SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १३९ नानि, कैश्चिदन्धकारगह्वरप्रवेशितसरलनिर्झरसलिलधारैरसुरकन्याधिरोहणार्थमवलम्बितरजुजालैरिव सततसप्तर्षियात्रापवित्रितानि दिव्याश्रमपदानि, कैश्चिदुत्तुङ्गतालतरुवनैत्रिविष्टपमुपस्प्रष्टुमूर्वीकृतभुजैरिव निरातङ्कनाकिमिथुनाभ्यस्यमानमन्मथक्रीडाभणितानि मणिशिलालयनानि शिखरैर्धारयन्तं [ह], निविष्टानन्तवनदेवतानगरमिव लतागृहातैः, आविष्कृतानेकपातालमिव सान्धकारकन्दरैः, प्रसूतनिःसंख्यापत्यमिव दिङ्नागयूथैः, उत्थापितप्रबलबहुलप्रदोषमिव तमालतरुमण्डलैः, आवासितापारवासरमिव स्वर्णसानुप्रभाप्राम्भारैः, प्रकटितानेकरामायणमिव किलिकिलायमानवानरानीकनिकायैः, दर्शितापूर्वप्रजासर्गमिव किंपुरुषवगैः [क्ष], कचिद् बद्धमण्डलगरुडगोत्रपक्षिव्यावर्ण्यमानद्वीपान्तरप्रचारवार्त, क्वचिद् विपक्षवारणविरोधपरिणतगजोन्मूलितगलगण्डशैलं, कचिन्मृगारातिकरकुलिशदारितजलदगर्भोद्गीर्णमुक्ताफलाकीर्णं, कचिन्नृत्तप्रवृत्त टिप्पनकम्-बहुल:-कृष्णपक्षः । किंपुरुषः-किन्नरः [क्ष] । मृगारातिः-सिंहः । नीलकण्ठः-मयूरः [ज्ञ] । विद्याधरगणैः, परिहृतम्-अत्युन्नतत्वात् परिवर्जितं, लङ्घनं येषां तादृशानि, सिद्धायतनानि सिद्धजनमन्दिराणि, धारयन्तम् , पुनः अन्धकारगह्वरप्रवेशितसरलनिर्झरसलिलधारैः अन्धकारगह्वरे-अन्धकारपूर्णदेवखातबिले, प्रवेशिता,सरला-अवक्राकारा, निर्झरसलिलधारा-प्रवाहजलधारा यैस्तादृशैः, अत एव असुरकन्याधिरोहणार्थम् असुरकन्यायाः-दैत्यसुताया, अधिरोहणार्थम-आरोहणार्थम. अवलम्बितरजजालैरिव अवलम्बितम-आनमितं. रजजालं-रजपजो यैस्तादृशैरिवेत्यत्प्रेक्षा. कैश्चित कतिपयैः शिखरैः, सततसप्तर्षियात्रापा वित्रितानि निरन्तरमरीच्यादिसप्तर्षिप्रयाणपूतानि, दिव्याश्रमपदानि उत्तमाश्रमस्थानानि, धारयन्तम् , पुनः उत्तुङ्गतालतरुवनैः उत्तुङ्गम्-उन्नतं, तालतरूणां-तालवृक्षाणां, वनं येषु तादृशैः, अत एव त्रिविष्टपं वर्गम् , उपस्प्रष्टुम् उपस्पर्शनार्थम् , ऊर्वीकृतभुजैरिव ऊवीकृताः-उन्नमिताः, भुजाः-बाहवो यैस्तादृशैरिव, कैश्चित् कैरपि, शिखरैः, निरातङ्कनाकिमिथुनाभ्यस्यमानमन्मथक्रीडाभणितानि निरातकैः-निःशङ्कः, नाकिमिथुनैःदेवद्वन्द्वैः, अभ्यस्यमानं-पौनःपुन्येन क्रियमाणं, मन्मथक्रीडाभणितं-कामकेलिकूजितं येषु तादृशानि, मणिशिलालयानि मणिरूपशिलामयमन्दिराणि, धारयन्तम् [ ह] पुनः कीदृशम् ? लतागृहवातैः लतागृहसमूहः, निविष्ठानन्तवनदेवतानगरमिव निविष्टम्-अन्तर्भूतम् , अनन्तम्-अपारम् , वनदेवतानां-वनस्थदेवानां, नगरं यस्मिंस्तादृशमिव; पुनः सान्धकारकन्दरैः अन्धकारपूर्णगुहाभिः, आविष्कृतानेकपातालमिव आविष्कृतानि-प्रकटितानि, अनेकानि-बहूनि, पातालानि येन तादृशमिव; पुनः दिङ्नागयूथैः दिग्गजगणैर्हेतुभिः, प्रसूतनिस्संख्यापत्यमिव प्रसूतानि-उत्पादितानि, निस्संख्यानि-संख्यारहितानि, अपत्यानि-पुत्रा येन तादृशमिव, तद्वत् प्रतीयमानमित्यर्थः; पुनः तमालतरुमण्डलैः तमालजातीयवृक्षगणैः, उत्थापितप्रवलबहुलप्रदोषमिव उत्थापितं-जनितः,प्रबल:-सान्द्रः, बहुलस्य-कृष्णपक्षस्य, प्रदोषः-रजनीमुखं येन तादृशमिव; पुनः स्वर्णसानुप्रभाप्रागूभारैः स्वर्णसानोः-सुवर्णमयपर्वतकायसमभूमिकायाः, प्रभाप्रारभारैः-द्युतिसन्दोहैः, आवासितापारवासरमिव आवासिताः-निवासिताः, अपारा:-अनवधिकाः, वासरा:-दिवसा येन तादृशमिव; पुनः किलकिलायमानवानरानीकनिकायैः किलकिलायमानानां किलकिलात्मकशब्दं कुर्वतां, वानराणां मर्कटानां, यत् , अनीकं-सैन्यं यद्वा संग्रामः, तस्य निकायैः-निवासस्थानः, यद्वा समूहैः, प्रकटितानेकरामायणमिव प्रकटितानि-आविष्कृतानि, अनेकानि-बहूनि, रामायणानि-रामचरितानि येन तादृशमिव; पुनः किंपुरुषवगैः किन्नरगणैः,दर्शितापूर्वप्रजासगमिव दर्शितः-प्रकटितः, अपूर्वप्रजासर्गः-विलक्षणसन्ततिसृष्टिर्येन तादृशमिवेति सर्वत्रोत्प्रेक्षा; [क्ष] । पुनः क्वचित् कस्मिंश्चित् स्थाने, बद्धमण्डलगरुडगोत्रपक्षिव्यावर्ण्यमानद्वीपान्तरप्रचारवात बद्धमण्डलैः-बद्धपतिकैः, गरुडगोत्रपक्षिभिः-गरुडवंशजपक्षिभिः, व्यावर्ण्यमाना-उपाख्यायमाना उपद्वीपान्तरप्रचारवार्ता-अन्यान्यद्वीपसञ्चार वृत्तान्तो यस्मितादृशम् । पुनः क्वचित् कस्मिंश्चिद् वारणविरोधपरिणतगजोन्मूलितगलगण्डशैलं विपक्षवारणविरोधेन -शत्रुभूतगजविरोधेन, परिणतैःदन्तप्रहारप्रसक्तः, गजैः, उन्मूलितः-उत्पाटितः, अत एव गलन्-पतन् , गण्डशैलः-च्युतस्थूलपाषाणो यस्य तादृशम् , पुनः क्वचित् कस्मिंश्चित् स्थले, मृगारातिकरकुलिशदारितजलदगर्भोद्गीर्णमुक्ताफलाकीर्ण मृगारातीना--मृगरिपूणां, "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy