________________
१३२
टिप्पनक-परागविवृतिसंवलिता। सान्निध्यक्षुभितरसकूपिकैः स्मरान्धखेचरानीतभूगोचरवधूविलापवाचालैरर्धजर्जरद्विरदशय्यासहस्रसूचितातिक्रान्तचक्रवर्तिसैन्यसंनिवेशैः प्रदेशैरुपशोभितां [प], सर्वतश्च सर्वविद्याधरनगरनिर्गतैः सर्ववर्णान्तःपातिभिः सर्वारम्भविरतैः सर्वविषयप्रतिषेधलब्धाशयशुद्धिभिः सिद्धिनिमित्तमङ्गीकृतारण्यवासैश्चिरागतैश्चाचिरप्रविष्टैश्च सरित्तटनिवासिभिश्च गिरिगुहाध्यासिभिश्च गह्वरोपगह्वरविहारिभिश्च निर्झरानुसारिभिश्च सदनीकृतलताजालैश्च प्रतिपन्नपर्णशालैश्च परित्यक्ताभ्यवहारैश्च फलमूलपायाहारैश्च पञ्चतपःसाधनविधानसंलग्नैश्चाकण्ठमुदकमग्नैश्च प्रारब्धधूमपानाधोमुखैश्च ब्रनविम्बनिरीक्षणोद्वीक्षणैश्च जञ्जपूकैश्च वाचंयमैश्च कैश्चिदुकन्दमूलोद्धारिभिरवगाढवातातपोपहतवारिभिर्विधृताजिनजटाकलापैस्तापसकल्पं कलयद्भिः कैश्चिदुद्दण्डकोदण्डपाणिभिः प्राणिविशसनोपरतैरन्तिकस्थप्रेयसीभिः संभोगसुखपरामखैः पत्रशबरपरिबर्ह वह द्भिराप्तोपदेशप्रति
अत्यन्तं भयग्रस्ता ये, अध्वन्याः-पथिकाः, तैदृश्यमानाः, रसातलसोदराः-पातालतुल्याकाराः, पतनकन्दराः-पतनस्थानात्मकगुहा येषु तादृशैः; पुनः यदृच्छाप्रवृत्तविद्याधरपुरन्ध्रिसान्निध्यक्षुभितरसकूपिकैः यदृच्छया-यथेच्छं, प्रवृत्तानां-क्षोभणप्रसक्तानां, विद्याधरपुरन्ध्रीणां-विद्याधरपत्नीनां सान्निध्येन -सामीप्येन, क्षुभिताः-सञ्चलिताः, रसकूपिकाः-सुवर्णादिजनकरसभृताः, कूपिकाः-भाजनविशेषा गर्ता वा येषु तादृशैः; पुनः स्मरान्धखेचरानीतभूगोचरवधूविलापवाचालैः स्मरान्धैःकामान्धैः, खेचरैः-गगनगामिजनैः, आनीतानाम्-बलादपहृतानां, भूगोचरवधूनां-भूमिवास्तव्यस्त्रीणां, विलापैः-क्रन्दनैः, वाचालैः-वावदूकैः; पुनः अर्धजर्जरद्विरदशय्यासूचितातिक्रान्तचक्रवर्तिसैन्यसन्निवेशैः अर्धजर्जराभिः-अर्धजीर्णाभिः, द्विरदशय्याभिः-हस्तिशय्याभिः, सूचितः-प्रत्यायितः, अतिक्रान्तचक्रवर्तिनः--भूतपूर्वाखण्डमण्डलेश्वरस्य, सैन्यसन्निवेशःसैन्यावासो येषु तादृशैः [प] । पुनः कीदृशीम् ? सर्वतः सर्वप्रदेशेषु, नानाविधविद्याधरैः अनेकविधविद्याधरजातीयैः, अध्यासिताम् , अधिष्ठिताम् । कीदृशः? सर्वविद्याधरनगरनिर्गतैः सर्वेभ्यः विद्याधरनगरेभ्यः, सर्ववर्णान्तःपातिभिः सकलवर्णसङ्कीर्णैः; पुनः सर्वारम्भविरतैः सर्वव्यापारनिवृत्तः; पुनः सर्वविषयप्रतिषेधलब्धाशयशुद्धिभिः सर्वविषयप्रतिषेधेन-रूपरसाद्यशेषविषयविशेषभोगत्यागेन, लब्धा-प्राप्ता, आशयशुद्धिः-अन्तःकरणशुद्धि पुनः सिद्धिनिमित्तं सिद्धिसम्पत्यर्थम् , अङ्गीकृतारण्यवासैः अङ्गीकृतः-स्वीकृतः, अरण्यवासः-वनवासो यै स्तादृशैः; पुनः चिरागतैः अतिपूर्वप्रविष्टः:च पुनः. अचिरप्रविष्टः तत्कालकृतप्रवेशैः च पुनः, सरित्तटनिवासिभिः नदीतटनिवासिभि च पुनः, गिरिगुहाध्यासिभिः पर्वतकन्दरावासिभिः;च पुनः, गह्वरोपगह्वरविहारिभिः गह्वरस्य-निकुरजस्य, उपगहरेएकान्ते, विहरणशीलैः,च पुनः, निर्झरानुसारिभिः गिरिनदीप्रवाहानुगामिभिः; च पुनः, सदनीकृतलताजालैः सदनीकृतं गृहीकृतं, लताजालं-लताराशियैस्तादृशैः; च पुनः, प्रतिपन्नपर्णशालैः प्रतिपन्ना-निवासस्थानत्वेन स्वीकृता, पर्णशाला पत्रमयकुटी यैस्तादृशैः. च पुनः, परित्यक्ताभ्यवहारैः परित्यक्तः-वर्जितः, अभ्यवहारः-भोजनं यैस्तादृशैः, उपवासपरेरित्यर्थः, च पुनः, फलमूलप्रायाहारैः फलमूलप्रधानकः, आहारः-भोजनं येषां तादृशैः, च पुनः, पञ्चतपःसाधनविधानसंलग्नैः पञ्चानां तपसां सूर्यपञ्चमानिसाध्यतपसां, साधन विधाने-साधनानुष्ठाने, संलग्नैः-प्रसक्तैः; च पुनः, आकण्ठं कण्ठपर्यन्त उदकमग्नैः जलमग्नः, च पुनः, प्रारब्धधूमपानाधोमुखैः प्रारब्धाय-प्रवर्तिताय, धूमपानाय, अधोमुखैः-अवनतवदनैः; च पुनः, ब्रनविम्बनिरीक्षणोद्वीक्षणैः बनबिम्बस्य-सूर्यमण्डलस्य, निरीक्षणाय-दर्शनाय, उद्वीक्षणैः-उत्-उन्नते, वीक्षणेनयने येषां तादृशैः; च पुनः, जअपूकैः जपासक्तैः; च पुनः, वाचंयमैः मौनव्रतिभिः; पुनः कैश्चित् कैरपि, अकन्दमूलोद्धारिभिः कन्दमूलोद्धरणविरतैः; पुनः अवगाढवातातपोपहतवारिभिः अवगाढं-कृतावगाहं, वातातपाभ्यांपवन-सूर्यरश्मिभ्याम् , उपहतं-दूषितं, वारि-जलं यैस्तादृशैः, पुनः विधृताजिनजटाकलापैः विधृतेन, अजिनेन-व्याघ्रचर्मोत्तरीयेण, जटाकलापेन च-जटापुजेन च, तापसाकल्पं तपस्विवेषं, कलयद्भिः धारयद्भिः; पुनः कैश्चित् कैरपि, उद्दण्डकोदण्डपाणिभिः उद्दण्डः-उन्नतदण्डः, कोदण्ड:-धनुः, पाणौ-हस्ते येषां तादृशैः; पुनः प्राणिविशसनोपरतैः प्राणिनांजीवानां, विशसनात् - हिंसनात् , उपरतैः-निवृत्तैः; पुनः अन्तिकस्थप्रेयसीभिः निकटस्थप्रियतमाभिः सह, सम्भोगसुखपराङ्मुखैः कामकेलिसुखनिवृत्तैः, पुनः पत्रशबरपरिबर्ह पत्रचित्रशिखां, वहद्भिः धारयद्भिः; पुनः आप्तोपदेशप्रति
"Aho Shrutgyanam"