________________
टिप्पनक-परागविवृतिसंवलिता। शक्तिभिश्च, रससमूहमारणमहितमाहात्म्याभिश्च, स्तम्भस्तोभोद्वासनविद्वेषणादिप्रयोगयोग्याभिश्च, शतधारस्यापि धारास्तम्भनप्रगल्भाभिः कालकूटस्यापि रसपाटवापनोदिनीभिस्तक्षकस्यापि विषतीक्ष्णतातिरस्कारिणीभिभुवनत्रयस्यापि सुभगकरणीभिरञ्जनमात्रदर्शितादृश्यदूरान्तरितभावाभिरभिलेपमात्रप्रवर्तितानिलवम॑गमनाभिस्तिलक क्रियामात्रकृतसकलतनुतिरोभावाभिरभ्यवहारमात्रजितजरारोगमृत्युभयाभिर्महाप्रभावाभिरोषधीभिरवन्ध्याम् [ध], कचिदुपलरूपतापरिणतैकदेशेन तृणपलाशादिनार्धमग्नेन गम्यमानशीलैः शिलोदकैरशून्यां क्वचित् पान्थतण्डुलप्रस्थम्पचैः प्रतिगर्तमावर्तिना क्वथनेन कथ्यमानप्रकृतिभिर्दहनोदकैरुपेतां, कचिदुपान्तमूर्छितपतत्रिसूचितसामथ्र्यैः सत्त्वरक्षार्थमाटविकरचितकाण्टिकपरिवेषैर्विषोदकैर्विदूषितां, स्थानस्थानेषु मणिमयोर्ध्वसंस्थानाभिर्महाप्रमाणत्वादुद्दीवपुरुषप्रयत्नदृश्यमुखमण्डलाकृतिभिरन्तरिक्षचारिणा खेचरगणेन
मूर्छापादने, दृष्टा-परीक्षिता, शक्तिः सामर्थ्य यासां तादृशीभिः; च पुनः, रससमूहमारणमहितमाहात्म्याभिः रससमूहमारणेन पारदादिरसराशिभस्मीकरणेन, महितं पूजितं, प्रशंसितमित्यर्थः, माहात्म्यं सामर्थ्य यासां तादृशीभिः, च पुनः, स्तम्भस्तोभोद्वासनविद्वेषणादिप्रयोग्याभिः स्तम्भः-जडीभावः, स्तोभः-प्रवृत्तकार्यप्रतिबन्धः, उद्वासनम्-उच्चाटनम् , विद्वेषणम्अप्रीतिः, तदादिप्रयोगेषु-तत्प्रभृतिसम्पादनेषु, प्रयोग्याभिः-समर्थाभिः; पुनः शतधारस्यापि वज्रस्यापि, धारास्तम्भनप्रगल्भाभिः निशिताग्रभागरूपधाराव्यापारनिरोधनकुशलाभिः; पुनः कालकूटस्यापि विषराशेरपि, रसपाटवापनोदिनीभिः रसतीव्रतोपशमनकारिणीभिः; पुनः तक्षकस्यापि तदाख्यसर्पराजस्यापि, विषतीक्ष्णतातिरस्कारिणीभिः विषतीव्रतोपहासिनीभिः; पुनः भुवनत्रयस्य वर्ग-मर्त्य-पाताल-लोकानामपि, सुभगकरणीभिः सौभाग्यापादनसाधनभूताभिः; पुनः अञ्जनमात्रदर्शितादृश्यदरान्तरितभावाभिः अञ्जनमात्रेण नयनोपलेपनमात्रेण, दर्शिताः-दृष्टिगोचरीकारिताः, अदृश्या:-अतीन्द्रियाः, दूराः-दूरदेशस्थाः, अन्तरिताः-व्यवहिताश्च, भावाः-पदार्था याभिस्तादृशीभिः; पुनः अनिलेपमात्रप्रवर्तितानिलवम॑गमनाभिः अङ्गयोः पादयोः, लेपमात्रेण-लेपनेनैव, प्रवर्तितं-प्रारब्धम् , अनिलवर्मनि-वायुमार्गे, गगनमार्ग इत्यर्थः, गमनं याभिस्तादृशीभिः; पुनः तिलकक्रियामात्रकृतसकलतनुतिरोभावाभिः तिलकक्रियामात्रेण-तिलकरचनामात्रेण, कृतः, सकलानां-सर्वेषां, तनुतिरोभावः-शरीरान्तर्धानं याभिस्तादृशीभिः; पुनः अभ्यवहारमात्रजितजरारोगमृत्युभयाभिः अभ्यवहारमात्रेण-भक्षणमात्रेण, जितम्-अभिभूतं, जरायाः-वार्धक्यात् , रोगात् , मृत्योः-मरणाच भयं याभिस्तादृशीभिः; पुनः महाप्रभावाभिः समधिकशक्तिशालिनीभिः [ध]। पुनः कीदृशीम् ? क्वचित् कस्मिंश्चित् प्रदेशे, उपलरूपतापरिणतैकदेशेन उपलरूपतया-प्रस्तररूपतया, परिणतः-मिलितः, एकदेशः-एकभागो यस्य तादृशेन, पुनः अर्धमग्नेन जलान्तःस्थितार्धभागकेन, तृणपलाशादिना तृणपत्रादिना, गम्यमानशीलैः गम्यमान-प्राप्यमाणं, शीलं-शैत्यादिस्वभावो येषां तादृशैः, शिलोदकैः प्रस्तरोपरिस्पन्दिजलैः, अशून्यां पूर्णाम् , पुनः क्वचित् कस्मिंश्चित् स्थले, पान्थतण्डुलप्रस्थम्पचैः पान्थानांमार्गगामिजनानां, तण्डुलप्रस्थम्पचैः-प्रस्थपरिमिततण्डुलपाचकैः, प्रतिगर्त प्रतिजलाशयम् , आवर्तिना भ्रमिवता, क्वथनेन प्रज्वलत्प्रवाहेण, कथ्यमानप्रकृतिभिः कथ्यमाना-अभिव्यज्यमाना, प्रकृतिः-उष्णभावो येषां तादृशैः, दहनोदकैः अग्निगभिंतजलैः, उपेतां सहिताम्। पुनः क्वचित् कस्मिंश्चित् स्थले, उपान्तमूर्छितपतन्त्रिसूचितसामथ्र्यैः उपान्ते-निकटप्रदेशे, मूर्छितैः-नष्टसंज्ञैः, पतत्रिभिः- पक्षिभिः, सूचितं-प्रत्यायितं, सामर्थ्य-हिंसनशक्तिर्येषां तादृशैः, पुनः सत्त्वरक्षार्थ जीवरक्षार्थम् , आटविकरचितकाण्टिकपरिवेषैः आटविकैः-वन्यजनैः, रचितः-निर्मितः, काण्टिकः-कण्टकमयः, परिवेषः-परिवेष्टनं येषां तादृशैः, विषोदकैः विषपूर्णजलैः, विदूषिताम् उपहताम् । पुनः स्थानस्थानेषु तत्तत्स्थानेषु, प्रसिद्धसिद्धप्रतिमाभिः प्रसिद्धानां-विश्रुतानां, सिद्धानां-देव विशेषाणां, प्रतिमाभिः-प्रतिकृतिभिः, प्रसाधिताम् अलङ्कताम् , कीदृशीभिः ? मणि
नाभिः मणिमयानि-रत्नमयानि, ऊर्ध्वानि,-उच्चानि, संस्थानानि-आकृतयो यासां तादृशीभिः; पुनः महाप्रमाणत्वाद् अतिदीर्घप्रमाणत्वाद्धेतोः, उहीवपुरुषप्रयत्नदृश्यमुखमण्डलाकृतिभिः उदीवैः-उन्नतकण्ठैः, पुरुषैः, प्रयत्नेन, दृश्या-द्रष्टुं शक्या, मुखमण्डलाकृतिः-मण्डलाकारमुखं यासां तादृशीभिः; पुनः अन्तरिक्षचारिणा आकाशगामिना,
"Aho Shrutgyanam"