________________
तिलकमञ्जरी
१३७ श्रुत्वा चेदमुन्मिषितलोचनः सलीलमुत्थाय शयनात् ससैनिको नगरबाह्यायां जगाम । परिभ्रम्य च स्वभावरमणीयपरिसरेष्वारामेषु सरस्सु देवतायतनमण्डलेष्वावासमाजगाम । मध्याह्नसमये च दूरादेव दृश्यमानशुभ्रादभ्रविस्तारमदृष्टपारतरुसरित्सरोवराढ्यं वैताढ्यभूधरमध्यारोहत् [व] ।
कृतावस्थितिश्च शिखरदेशे करतलस्थमिव नाकलोकम झिमूले निलीनमिव मध्यमं भुवनमध्यासितानीव दृष्टिमध्यमाशामुखानि मन्यमानः समन्तात् प्रहितदृष्टिरुष्णीषपट्टमिव जम्बूद्वीपस्य, मानसूत्रमिव भारतवर्षस्य, सेतुबन्धमिव गगनसिन्धोः, सीमन्तमिव भुवः, हारमिव वैश्रवणहरितः [श], ताण्डवप्रसृतखण्डपरशुभुजदण्डभस्मेव रेखाकारेण पतितं, प्रलयविप्लुतक्षीरसिन्धुफेनमिव निम्नानुसारेण स्थितं, त्रिदिवदर्शनोस्कण्ठया मन्दाकिनीप्रवाहमिव हेलयोत्पतितं, समग्रमेदिनीभारधारणक्षमं रूपान्तरमिव शेषस्य, विस्फुरद्रत्नकटकाक्रान्तं बाहुमिव क्षीरोदस्य, पातालावधिप्रविष्टमूलनिश्चलबन्धमिव भूगोलस्य, विशालकटकावष्टब्धभूतलं
टिप्पनकम्-खण्डपरशुः-हरः । विस्फुरद्रत्नकटकाक्रान्तं बाहुमिव एकत्र कटकः-प्रस्थः, अन्यत्र कङ्कणम् । विशालकटकावष्टब्धभूतलम् एकत्र कटकं-सैन्यम् , अन्यत्र प्रस्थः। पौलस्त्यः-रावणः [ष] । भवदभिलषितवस्तुभिरिव, रथाङ्गमिथुनैः चक्रवाकद्वन्द्वैः, घटनाः सम्मेलनानि, प्राप्यन्ते; पुनः ते तव, प्रतापः कोशदण्डतेज इव, पतत्विषां सूर्यतेजसा तापः, उदयम् उदयाचलं, पक्षे उन्नतिम् , आरोहति प्राप्नोति; पुनः पद्माकरा: कमलवनानि, भवन्मुखश्रियं स्वोत्कृष्टां भवन्मुखशोभां, द्रष्टुं विलोकयितुम् , इव, उन्मीलन्ति विकसन्ति । अत्र पादत्रये उपमा, चतुर्थपादे तूत्प्रेक्षा ॥ ६ ॥ [ल]।
च पुनः, इदम् अनुपदोक्तवृत्तकुलकं, श्रुत्वा श्रवणेन्द्रियेण प्रत्यक्षीकृत्य, उन्मिषितलोचनः उन्मीलितनयनः, सन् , सलीलं सहर्ष, शयनात् शय्यायाः, उत्थाय, ससैनिकः सैनिकसमेतः, नगरबाह्यायां नगरबहिर्वर्तिभूमौ, जगाम गतवान् , हरिवाहन इति सर्वत्र शेषः । च पुनः, स्वभावरमणीयेषु प्रकृत्या मनोहरेषु, परिसरेषु नगरप्रान्तप्रदेशेषु, पुनः, आरामेषु उपवनेषु, सरस्सु कासारेषु, पुनः देवतायतनमण्डलेषु देवमन्दिरगणेषु, परिभ्रम्य विहारं विधाय, आवासं खनिवासस्थानम्, आजगाम प्रत्यागतवान् । च पुनः, मध्याह्नसमये दिनमध्यकाले, वैताढ्यभूधरं वैताढ्यसंज्ञकपर्वतम, अध्यरोहत् आरूढवान् , कीदृशम् ? दरादेव दूरदेशादेव, दृश्यमानशुभ्रादभ्रविस्तारं दृश्यमानः, शुभ्रः-शुकः, अदभ्रविस्तारः-अत्यन्तबृहदाकारो यस्य तादृशम् , पुनः अदृष्टपारतरुसरित्सरोवराव्यम् अदृष्टपारैः-अदृष्टः पारः-अन्तो येषां तादृशैः, तरुभिः-वृक्षः, सरिद्भिः, सरोवरैः-कासारश्रेष्ठश्च, आढ्य-पूर्णम् [व]।
च पुनः, शिखरदेशे तदूर्ध्वदेशे, कृतावस्थितिः अवस्थितः सन् , नाकलोकं स्वर्गलोकं, करतलस्थमिव हस्ततलवर्तिनमिव, पुनः मध्यम वर्गपातालमध्यस्थं, भुवनं मर्त्यलोकम् , अविमूले पादमूले, निलीनमिव अन्तर्भूतमिव, पुनः आशामुखानि दिगन्तभागान् , दृष्टिमध्यं नयनाभ्यन्तरम् , अध्यासितानि अधिष्ठितानि, इव, मन्यमानः उत्प्रेक्षमाणः, समन्तात् सर्वभागेषु, प्रहितदृष्टिः व्यापारितलोचनः, 'तं वैताव्यपर्वतम् , अवलोकितवान् दृष्टवान्' इत्यग्रेणान्वेति । कीदृशम् ? जम्बद्वीपस्य भारतवर्षादिगर्भितस्य योजनशतसहस्रप्रमाणजम्बूवृक्षघटितस्यास्माकमाधारभूतस्य द्वीपस्य, उष्णीषपद्रमिव शिरोवेष्टनपटमिव; पुनः भारतवर्षस्य भारतदेशस्य, मानसूत्रमिव परिच्छेदकसूत्रमिव; पुनः गगनसिन्धोः आकाशरूपसागरस्य, सेतुबन्धमिव सेतुस्वरूपमिवः पुनः वैश्रमणहरितः कुबेरदिशः, हारमिव मुक्तामाल्यमिव; [श]। पुनः रेखाकारेण रेखारूपेण, पतितं स्खलितं, ताण्डवप्रसृतखण्डपरशुभुज दण्डभस्मेव ताण्डवे-नृत्ये, प्रसृतयोः-विस्तृतयोः, खण्डपरशोः-शिवस्य, भुजदण्डदण्डाकारबाहुसंलग्नं भस्म इव; पुनः निम्नानुसारेण नीचदेशानुसारेण, स्थितं,प्रलयविप्लुतक्षीरसिन्धुफेनमिव प्रलयविप्लुतस्य-प्रलयकालोच्छलितस्य,क्षीरसिन्धो:-क्षीरसागरस्य, फेनमिव-क्षीरविकारमिव पुनः त्रिदिवदर्शनोत्कण्ठया स्वर्गलोकावलोकनोत्कण्ठया; हेलया-क्रीडया, उत्पतितम् उच्छलितम् , मन्दाकिनीप्रवाहमिव गङ्गाप्रवाहमिव; पुनः समग्रमेदिनीभारधारणक्षमं समस्तपृथ्वीभारग्रहणसमर्थ, शेषस्य तदाख्यसर्पराजस्य, रूपान्तरमिव अन्यरूपमिव; पुनः विस्फुरद्रनकटकाक्रान्तं विस्फुरता-उज्वलता, रत्नकटकेन-मणिमयप्रस्थेन, अन्यत्र
१८ तिलक.
"Aho Shrutgyanam"