________________
१३८
टिप्पनक-परागविवृतिसंवलिता। प्रतिपक्षमिव हिमवतः, पूर्वापरोदधिवेलावलग्नमुदकपानतृष्णया जीर्णसंवर्तकाम्बुदसंघातमिव युगान्तसमयमुदीक्ष्यमाणम् , इन्दुद्युतिमुषा देहप्रभोल्लासेन पौलस्त्यहस्तोल्लासितं कैलासमिव हसन्तं, प्रकटितबहुस्रोतसा निर्झरनिवहेन तुहिनशैलस्पर्धया जाह्नवीसहस्राणीव सृजन्तं [प], दिगन्तरव्यापिभिर्दरीमुखसमीरैः सुमेरुमहिमाभ्यसूयया निःश्वासानिव विमुञ्चन्तम् , अश्रान्तसन्ततिभिः शकुनिकोलाहलैः केशवभुजायन्त्रमन्दीरितं, मन्दरमिवाधिक्षिपन्तं, कुलिशकृत्तपक्षव्रणनिभासु गम्भीरगैरिकखनिषु लम्बमाननिश्चलनिरायताङ्गैरजगरकुलै१ष्टरक्तापकर्षणार्थमायोजितैर्जलौकैरिव दुरालोकपार्श्वभागम् [स], कैश्चिदुद्भिन्नवैडूर्यरत्नाङ्करकलापैरधःकरालकन्दरादर्शनजातरोमाञ्चैरिवातीततारापथैः पृथुपराक्रमाणि क्रीडाकिरातवंश्यानि शबरवृन्दानि, कैश्चिदितस्ततश्चलिततनुसरिद्वेणिकैः स्खलनपर्यस्तसूर्यरथपताकैरिव पतनभीतविद्याधरसङ्घपरिहृतलङ्घनानि सिद्धायत
टिप्पनकम्-भुजायन्त्रमेव मन्दीर-शृङ्खलं संजातमस्य स तथोक्तः [स]। क्रीडाकिरातः-शङ्करः । लयनंगृहम् [ ह]।
मणिमयकङ्कणेन, आक्रान्तम्-अधिष्ठितम् , क्षीरोदस्य क्षीरसागरस्य, वाहुमिव; पुनः भूगोलस्य भूमण्डलस्य, पातालावधिप्रविष्टमूलनिश्चलबन्धमिव पातालावधिप्रविष्टेन-पातालपर्यन्तमग्नेन, मूलेन, निश्चल:-स्थिरो यो बन्धः बन्धनं, तमिव पुनः विशालकटकावष्टब्धभूतलं विशालेन-विस्तृतेन, कटकेन-नितम्बेन, पक्षे सेनया, अवष्टब्धम्-आक्रान्तम् . भूतलं येन तादृशं, हिमवतः हिमाचलस्य, प्रतिपक्षं रिपुमिव; पुनः उदकपानतृष्णया जलपिपासया, पूर्वापरोदधिवेलावलग्नं पूर्वपश्चिमसमुद्रतटसंसक्तं, युगान्तसमयं प्रलयावसरम् , उदीक्षमाणं प्रतीक्षमाणं, जीर्णसंवर्तकाम्बुदसंघातमिव पुराणप्रलयकालिकमेघराशिमिव; पुनः इन्दुद्युतिमुषा चन्द्रच्छविहारिणा, देहप्रभोल्लासेन शरीरदीप्युन्नमनेन, पौलस्त्यहस्तोल्लासितं पौलस्त्यस्य-रावणस्य, हस्तेन-उल्ला सितम्-उद्धृतं, कैलासं तदाख्यं रजतपर्वतं, हसन्तमिव तिरस्कुर्वन्तमिव; पुनः प्रकटितबहुस्रोतसा प्रकटितानि-प्रादुर्भावितानि, बहूनि, स्रोतांसि-प्रवाहमार्गा येन तादृशेन, निर्झरनिवहेन प्रवाहसमूहेन, तुहिनशैलस्पर्धया हिमाचलाभिभवेच्छया, जाह्नवीसहस्राणि गङ्गासहस्राणि, सृजन्तमिव आविष्कुर्वन्तमिव [ष]। पुनः दिगन्तरव्यापिभिः दिङ्मध्यव्यापकैः, यद्वा अन्यान्यदिग्व्यापकैः, दरीमुखसमीरैः कन्दराग्रभागोद्गतपवनैः, सुमेरुमहिमाभ्यसूयया सुमेरुपर्वतमहत्त्वजनितखदेन, निःश्वासान् नासिकापवनान् , विमुञ्चन्तमिव निस्सारयन्तमिव पुनः अश्रान्तसन्ततिभिः अविच्छिन्नपरम्परैः, शकुनिकोलाहलैः पक्षिकूजितैः, केशवभुजायन्त्रमन्दीरितं केशवस्य-विष्णोः, यो भुजायन्त्रः-बाहुरूपसंयमनसाधनं, स एव मन्दीरं-शृङ्खलं संजातमस्य तादृशं, मन्दरं तदाख्यसमुद्रमन्थाचलम् , अधिक्षिपन्तमिव तिरस्कुर्वन्तमिव; पुनः कुलिशकृत्तपक्षवणनिभासु वज्रच्छिन्नपक्षक्षतसदृशीषु, गम्भीरगैरिकखनिषु निम्नगैरिकाख्यधातुसम्बन्ध्याकरेषु, लम्बमाननिश्चल निरायताङ्गैः लम्बमानानि-अवनमन्ति, निश्चलानि-स्थिराणि, निरायतानि-अत्यन्तदीर्घाणि, अङ्गानि-अवयवा येषां तादृशैः, अज कुलैः अजगरजातीयसर्पगणैः,
दुष्टरक्तापकर्षणार्थ विकृतशोणितनिस्सारणार्थम् , आयोजितैः संश्लेषितैः, जलौकैरिव रुधिराकर्षकजलजन्तुविशेषैरिवेत्युत्प्रेक्षा, दुरालोकपार्श्व दुरालोकं-दुर्दर्श, पार्श्व-प्रान्तं यस्य तादृशम् [स]; पुनः उद्भिन्नवैडूर्यरत्नाकुरकलापैः उद्धिन्नः-उद्भिद्योद्धतः वैड्यरत्नाकराणां-विदूरात प्रभवतीति वैडूर्यम् , तद्रूपाणां रत्नानाम्, अङ्करकलापः-अङ्करसमूहो येषु तादृशैः, अत एव अधःकरालकन्दरादर्शनजातरोमाञ्चैरिव अधः-नीचैः, करालकन्दरायाः-भयानकगुहायाः, दर्शनेन, जातःउद्भूतः, रोमाञ्चो येषां तादृशैरिव, अतीततारापथैः अतिक्रान्तगगनैः, गगनादप्युन्नतैरित्यर्थः, कैश्चित् कैरपि, शिखरैरित्यग्रेणान्वेति, पृथुपराक्रमाणि विस्तृतवीर्याणि, क्रीडाकिरातवंश्यानि क्रीडाकिरातः-शङ्करः, तद्वंश्यानि-तद्वंशजानि, शबरवृन्दानि भिल्लविशेषगणान् , 'धारयन्तम्' इत्यग्रेणान्वेति, पुनः इतस्ततश्चलिततनुसरिद्वेणिकैः इतस्ततःअत्र तत्र, चलिता-विलुलिता, तन्वी-कृशा, या सरित् नदी, तदीया वेणिकाप्रवाहो येषु तादृशैः, अत एव स्खलनपर्यस्तसूर्यरथपताकैरिव स्खलनेन-आस्फालनेन, पर्यस्ता-पतिता, सूर्यरथपताका-सूर्यरथसम्बन्धिनी पताका येषु तादृशैरिवेत्युत्प्रेक्षा, कैश्चित् कैरपि, शिखरैः, पतनभीतविद्याधरसङ्घपरिहृतलङ्घनानि पतनभीतैः-अधःस्खलनभयान्वितैः, विद्याधरसङ्घः
"Aho Shrutgyanam"