकुञ्जत्, निर्गत्य निःसृत्य, तेनैव, गिरितटेन पर्वतैकदेशेन यथोत्तरप्रकटितजवः यथोत्तरम् - उत्तरोत्तरं, प्रकटितःप्रदर्शितः, जवः- वेगो येन तादृशः पृष्ठतः पश्चाद् भागतः, वहद्भिः गच्छद्भिः, अनवरत तर्जितजात्यवाहैः अनवरतंनिरन्तरं, तर्जिताः-भत्सिताः, जात्याः - प्रशस्ताः, वाहाः - अश्वा यैस्तादृशैः, वाहिनीपतिभिः सेनानायकैः च पुनः, आबद्धपरिकरैः कृतगात्रबन्धैः, परिकारमे ण्ठवण्ठप्रायैः कृतगात्रबन्धः, यद्वा, परिकाराः आयुधविशेषधारिणः, 'परिघकर' इति पाठे तु परिघायुधाः, ये मेण्ठाः- हस्तिपकाः, वण्ठाः, कुन्तायुघाः, तत्प्रायैः - प्रचुरैः, पुनः प्रजविभिः वेगोत्कर्षशालिभिः, अन्यैः तद्वयतिरिक्तैः, सैन्ययोधैः सेनासमवेतभटैः, अनुबध्यमानः सातत्येनानुगम्यमानः कियन्तमपि कतिपयमपि, मार्गम्, अगमत् लङ्घितवान् [घ] । च पुनः निरन्तरैः सान्द्रैः, वनतरुस्तम्बैः वनवृक्षगुल्मैः अन्तरितेषु अन्तर्हितेषु सर्वेषु समस्तेषु, अनुपदिषु पश्चाद् गामिषु लोकेषु जनेषु, विलम्बितेषु कृतविलम्बेषु सत्सु, मार्गवर्तिना मार्गस्थेन, पुनः विषमपाषाण
"Aho Shrutgyanam"