________________
१३४
टिप्पनक-परागविवृतिसंवलिता । इत्याकाकर्ण्य समुपजातकुतूहलेन सहेलमारुह्य हाग्रशिखराणि सस्पृहमहंप्रथमिकोपमर्दितपरस्परेण दृश्यमानः पौरनरनारीजनेन वव्राज राजमन्दिरम् [भ] ।
तत्र च प्रवर्तितोत्सवेन प्रहतपटुपटहझल्लरीमृदङ्गमङ्गलतूर्यवर्धितद्विगुणरभसेन सविशेषसुन्दरवेषधारिणा संनिधापितसितकुसुमदूर्वाचन्दनेन प्रधानविद्याधरवधूजनेन निर्वर्तितावतारणकमङ्गलः प्रतिकलोपनीतविविधवस्त्रविलेपनालंकारं विविधमुपदर्शितादरः प्रस्थाप्य दर्शनागतं प्रधाननगरलोकमनुगम्यमानः परिजनेन भोजनभवनमगच्छत् [म] ।
___ गत्वा च खेचरीवृन्दसंपादितमजनेन निवसितानवाससा प्रतिपन्नसर्वाङ्गीणदिव्याङ्गरागेण महार्हरत्नालंकारधारिणा विधृतमल्लिकामाल्यशेखरेण निजासनान्तिकोपविष्टेन समरकेतुनान्यैश्च यथानिबद्धस्थानविनिविष्टैर्विद्याधरकुमारैः परिवृतो निवर्तयांचकाराहारकर्म [य]।
क्रमातिवाहितदिनश्चोत्थाय भुक्त्यास्थानमण्डपाच्चक्रे यथाक्रियमाणमावश्यकविधिं सान्ध्यम् ।
पौरनरनारीजनेन ? सहेलं सलीलं यथा स्यात् तथा, हाग्रशिखराणि प्रासादशिखरोर्श्वभागान् , आरुह्य, सस्पृहं सकौतुकं यथा स्यात् तथा, अहंप्रथमिकोपमर्दितपरस्परेण अहं प्रथमः-पूर्व द्रष्टाऽस्यामिति यस्यां सा अहंप्रथमिका, अहंपूर्विका बुद्धिः, यद्वा अहं प्रथम इत्यहंप्रथमिका स्वार्थे कः, तया उपमर्दितम्-संघृष्टं; परस्परं येन तादृशेन [भ]।
तत्र तस्मिन् राजमन्दिरे, प्रवर्तितोत्सवेन प्रवर्तितः-प्रारब्धः, उत्सवो येन तादृशेन; पुनः प्रहतपटुपटहझल्लरीमृदङ्गमङ्गलतूर्यवर्धितद्विगुणरभसेन प्रहतेन-ताडितेन, पटुना-तीवध्वनिकेन, पटहादिना, मङ्गलतूर्येण-माङ्गलिकवाद्येनवर्धितः-वृद्धिं नीतः, द्विगुणः-द्विगुणितः, रभसः-हर्षो यस्य तादृशेन; पुनः सविशेषसुन्दरवेषधारिणा अत्यन्तमनोहरवेषभूषाशालिना; पुनः सन्निधापितसितकुसुमदूर्वाचन्दनेन सन्निधापितं-समीपे स्थापित, सित-शुभ्रं, कुसुमं-पुष्पं, दुर्वातृणविशेषः, चन्दनं च येन तादृशेन; प्रधानविद्याधरवधुजनेन मुख्यभूतविद्याधरस्त्रीजनेन, निर्वर्तितावतारणकमङ्गलः निर्वर्तितं-सम्पादितम् , अवतारणकमङ्गलं-स्वागतोत्सवो यस्य तादृशः; पुनः प्रतिकलोपनीतविविधवस्त्रविलेपनालङ्कारं प्रतिकलं-प्रतिक्षणम् , उपनीतं-समर्पित, विविधं-नानाप्रकारकं, वस्त्रं, विलेपनं-चन्दनम् , अलङ्कारः-आभरणं च येन तादृशं, विविधम् अनेकविधम् , दर्शनागतं दर्शनार्थमुपस्थितं, प्रधाननगरलोकं मुख्यं नगरवासिजनम् , उपदर्शितादरः प्रकटितादरः सन् , प्रस्थाप्य परावर्त्य, परिजनेन परिवारजनेन, अनुगम्यमानः अनुस्रियमाणः, भोजनभवनं भोजनालयम् , अगच्छत् गतवान् [म]।
गत्वा भोजनभवनम् उपस्थाय, खेचरीवृन्दसम्पादितमजनेन खेचरीवृन्देन-विद्याधरीगणेन, सम्पादितं, मजनस्नानं यस्य तादृशेन, पुनः निवसितानर्घवाससा निवसितं-परिहितम् , अनर्घम्-अमूल्यं, वासः-वस्त्रं येन तादृशेन, पुनः प्रतिपन्नसर्वाङ्गीणदिव्याङ्गरागेण प्रतिपन्नः-गृहीतः, सर्वाङ्गीणः-सर्वाङ्गव्यापकः, दिव्यः-उत्तमः, अङ्गरागः-अङ्गविलेपनद्रव्यं येन तादृशेन, महारत्नालंकारधारिणा महार्हम्-अतिप्रशस्त, यद् रत्नं तन्मयालङ्कारधारिणा, पुनः विधृतमल्लिकामाल्यशेखरेण विधृतः-धारितः, मल्लिकामाल्यं-मल्लिकाख्यपुष्पविशेषसम्बन्धिमालात्मकः, शेखरः-शिरोऽलङ्करणं येन तादृशेन, निजासनान्तिकोपविष्टेन निजस्य-आत्मनः, यद् आसनम्-उपवेशनाधिकरणपीठादि, तस्य अन्तिके-निकटभागे, उपविष्टेनकृतोपवेशनेन, समरकेतुना तदाख्यखसुहृदा, च पुनः, यथानिबद्धस्थानविनिविष्टैः यथानिबद्धस्थानं विनिविष्टैः-उपविष्टैः, अन्यैः समरकेतुव्यतिरिक्तैः, विद्याधरकुमारः विद्याधरनृपात्मजैः, परिवृतः परिवेषितः सन् , आहारकर्म भोजनक्रियां, निर्वर्तयाञ्चकार सम्पादयामास [य]।
च पुनः, क्रमातिवाहितदिनः क्रमेण-भोजना-ऽम्बुपान-मुखहस्तप्रक्षालन-ताम्बूलचर्वणरूपक्रमिकक्रियाभिः, अतिवाहितं-व्यतीतं, दिनं येन तादृशः, भुक्त्यास्थानमण्डपात् भोजनगोष्ठीभवनात्, उत्थाय, यथाक्रियमाणं क्रियमाणमनतिक्रम्य, सान्ध्यं-संन्ध्यासमये करणीयम्, आवश्यकविधि अवश्यकरणीयधर्मानुष्ठानं, चके कृतवान् । च पुनः,
"Aho Shrutgyanam"