________________
तिलकमञ्जरी शिरसि पात्यमानपुष्पवृष्टिभिरनैदंयुगीनमनुष्यकल्पिताभिः कल्पान्तरस्थायिनीभिः प्रसिद्धसिद्धप्रतिमाभिः प्रसाधिताम् [न], इतश्चेतश्च नाकिमिथुनमन्मथक्रीडोचितैश्चित्तहारितया नन्दनवनोहेशैरिव दिवश्युतैरीासमरविच्छिन्नकिन्नरमिथुनपिच्छलाञ्छितलतासद्मभिरन्योऽन्ययुध्यमानपोत्रिप्रकाण्डप्रहारतुण्डोच्छलितमुक्ताफलधवलितैरशङ्कमृगकुलकलिततापसाश्रमतमालवनखण्डैराहिण्डद्भूरिभारुण्डमण्डलैरारण्यकोच्चोटितवल्कलपट्टकस्थपुटिताग्निशौचशिलातलैरनोकहस्कन्धावतीर्णसरसप्ररोहाभ्यूह्यमानधरणीगतनिधानैः स्वर्णचूर्णावकीर्णभस्मपुञ्जकव्यज्यमाननरेन्द्रधातुवाद क्रियैर्वरार्थिनिरशननरोपरुद्धगिरिशिखरचामुण्डायतनमण्डपैतिककुट्टाकटङ्कशकलिताकृत्रिमशिवलिङ्गैरेकैकधार्मिकाध्युषितनिर्झरप्रपातासन्नाशून्यसिद्धायतनैर्विविक्षुसिद्धविक्षिप्तबलि शबलितासुरविवरद्वारैर्भीतभीताध्वन्यदृश्यमानरसातलसहोदरपतनकन्दर्यदृच्छाप्रवृत्तविद्याधरपुरन्ध्रि
खेचरगणेन गगनगामिजननिकरण, शिरसि मस्तके, पात्यमानपुष्पवृष्टिभिः पात्यमाना-उपक्षिप्यमाणा, पुष्पवृष्टिःपुष्पधारा यासां तादृशीभिः; पुनः अनैदंयुगीनमनुष्यकल्पिताभिः वर्तमानयुगजातमानवैरनिर्मिताभिः, पूर्वयुगजमानवरचिताभिरित्यर्थः, पुनः कल्पान्तरस्थायिनीभिः अन्यकल्पपर्यन्तवर्तिनीभिः[न]। पुनः कीदृशीम् ? इतश्चेतश्च अत्र तत्र च, प्रदेशैः स्थलविशेषैः, उपशोभितां विभूषिताम् , कीदृशैः ? नाकिमिथुनमन्मथक्रीडोचितैः नाकिमिथुनानां-देवदम्पतीनां, मन्मथक्रीडाया:-कामकेल्याः, उचितैः- योग्यैः; पुनः चित्तहारितया मनोहरतया, दिवः स्वर्गात् , च्युतैः स्खलितैः, नन्दनवनोद्देशैः नन्दनाख्येन्द्रोद्यानप्रदेशैरिवेत्युत्प्रेक्षा; पुनः ईर्ष्यासमरविच्छिन्नकिन्नरमिथुनपिच्छलाञ्छितलतासद्मभिः ईर्ष्यासमरविच्छिन्नैः-ईर्ष्यात्मकसंग्रामखण्डितेः, किन्नरमिथुनपिच्छैः-देवविशेषदम्पतिशिखाभिः, लाञ्छितं-चिह्नितं, लतासम-लतागृहं येषु तादृशैः; पुनः अन्योऽन्ययुध्यमानपोत्रिप्रकाण्डप्रहारतुण्डोच्छलितमुक्ताफलधवलितः अन्योऽन्ययुध्यमानानां-परस्परं संग्रामयमाणानां, पोत्रिप्रकाण्डाना-सूकरप्रवराणां, प्रहारतुण्डेभ्यः-अस्त्रभूतमुखेभ्यः, उच्छलितैःउत्पतितैः, मुक्ताफलैः-मुक्तामणिभिः, धवलितैः-शुभ्रीकृतैः; पुनः अशङ्कमृगकुलकलिततापसाश्रमतमालवनखण्डैः अशङ्केन-मारणशङ्काशून्येन, मृगकुलेन-हरिणगणेन, कलितः-अधिष्ठितः, तापसाश्रमः-तपस्विनामाश्रमभूतः, तमालवनखण्ड:तमालाख्यवृक्षसम्बन्धिवनराजिर्येषु तादृशैः; पुनः आहिण्डद्भूरिभारुण्डमण्डलैः आहिण्डन्ति-सञ्चरन्ति, भूरिभारुण्डमण्डलानि -बहुसंख्यकभारुण्डाख्यपक्षिविशेषगणा येषु तादृशैः; पुनः आरण्यकोचोटितवल्कलपट्टकस्थपुटिताग्निशौचशिलातलैः आरण्यकैः-वन्यगजैः, उच्चोटितैः-उच्छिन्नैः, वल्कलपट्टकैः-वृक्षत्वक्फलकैः, स्थपुटितानि-विषमोन्नतीकृतानि, अग्निशौचानिअग्निशुद्धानि, शिलातलानि-येषु तादृशैः; पुनः अनोकहस्कन्धावतीर्णसरसप्ररोहाभ्यूह्यमानधरणीगतनिधानः अनोकहस्कन्धावतीर्णैः-वृक्षस्कन्धायातैः, सरसैः-स्निग्धैः, प्ररोहैः-रत्नप्रभाकुरैः, अभ्यूह्यमानानि-वितर्व्यमाणानि, धरणीगतानिभूगर्भस्थितानि, निधानानि-रत्नानां निधयो येषु तादृशैः; पुनः स्वर्णचूर्णावकीर्णभस्मपुञ्जकव्यज्यमाननरेन्द्रधातुवादक्रियैः स्वर्णचूर्णाना-सुवर्णकणानाम् , अवकीर्णन-इतस्ततो विक्षिप्तेन, यद्वा स्वर्णचूर्णव्याप्तेन भस्मपुञ्जकेन-भस्मसमूहेन, व्यज्यमाना-लक्ष्यमाणा, नरेन्द्राणां-विषवैद्यानां विषविद्यातकमन्त्रविद्याभाजामित्यर्थः,धातुवाद क्रिया येषु तादृशैः; पुनःवराथिनिरशन नरोपरुद्धगिरिशिखरचामुण्डायतनमण्डपैः वरार्थिभिः-वराभिलाषिभिः, निरशनैः-उपवासकर्तभिः, नरैः-मनुष्यैः. उपरुद्धः-व्याप्तः, गिरिशिखरे-पर्वतोपरिस्थः, चामुण्डायतनमण्डपः-चामुण्डायाः-दुर्गादेव्याः, आयतनमण्डपः-मन्दिरमण्डपो येषु तादृशैः,पुनः वातिककुट्टाकटङ्कशकलिताकृत्रिमशिवलिङ्गैः वातिकैः-धातुवादिकैः,वातिकानां-धातुवादिकानां विषवैद्यानां, कुट्टाकैः-छेदनशीलैः, टकैः-तदाख्यास्त्रविशेषैः, शकलितानि-खण्डितानि, अकृत्रिमाणि-स्वाभाविकानि, शिवलिङ्गानि-शिवलिङ्गाकारपाषाणा येषु तादृशैः, पुनः एकैकधार्मिकाध्युषितनिर्झरप्रपातासन्नाशून्यसिद्धायतनैः एकैकधार्मिकैः-प्रत्येकधर्माचरणशीलैः, अध्युषितानि-आश्रयीकृतानि, निर्झरप्रपातासन्नानि-गिरिनदीजलप्रवाहपातस्थाननिकटानि, अशून्यानि-जनसंकुलानि, सिद्धायतनानि-सिद्धाश्रमस्थानानि येषु तादृशैः; पुनः विविक्षुसिद्धविक्षिप्तबलिशबलितासुविरवरद्वारैः विविक्षुभिःप्रवेष्टुमिच्छुभिः, सिद्धैः-सिद्धियुक्तजनैः, विक्षिप्तः, बलिभिः-असुरापणीयभोज्यवस्तुभिः, शबलितानि-चित्राणि-असुरविवरद्वाराणिअसुरगुहाप्रवेशस्थानानि येषु तादृशैः; पुनः भीतभीताध्वन्यदृश्यमानरसातलसहोदरपतनकन्दरैः भीतभीताः
"Aho Shrutgyanam"