________________
१४०
टिप्पनक-परागविवृतिसंवलिता । नीलकण्ठनिवहदर्शिताकालशावलं, कचिन्मुग्धवनमहिषपुरस्कृतपलायमानाश्वमुखसमूह, त्रिविक्रममिव पादाननिर्गतत्रिपथगासिन्धुप्रवाहम् , रथमिव चक्रवर्तिबलचूर्णितासन्नभूतलम् , मेरुकल्पपादपालीपरिगतमपि नमेरुकल्पपादपालीपरिगतम् , वनगजालीसंकुलमपि नवनगजालीसंकुलं तमवलोकितवान [क]।
___ उपजातविस्मयं च तं तस्य शिखरिणः स्वभावरमणीयासु शिखरश्रेणिषु पुनः पुनः प्रहितदृशमुद्दिश्य नग्नाचार्य एकः समुच्चार्य जयशब्दमब्दध्वानजयिना खरेण प्रक्रमागतमिमं श्लोकमपठत्
"दृश्यं भूमिभृतोऽस्य देव! किमिह स्कन्धस्थविद्याधरश्रेणीयस्य वहन्ति यस्य समतामन्येऽपि गोत्राचलाः । द्रष्टव्यस्त्वमनन्यतुल्यमहिमा मध्ये धरित्रीभृतां
येनाधःकृतखेचरेन्द्रततिना बद्धाऽस्य मूर्ध्नि स्थितिः ॥" [ख] । टिप्पनकम्-त्रिविक्रममिव पादाग्रनिर्गतत्रिपथगासिन्धुप्रवाहम् एकत्र चरणाग्रप्रादुर्भूतगङ्गानदीस्रोतसम् , अन्यत्र प्रत्यन्तगिरिशिखरैनिःसृतगङ्गासिन्धुनदीद्वयप्रवाहम् । रथमिव चक्रवर्तिबलचूर्णितासन्नभूतलम् एकत्र रथाङ्गाग्रधाराचूर्णीकृतनिकटभूपृष्ठम् , अन्यत्र चक्रवर्तिराजसैन्यचूर्णितासन्नभूतलम् । मेरुकल्पपादपालीपरिगतमपि न मेरुकल्पपादपालीपरिगतं यदि मेरुतुल्यप्रत्यन्तगिरिपतियुक्तं कथं न मेरुकल्पादिम् , अन्यत्र नमेरुवृक्षविशेषकल्पतरुराजिसंगतम् । वनगजालीसंकुलमपि नवनगजालीसंकुलम् अरण्यकरिसंकुलं यदि कथं न संकुलम्, अन्यत्र नूतनवृक्षगहनव्याप्तम् [क]। सिंहानामित्यर्थः, करकुलिशैः-हस्तवज्रः, दारितस्य-खण्डितस्य, जलदस्य-मेघस्य, गर्भात-उदरात , उद्गीर्णैः-निर्गतैः, मुक्ताफलैःमुक्तामणिभिः, आकीर्ण-व्याप्तम् ; पुनः क्वचित् कस्मिंश्चित् स्थले, नृत्तप्रवृत्तनीलकण्ठनिवहदर्शिताकालशाड्वलं नृत्तप्रवृत्तेन-नृत्यप्रसक्तेन, नीलकण्ठनिवहेन-मयूरगणेन, दर्शितं प्रत्यायितं, शाड्वलं-हरिततृणमयस्थलं यस्मितादृशम् । पुनः क्वचित् कस्मिंश्चित् प्रदेशे, मुग्धवनमहिषपुरस्कृतपलायमानाश्वमुखसमूहम् अविवेकावस्थवनसम्बन्धिमहिषैः, पुरस्कृतःअश्वधिया अग्रतः कृतः, अत एव पलायमानः-धावितः, अश्वमुखानाम्-अश्वमुखसदृशमुखवतां वन्यपशुविशेषाणां, किन्नराणां वा, समूहो यस्मिंस्तादृशम् [ज्ञ]; पुनः त्रिविक्रममिव विष्णुमिव, पादाग्रनिर्गतत्रिपथगासिन्धुप्रवाहं पादाग्रात्प्रत्यन्तपर्वतात्, पक्षे चरणाग्रात् , निर्गताः-निःस्पन्दिताः, त्रिपथगायाः-स्वर्ग-मर्त्य-पातालरूपमार्गत्रयगामिन्याः; सिन्धोः-नद्याः, गङ्गाया इत्यर्थः, पक्षे त्रिपथगायाः-गङ्गानद्याः, सिन्धोः-सिन्धुनद्याश्च, प्रवाहा यस्मिंस्तादृशम् ; पुनः रथमिव चक्रवर्तिबलचर्णितासन्नभूतलं चक्रवर्तिबलेन-अखण्डमण्डलेश्वरसैन्येन, पक्षे रथाङ्गभूतं चक्रं तत्सम्बन्धिना वर्तिबलेन-अग्रधारा शक्त्या, चूर्णितं-पिष्टम् , आसन्नभूतलं-निकटभूमिपृष्ठं यस्य तादृशम् ; पुनः मेरुकल्पपादपालीपरिगतमपि मेरुकल्पानां-मेरुसदृशानां पादाना-प्रत्यन्तगिरीणां, पाल्या-पङ्कया, परिगतमपि-व्याप्तमपि, न मेरुकल्पपादपालीपरिगतमिति विरोधः, तत्परिहारे तु नमेरूणां-तदाख्यानां, कल्पानां-तदाख्यानां च, पादपानां-वृक्षाणाम् , आल्या-पतया, परिगतं-व्याप्तम् ; पुनः वनगजालीसंकुलमपि वन्यहस्तियूथपूर्णमपि, न वनगजालीसंकुलमिति विरोधः, तत्परिहारे तु नवानां-नवीनानां, नगानां-वृक्षाणां, जाल्या-समूहेन, संकुलं-व्याप्तम् [क]।
उपजातविस्मयं वैताड्यपर्वतावलोकनोत्पन्नाश्चर्यम् , पुनः तस्य प्रकृतस्य, शिखरिणः पर्वतस्य, स्वभावरमणीयासु खभावेन मनोहरासु, शिखरश्रेणीषु शिखरपतिष, पुनः पुनः अनेकवारम् , प्रहितदृशं व्यापारितनेत्रं, तं हरिवाहनम् , उद्दिश्य लक्ष्यीकृत्य, एकः, नग्नाचार्यः मङ्गलपाठकः, जयशब्दं जयकारं समुच्चार्य, अब्दध्वानजयिना मेघनादादधिकगम्भीरेण, खरेण, प्रक्रमागतं प्रकरणप्राप्तम् , इमं वक्ष्यमाणं, श्लोकं पद्यम् , अपठत् उच्चारितवान् , भो देव भो राजन् ! स्कन्धस्थविद्याधरश्रेणीय[क]स्य स्कन्धस्था-शिखरवर्तिनी, विद्याधरश्रेणी-विद्याधरपतिर्यस्य तादृशस्य; अस्य प्रत्यक्षस्य, भूमिभृतः पर्वतस्य, इह अस्मिन् शिखरप्रदेशे, किं दृश्यम् ? अपूर्वदर्शनयोग्य वस्तु सम्भवति, यस्य पर्वतस्य, समतां तुल्यताम् , अन्येऽपि गोत्राचलाः कुलपर्वताः, वहन्ति प्राप्नुवन्ति, धरित्रीभृतां पृथ्वीपतीनां पक्षे पर्वतानां मध्ये,
"Aho Shrutgyanam"