________________
तिलकमञ्जरी
१३५ अध्यासितप्रासादशिखरश्च मुख्यैः खेचराधिपतिभिः सह स्थित्वा विचित्रकथाविनोदेन सुचिरमुचिते शयनसमये समीपस्थपरिजनोपदिष्टमार्गः शयनचित्रशालामगच्छत् । अधिशयितपर्यश्च वारंवारमवलोक्य निकटनिहितापररत्नपर्यङ्कनिविष्टमनेकदुर्गदेशान्तरागमनदुर्बलं म्लानवपुषं समरकेतुमधिकमन्तःसंतापमवहत् । अपृच्छच्च खिन्नवर्णोच्चारया वाचा यथावृत्तमादितः प्रभृति मार्गागमनवृत्तान्तम् । अयमप्यस्मै सर्वमात्मवृत्तान्तं न्यवेदयत् । अनन्तरमीषदुपजातनिद्रश्च नीत्वा रजनीशेषमारोहति मृदूकृतान्धकारगर्वे पूर्वशिखरिणमरुणसारथौ सौधवातायनसविधचारिणा चारणेन बहिरुच्चार्यमाणं वृत्तकुलकमेतदोषीत् [२]
"निर्दात्यूहपतद्गिरो रतिगृहाः साक्रन्दचक्रा नदा, विद्राति द्युतिरौडवी निबिडतां धत्ते प्रदीपच्छविः । द्यौर्मन्दस्फुरितारुणा तिमिरिणी सर्वसहा सर्वथा, सीमा चित्तमुषामुषःक्षणदयोः संधिक्षणो वर्तते ॥१॥ जाता दाडिमबीजपाकसुहृदः सन्ध्योदये तारका, यान्ति प्लुष्टजरत्पलालतुलनां तान्तास्तमस्तन्तवः । ज्योत्स्नापायविपाण्डु मण्डलमपि प्रत्यङ्नभोभित्तिभाक्पूर्णेन्दोर्जरपूर्णनाभनिलयप्रागल्भ्यमभ्यस्यति ॥२॥
अध्यासितप्रासादशिखरः अध्यासितम्-अधिष्ठितं, प्रासादशिखरं-राजमन्दिरोर्श्वभागो येन तादृशः, मुख्यैः प्रधानैः, खेचराधिपतिभिः विद्याधरेन्द्रैः, सह, विचित्रकथाविनोदेन अद्भुतोपाख्यानानन्देन, सुचिरम् अतिदीर्घकालं, स्थित्वा, उचिते योग्ये, शयनसमये शयनकाले, समीपस्थपरिजनोपदिष्टमार्गः समीपस्थेन-पन्निहितेन, परिजनेन-परिवारलोकेन, उपदिष्टः-उपदर्शितः मार्गो यस्य तादृशः, शयनचित्रशालां शयनसम्बन्धिचित्रपूर्णगृहम् , अगच्छत् , च पुनः, अधिशयितपर्यङ्कः अधिशयितः-शयनेन व्याप्तः, पर्यङ्कः-खट्वाविशेषो येन तादृशः सन् , निकटनिहितापररत्नपर्यङ्कनिविष्टं निकटनिहिते-समीपस्थापिते, अपरस्मिन्-अन्यस्मिन् , रत्नपर्यके-रत्नमयपर्यङ्के, निविष्टम्-उपविष्टम् , पुनः अनेकदुर्गदेशान्तरागमनदुर्बलम् अनेकेभ्यः-बहुभ्यः, दुर्गेभ्यः-दुःखेन गम्येभ्यः, देशान्तरेभ्यः-अन्यदेशेभ्यः, आगमनेन, दुर्बलं-क्षीणबलम् , पुनः म्लानवपुष मलिनशरीरं, समरकेतुं तदाख्यसुहृदम् , वारंवारम् अनेकवारम् , अवलोक्य दृष्ट्वा, अधिकं प्रचुरम् , अन्तःसन्तापम् अन्तर्वेदनाम्, अवहत प्राप्तवान् , च पुनः, खिन्नवर्णोच्चारया खिन्नः-शैथिल्यमापन्नः, वर्णोच्चारःअक्षरोच्चारणं यस्यां तादृश्या, वाचा गिरा, आदितः प्रभृति आदित आरभ्य, यथावृत्तं यथानिष्पन्नं, मार्गागमनवृत्तान्तं मार्गागमनघटनाम्, अपृच्छम् पृष्टवान् । अयमपि समरकेतुरपि, अस्मै हिरिवाहनाय, सर्व समग्रम् , आत्मवृत्तान्तं खवार्ता, न्यवेदयत् विज्ञापितवान् । अनन्तरं तदव्यवहितोत्तरम् , ईषदुपजातनिद्रः ईषदुपजाता-किञ्चिदुत्पन्ना, निद्रा यस्य तादृशः, रजनीशेषं रात्रिशेषं, नीत्वा व्यतीत्य, मृदकृतान्धकारगर्वे मृदूकृतः-मान्द्यमापादितः, अन्धकारगर्व अन्धकाराभिमानो येन तादृशे, अरुणसारथौ अरुणः-तन्नामा, सारथिर्यस्य तादृशे सूर्ये, पूर्वशिखरिणं पूर्वपर्वतम् , उदयाचलमिति यावत् , आरोहति आगच्छति सति, सौधवातायनसविधचारिणा प्रासादगवाक्षनिकटचारिणा, चारणेन बन्दिविशेषेण, बहिः बाह्यदेशे, उच्चार्यमाणं पठ्यमानं, वृत्तकुलकम् एकार्यान्वितचतुरधिकश्लोकान् , अश्रौषीत् श्रुतवान् [र]।
रतिगृहाः कामकेलिगृहाः, नित्यूहपतद्गिरः निर्गताः-निवृत्ताः, दात्यूहस्य-कालकण्ठस्य, पततः-पक्षिणः, गिरःकूजनानि येभ्यस्तादृशाः पुनः नदा: अकृत्रिमा जलप्रवाहास्तु, साक्रन्दचक्राः साक्रन्दाः-आक्रन्दनेन-दम्पतिविश्लेषजन्यरोदनातिशयेन, सहिताः, चक्रा:-चक्रवाकाख्यपक्षिविशेषा येषु तादृशाः, रतिगृहविपरीता इत्यर्थः, उभयत्र सन्तीति शेषः, पुनः
औडवी उडूनां-ताराणां सम्बन्धिनी, द्युतिः छविः, विद्राति क्षीयते; पुनः प्रदीपच्छविः प्रदीपदीप्तिस्तु तद्विपरीतभावेन, निबिडतां सान्द्रताम् , धत्ते धारयति, पुनः द्यौः आकाशम् , सूर्यसारथिर्यस्या, मन्दस्फुरितारुणा मन्दं-किञ्चित् , स्फुरितः-उदितः, अरुणः तादृशी; पुनः सर्वेसहा पृथ्वी तु, सर्वथा सर्वप्रकरण, तिमिरिणी अन्धकारिणी; उषःक्षणदयोः प्रभात-रात्र्योः, सन्धिक्षणः मीलनसमयः, चित्तमुषां मनोहारिणां, सीमा उत्कर्षावधिः, वर्तते । अत्र युगपद्विरूपघटनासत्त्वाद् विषमालङ्कारः ॥१॥
"Aho Shrutgyanam"