SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १४१ आकर्ण्य चैनमुद्भिन्नपुलकः सहर्षमब्रवीत् समरकेतुः-'कुमार ! साध्वनेन मङ्गलपाठकेन पठितम् , किं दृश्यते ? किं च वर्ण्यते ? सकलकुलधराधरसाधारणगुणग्रामगरिमा गिरिरेषः । दर्शनीयो वर्णनीयश्च त्वमेको जगति येन निःसामान्यनिजचरितखर्वीकृतसर्वान्यभूभृता निजभुजादण्डमात्रसहायेन निर्गत्य शिबिरात् परिमितैरहोभिरावर्जितं विद्याधरचक्रवर्तित्वम् , अनुचरीकृताः खेचराधिपतयः, विधेयीकृतं विद्यादेवताचक्रम् , तदास्तां तावदस्य शिखरिणो दर्शनव्यावर्णनानि । तमेवावेदय यथावृत्तमादितः प्रभृति सर्वमात्मीयवृत्तान्तम् । दुष्टकरटी स तावत् लौहित्यतटपर्वताटव्यां भवन्तमपहृत्य व गतः ? क स्थितः ? त्वयापि ततोऽवतीर्य किं कृतम् ? किं दृष्टम् ? किमनुभूतम् ? क प्रदेशे कृतस्थितिना प्रेषितः स लेखः ? केन वा स शीघ्रमेव प्रापितः शिविरम् ? कुत ईदृशीनामाकाशगमनादिकार्यजनितजगद्विस्मयानामखिलानामपि महाप्रभावाणां विद्यानामधिगतिः ? कथमियमतर्कितैव विद्याधरचक्रवर्तिपदप्राप्तिः ? केन वा प्रसङ्गेन तत्र चैत्ररथवनविडम्बिनि जिनायतनकानने कृतमागमनम् ? का च सा त्रिलोकीतिलकभूता रूपगर्वमप अनन्यतुल्यमहिमा अनन्यसाधारणमहत्त्वशाली, त्वं भगवान् हरिवाहन एव, द्रष्टव्यः दर्शनार्हः, अधःकृतखेचरेन्द्रतत्रतिना अधःकृता-न्यूनीकृता, खेचरेन्द्रततिः-विद्याधरेन्द्रगणो येन तादृशेन, येन अस्य प्रत्यक्षवर्तिवैताढ्यपर्वतस्य, मूर्भि मस्तके, ऊर्चभूमिकायामित्यर्थः, स्थितिः, बद्धा दृढीकृता, च पुनः, एनम् इमं श्लोकम् , आकर्ण्य श्रुत्वा, उद्भिन्नपुलका उद्गतरोमाञ्चः सन् , समरकेतुः, सहर्ष सप्रमोदम् , अब्रवीत् उक्तवान् , अनेन प्रत्यक्षवर्तिना, मङ्गलपाठकेन मङ्गलात्मकश्लोकपाठिना, साधु सम्यक्, पठितं व्यक्तमुक्तम् , सकलकुलधराधरसाधारणगुणग्रामगरिमा सकलकुलधराधरसाधारणः. निखिलकुलपर्वतसाधारणः, गुणग्रामगरिमा-गुणगणगौरवं यस्य तादृशः, एषः समीपतरवती, गिरिः वैताव्यपर्वतः, किं दृश्यते दृष्टिगोचरीक्रियते, च पुनः, किं वर्ण्यते स्तूयते, न किमपि दृश्यं स्तुत्यं वाऽत्रेत्यर्थः । किन्तु जगति लोके, एका एकमात्रं, त्वं भवान् , दर्शनीयः दर्शनार्हः, च पुनः, वर्णनीयः वर्णनाहः, असीति शेषः, निःसामान्य निजचरितखर्वीकृतसर्वान्यभूभृता निःसामान्यचरितैः-असाधारणस्वचरितैः, खर्वीकृताः-लघूकृताः, सर्वे-समस्ताः, अन्ये, भूभृतः-राजानो येन नः निजभजादण्डमात्रसहायेन निजभुजादण्डमात्रं-खबाहुरूपदण्ड एव, सहायं-सहकारि यस्य तादृशेन, येन, शिबिरात् सैन्यावासात् , निर्गत्य निःसृत्य, परिमितैः परिगणितैः, अहोभिः दिनैः, विद्याधरचक्रवर्तित्वं विद्याधरसम्राट्त्वम् , आवर्जितं प्राप्तम् , पुनः खेचराधिपतयः विद्याधराधिपतयः, अनुचरीकृताः भृत्यतामापादिताः, पुनः विद्यादेवताचक्रं विद्याधिष्ठातृदेवगणः, विधेयीकृतं वश्यतामापादितं, तत् तस्माद्धेतोः, अस्य शिखरिणः पर्वतस्य, दर्शनव्यावर्णनानि दर्शनानि वर्णनानि, आस्ताम आसन्तामित्यर्थकमव्ययम् , तिष्ठन्तु निवर्तन्तामित्यर्थः । आदितः प्रभृति आरभ्य, सर्व समस्तम् , आत्मीयवृत्तान्तम् आत्मीयं-स्वकीयं, वृत्तान्तमेव-समाचारमेव, आवेदय, तावदिति वाक्यालङ्कारे । स प्रकृतः, तावदिति वाक्यालंकारे, दुष्टकरटी दुष्टहस्ती, लौहित्यतटपर्वताटव्यां लोहितस्य-ब्रह्मपुत्रनदस्य, अपत्यभूता नदी-लौहित्या, तत्तटवर्तिपर्वतसम्बन्धिन्याम् , अटव्यां-वने, भवन्तं त्वाम् , अपहृत्य अपहारकर्मतामापाद्य, क्व कस्मिन् स्थाने, गतः यातः, क्व कस्मिन् , स्थाने, स्थितः स्थिरीभूतः, ततः हस्तिनः, अवतीर्य अधस्तादागत्य, त्वयापि, किं कृतं किं विहितं, पुनः किं दृष्टं दृष्टिगोचरीकृतं, पुनः किम् अनुभूतम् अनुभवगोचरीकृतं, पुनः क्व कस्मिन् , प्रदेशे स्थाने, कृतस्थितिना स्थितेन, त्वयेत्यनुवर्तते, सः मत्प्राप्तः, लेखः पत्रं, शिबिरं सैन्यावासं, शीघ्रमेव प्रापितः उपस्थापितः, पुनः आकाशगमनादिकार्यजनितजगद्विस्मयानाम् आकाशगमनादिकायैः-आकाशविहारादिरूपाभिः-फलभूतक्रियाभिः, जनितः-उत्पादितः, जगतः-लोकस्य, विस्मयः-आश्चर्य याभिस्तादृशीनाम् , पुनः महाप्रभावाणाम अधिकशक्तिशालिनीनाम्, ईदृशीनाम् अनुभूयमानप्रकाराणाम् , अखिलानामपि सर्वासामपि, विद्यानां सिद्धीना, कुतः कस्मात, अधिगतिः प्राप्तिः, विद्याधरचक्रवर्तिपदप्राप्तिः विद्याधरसम्राट्पदप्राप्तिः, कथं केन प्रकारेण, अभूदिति शेषः, वा पुनः, केन प्रसङ्गेन उद्देशेन, चैत्ररथवनविडम्बिनि कुबेरोद्यानानुकारिणि, तत्र तस्मिन् , जिनायतनकानने जिनमन्दिरप्राङ्गणभूतारामे, आगमनं, कृतं विहितं, त्वयेति सर्वत्रानुषज्यते, च पुनः, त्रिलोकीतिलकभूता त्रिभुवनशिरोधार्या, पुनः "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy