________________
१३६
टिप्पनक-परागविवृतिसंवलिता। उद्यजाड्य इव प्रगेतनमरुत्संसर्गतश्चन्द्रमाः, पादानेष दिगन्ततल्पतलतः सङ्कोचयत्यायतान् । अन्तर्विस्फुरितोरुतारकतिमिस्तोमं नभःपल्वलाद्धान्तानायमयं च धीवर इवानूरुः करैः कर्षति ॥३॥ सद्यःसंहृतघोरघूत्कृति मनागन्धीभवदृष्टयो, जीर्णानोकहकोटराणि शनकैर्मार्गन्त्यमी कौशिकाः । किञ्चास्कन्दति शैलकन्दरभुवो भिन्नं करैरारुणैरेतदर्पकरालकोलकपिलश्यामं त्रियामातमः ॥ ४ ॥ ताम्बूलद्रवरागराजिरुचिरैर्मध्ये बहिषूसरैः, किञ्चिन्नूतनकाञ्चनारसुमनःपत्रं हसन्त्योऽधरैः । एताः पण्यपुरन्ध्रयो निधुवनक्रीडाजडैरङ्गकैर्निर्गत्य प्रियसद्मनः स्ववसतेर्वीथीरलंकुर्वते ॥ ५ ॥
जाताः सर्वदिशो दिनान्धवयसामन्धास्तवेव द्विषां, प्राप्यन्ते घटना रथाङ्गमिथुनैस्त्वद्वाञ्छिताथैरिव । आरोहत्युदयं प्रताप इव ते तापः पतङ्गत्विषां, द्रष्टुं नाथ ! भवन्मुखश्रियमिवोन्मीलन्ति पद्माकराः॥६॥"[ल]।
सन्ध्योदये प्रभातोदये, तारकाः ताराः, दाडिमबीजपाकसुहृदः पक्कदाडिमबीजसदृशरक्तकान्तयः, जाताः; पुनः तान्ताः ग्लानाः क्षीणा इति यावत्, तमस्तन्तवः तमांसि तन्तव इवेति तमस्तन्तवः, सूत्रसदृशकृशाकारा अन्धकारा इत्यर्थः, प्लष्टजरत्पलालतुलनां प्लुष्टाः-दग्धा ये, जरन्तः-जीर्णाः, पलालाः-धान्यरहिततदीयकाण्डाः, तत्तुलनां-तत्सादृश्यं, यान्ति प्राप्नुवन्ति; पुनः ज्योत्स्नापायविपाण्ड ज्योत्स्नायाः-चन्द्रिकायाः, अपायेन-विनाशेन, विपाण्डु-विशेषेण पाण्डवर्ण, श्वेतपीतवर्णमित्यर्थः, पुनः प्रत्यङ्नभोभित्तिभाक् पश्चिमाकाशरूपभित्तिस्थितं, पूर्णेन्दोः पूर्णचन्द्रस्य, मण्डलं बिम्ब, जरदूर्णनाभनिलयप्रागल्भ्यं जरतः-जीर्णस्य, ऊर्णनाभनिलयस्य-लूतातन्तुमयगृहस्य, प्रागल्भ्यं-प्रतिभा, क्षीणतया तद्वत् प्रतिभासमानतामित्यर्थः, अभ्यस्यति दृढं धत्ते । अत्रोपमालङ्कारः ॥२॥ ....
एषः अयं, चन्द्रमाः, प्रगेतनमरुत्संसर्गतः प्रातःकालिकपवनसंसर्गात्, उद्यजाड्य इव उद्यत्-उद्भवत्, जाड्यं शैल्यं यस्मिंस्तादृश इव, दिगन्ततल्पतलतः दिगग्रभागात्मकशय्यातलात , आयतान् विस्तारितान् , पादान् किरणचरणान्, सङ्कोचयति उपसंहरति; च पुनः, अयं प्रत्यक्षवर्ती, अनूरुः सूर्यसारिथिः, धीवर इव कैवर्त इव, नभःपल्वलात् आकारूपादखातसरसः, अन्तर्विस्फरितोरुतारकतिमिस्तोमम अन्तः-मध्ये, विस्फुरितानि-सञ्चारितानि, उरुतारकाण्येवबहुतरनक्षत्राण्येव, तिमिस्तोमः-मत्स्यविशेषसमूहो यस्य तादृशं, ध्वान्तानायम् अन्धकाररूपं जालं, करैः किरणहस्तैः, कर्षति उद्धरति । अत्र पूर्वार्धे उत्प्रेक्षा, उत्तरार्धे रूपकोपमे ॥३॥
___ सद्यःसंहृतघोरघूत्कृति सद्यः-तत्क्षणे, संहृताः-सङ्कोचिताः, घोराः-भयानकाः, घूत्कृतयः-खकीयध्वनिविशेषा यस्मिस्तादृशं यथा स्यात् तथा, मौनावलम्बनपूर्वकमित्यर्थः, मनाक किञ्चित् , अन्धीभवद्दष्टयः अन्धीभवन्त्य अन्धत्वमापद्यमानाः, दृष्टयो-लोचनानि येषां तादृशाः, अमी विप्रकृष्टभूताः, कौशिकाः उलूकाख्यया प्रसिद्धपक्षिविशेषाः, शनकैः मन्दं मन्दं, जीर्णानोकहकोटराणि जीर्णानां-पुराणानां, अनोकहानां-वृक्षाणां, कोटराणि-रन्ध्राणि, मार्गन्ति दिनान्धतया निवासार्थम् अन्विष्यन्ति; किञ्च, दर्पकरालकोलकपिलश्यामं दर्पण-गर्वेण, करालः, यः कोल:-शूकरः, तद्वत् कपिलंकपिलवण, श्याम-कृष्णवर्णं च, एतत् प्रत्यक्षभूतं, त्रियामातमः रात्रिसम्बन्ध्यन्धकारः, आरुणैः सूर्यसम्बन्धिभिः, करैः किरणैः, भिन्नं विघटितं सत्, शैलकन्दरभुवः पर्वतगुहास्थलीः, आस्कन्दति आक्रामति । अत्र पूर्वार्धे खभावोक्तिः, उत्तरार्धे तूत्प्रेक्षोपमे ॥ ४ ॥
मध्ये अभ्यन्तरे, ताम्बूलद्रवरागराजिरुचिरैः ताम्बूलद्रवस्य-ताम्बूलरसस्य, रागराज्या-रक्तकान्तिकलापेन, रुचिरैः-सुन्दरैः, पुनः बहिः बाह्यभागे, धूसरैः सुरतश्रमेण किञ्चित्पीतश्वेतवर्णैः, अधरैः ओष्ठैः, किञ्चिन्नूतनकाञ्चनारसुमनःपत्रं किञ्चिन्नूतनम्- ईषन्नवीनं, काश्चनारसुमनसः-काञ्चनाराख्यपुष्पविशेषवृक्षस्य, पत्रं, हसन्त्यः तिरस्कुर्वन्त्यः, एताः इमाः, पण्यपुरन्ध्रयः केतव्यस्त्रीविशेषाः, निधुवनक्रीडाजडैः सुरतक्रीडाशिथिलैः, अङ्गकैः अनुकम्पनीयैरवयवैः, उपलक्षिताः, प्रियसद्मनः खप्रियजनगृहात् , निर्गत्य निःसृत्य, स्ववसतेः स्ववासभवनस्य, वीथीः मार्गान् , यद्वा पतीः, अलङ्कुर्वते विभूषयन्ति, अत्र व्यतिरेकालङ्कारः ॥ ५॥ .. हे नाथ! तव द्विषां शत्रुणाम् , इव, दिनान्धवयसां दिने अन्धाना--दर्शनशक्तिशून्यानां, वयसां-पक्षिणाम् , उलूकानामित्यर्थः, सर्वदिशः समस्ता अपि दिशः, अन्धाः दृष्टयगोचराः, जाताः संवृत्ताः; पुनः त्वद्वाञ्छिताथै रिव
"Aho Shrutgyanam"