________________
तिलकमञ्जरी
पन्ननानाविधव्रतैराराधयद्भिः साधयद्भिश्च नानाविधविद्याधरैरध्यासितां [फ ], स्फटिकराजपट्टप्रायोपलां सैकतप्रायभूतलां नीवारप्रायतृणोलपां कस्तूरिका मृगप्रायश्वापदां शिखण्डिपरभृतप्रायाण्डजां किंपुरुषप्रायवनचरां चन्द्रकान्तनिःष्यन्दप्रायनिर्झरां गल्वर्कोद्गीर्णपावकप्रायदावानलं वनदेवता निःश्वसितपवनप्रायमारुतामेकशृङ्गवैताढ्यपर्वतान्तरालाटवीं वीक्षमाणः क्षणेनैव दक्षिणेतर श्रेणितिलकभूतमभिभूतपुरुहूतनगरीरूपविभ्रममुदग्रमणिशिलाशाल शिखरोल्लिखितगगनोदरं गगनवल्लभनगरमासाद [ब] |
प्रतिसदनमुत्तम्भितविविधवस्त्रध्वजेन गन्धजलसिक्तनिजनिजप्रतोलिना सर्वतो विप्रकीर्णपुष्पप्रकरेण ‘निर्यत्नसाधिता खिलप्रधानविद्यः परिगतः समागतसकलतन्त्रैः खेचराधिपतिभिरद्यैवोपजातसमागमेन प्रेयसा सदृशरूपयौवनेन सुहृदा स्वदेशागतेन सार्धमचिरानुभूतराज्याभिषेकसंपदभिनवः प्रभुरस्माकमागच्छति'
१३३
पन्ननानाविधव्रतैः आप्तोपदेशेन - आप्तस्य - प्रत्ययितजनस्य, धर्माचार्यस्येत्यर्थः, उपदेशेन - अनुशासनेन, प्रतिपन्नानि - स्वीकृतानि, नानाविधानि व्रतानि यैस्तादृशैः; आराधयद्भिः तदाराधनां कुर्वद्भिः च पुनः, नानाविधाः अनेकप्रकाराः, या विद्या ताः, साधयद्भिः तत्सिद्धिं कुर्वद्भिः [फ ] । पुनः कीदृशीम् ? स्फटिकराजपट्टप्रायोपलाम् स्फटिकरा जपट्टप्रायाः-स्फटिकश्रेष्ठफलकप्रचुरा उपलाः-प्रस्तरा यस्यां तादृशीम्, पुनः सैकतप्रायभूतलां सैकतप्रायं - वालुका बहुलं, भूतलं यस्यां तादृशीम्, पुनः नीवारप्राय तृणोलपां नीवारप्रायाः - नीवाराः - तृणधान्यविशेषा वनत्रीहयः, तत्प्रायाः- तत्प्रचुराः, तृणोलपाः - तृणानि, उलपाः- सूक्ष्मतृणविशेषाश्च यस्यां तादृशीम्, पुनः कस्तूरिकामृगप्रायश्वापदां कस्तूरिकामृगप्रायाः - कस्तूरिकाभृताण्डशालिमृगप्रचुराः, श्वापदाःवन्यपशवो यस्यां तादृशीम्, पुनः शिखण्डिपरभृतप्राय ण्डजां शिखण्डिपरभृतप्रायाः - मयूरकोकिलबहुलाः, अण्डजाः पक्षिणो यस्यां तादृशीम्, पुनः किंपुरुषप्रायवनचरां किंपुरुषप्रायाः - किन्नरप्रचुराः किन्नरकल्पां वा, वनचराः - किरातादिवन्यजना यस्यां तादृशीम्, पुनः चन्द्रकान्तनिःष्यन्दप्राय निर्झरां चन्द्रकान्तमणिस्यन्दमान जलप्रचुरप्रवाहाम् । पुनः गल्वकदीर्णपावकप्रायदावानलां गल्वर्केण- अग्निपाषाणेन, उद्गीर्णः - उद्भावितः यः पावकः - अग्निः, तत्प्रायः- तत्कल्पः, दावानलः - वनाग्निर्यस्यां तादृशीम् । पुनः वनदेवतानिःश्वसितपवनप्रायमारुतां वनदेवतानां - वनाधिष्ठातृदेवानां निःश्वसितपवनप्रायाः-नासिकावायुप्रचुराः, मारुताः - वायवो यस्यां तादृशीम् । कीदृशं गगनवल्लभनगरम् ? दक्षिणेतरश्रेणितिलकभूतं दक्षिणेतरश्रेण्याः-वैताढ्यपर्वतस्योपरिस्थिताया उत्तरदिगवस्थितनगर श्रेणिस्तस्याः, तिलकभूतं - तिलकरूपम् । पुनः अभिभूतपुरुहूतनगरीरूपबिभ्रमम् अभिभूतः - पराजितः, तिरस्कृत इत्यर्थः, पुरुहूतनगर्याः - इन्द्रपुर्याः, रूपविभ्रमः - रूपशोभा येन तादृशम् । पुनः उदग्रमणिशिलाशाल शिखरोल्लिखितगगनोदरम् उदप्राणाम्-उन्नतानां, मणिशिलाशालानां - मणिरूपशिलामयप्राकाराणां, शिखरैः-शृङ्गैः, उल्लिखितं संस्पृष्टं, गगनोदरम् - आकाशमध्यं यस्मिंस्तादृशम्, गगनवल्लभनगरं नभः प्रदेशे वल्लभप्रायःभूतं नगरम्, आससाद प्राप्तवान् [ब] |
जगाम,
पौरनरनारीजनेन नगरवासिनरनारीनिकरेण, दृश्यमानः - अलोक्यमानो हरिवाहनः मन्दिरं राजभवनं, वव्राज कीदृशेन पौरनारीजनेन ? प्रतिसदनं प्रतिगृहम्, उत्तम्भितविविधवस्त्रध्वजेन उत्तम्भिताः - उच्छ्रिताः, विविधाः अनेकप्रकाराः वस्त्रध्वजाः - वस्त्रपताका येन तादृशेन, पुनः गन्धजलसिक्तनिजनिजप्रतोलिना गन्धजलैः - सुगन्धिजलैः, सिक्ता आर्द्रीकृता, निजनिजप्रतोली - स्वस्वरथ्या येन तादृशेन, पुनः सर्वतोविप्रकीर्णपुष्पप्रकरेण सर्वतः - सर्वभागेषु, विप्रकीर्णः-विक्षिप्तः, पुष्पप्रकरः - पुष्पराशिर्येन तादृशेन, पुनः आकर्ण्य आकर्ण्य श्रुत्वा श्रुत्वा समुपजात कुतूहलेन उत्पन्नदिदृक्षारसेन; किमाकर्यैत्याह-निर्यत्नसाधिताखिलप्रधानविद्यः निर्यत्नम् - अनायासं यथा स्यात् तथा, साधिताःअधिगताः, अखिलाः-सर्वाः प्रधानविद्या येन तादृशः, पुनः समागतसकलतन्त्रैः समागताः - समनुप्राप्ताः, सकलाःसमस्ताः, तन्त्राः, अधीनजना यान् तादृशैः, खेचराधिपतिभिः विद्याधरेन्द्रैः परिगतः परिवेष्टितः, पुनः अद्यैव अधुनैव, उपजातसमागमेन सञ्जातसम्मेलनेन, प्रेयसा प्रियतमेन सदृशरूपयौवनेन सदृशं तुल्यं, रूपं - शरीरशोभा, यौवनं - तारुण्यं च यस्य तादृशेन, स्वदेशागतेन स्वकीयदेशादुपस्थितेन, सुहृदा मित्रेण, समरकेतुनेत्यर्थः, सार्धं सह, अचिरानुभूतराज्याभिषेकसम्पत् अचिरं- शीघ्रम् अनुभूता प्राप्ता, राज्याभिषेकसम्पत्-विद्याधर चक्रवर्तित्वाभिषेकसम्पत्तिर्येन तादृशः, अस्माकम् अभिनवः नवीनः प्रभुः स्वामी हरिवाहनः, आगच्छति, इति इत्थम्, पुनः कीदृशेन
"Aho Shrutgyanam"