________________
तिलकमञ्जरी
१२९ दरीगृहप्रस्तरगलितगुञ्जाफलकाञ्चीसूचितवनेचरीचित्ररतविमर्दाभिर्गवयखुरखण्डितमनःशिलाशिलातलतलिनितोदेशाभिः क्षुण्णहरितालपिञ्जरजटालजरदृक्षप्रेक्षणीयाभिररण्यमहिषविषाणशिखरोत्खातनीलगिरिकूटाट्टहासिनीभिः कवलितपृदाकुदर्दुरदारणोद्यतनिषादनादितानूपाभिर्वनस्थलीभिरुद्भासिताम् , उर्वीनिर्व्याजभूषणैश्चानेकरूपैर्जातरूपजन्महेतुभिश्च, दुर्वर्णजननवर्णनीयवीर्यैश्च, शुल्वात्मलाभदायिभिश्च, रीत्युपादानकारणैश्च, वङ्गप्रसविभिश्च, नागप्रभवैश्च, कङ्कादिलोहोल्लासकल्पैश्च, नष्टशल्याकृष्टिकृष्टिभिश्चाश्मसारभूमिदृष्टसारैश्च, स्पर्शवेधिभिश्च, पद्मरागादिरत्नपरीक्षाक्षमैश्च, क्षुद्रोपलैरलङ्कृतम् , अनेकसिद्धिश्रद्धालुसिद्धान्विष्यमाणाभिश्च, विचित्रपत्रपुष्पफलमूलोपलक्ष्याभिरक्षुण्णनामभिरवग्रहग्रहादिनिग्रहोपयोगिनीभिश्च, सकलदुष्टदृष्टिमोहदृष्ट
मञ्जिष्ठायाः-तदाख्यौषधिविशेषस्य, अङ्कुरजालैः-अङ्कुरकलापैः, जालकितः-संजातजालकाकारः, जलाशयोपशल्यः-जलाशयसमीपदेशो यासु तादृशीभिः; पुनः निपतिततिरश्चीनप्राचीनामलकतिलकितक्षितितलाभिः निपतितैः-अधोगलितैः, तिरश्चीनैः-कुटिलैः, प्राचीनामलकैः-कालामलकैः, तिलकितं-सञ्जाततिलकाकार, क्षितितलं-भूतलं, यासु तादृशीभिः; पुनः दरीगृहप्रस्तरगलितगुआफलकाञ्चीसूचितवनेचरीचित्ररतविमर्दाभिः दरीगृहप्रस्तरेषु-गुहागृहपाषाणेषु, गलि. ताभिः-पतिताभिः, गुञ्जाफलकाञ्चीभिः-गुञ्जाफलरचितमेखलाभिः, सूचितः-प्रतीतः, वनेचरीणां-शबरस्त्रीणां, चित्ररतविमर्दःविलक्षणकामकेलियुद्धं यासु तादृशीभिः; पुनः गवयखुरखण्डितमनःशिलाशिलातलतलिनितोद्देशाभिः गवयानांवन्यगवाकारपशूनां, खुरैः, खण्डितानां-विदारितानां, मनःशिलाख्यानां शिलाना-प्रस्तराणां, तलैः-स्वरूपैः, तलिनितः-स्वच्छीकृतः, उद्देशः-प्रदेशो यासा तादृशीभिः; पुनः क्षुण्णहरितालपिञ्जरजटालजरदृक्षप्रेक्षणीयाभिः क्षुण्णहरितालवत्-चूर्णितहरितालाख्यद्रव्यविशेषवत्, पिजरा-पीता, जटा येषां तादृशैः, जरद्भिः-जीर्णावस्थैः, ऋक्षः-भल्लूकैहेतुभिः, प्रेक्षणीयाभिः-दर्शनीयाभिः; पुनः अरण्यमहिषविषाणशिखरोत्खातनीलगिरिकटावहासिनीभिः अरण्यमहिषस्य-वन्यमहिषस्य. विषाणशिखरेण-शशो_भागेन, उत्खातस्य-उत्पाटितस्य, नीलगिरिकूटस्य-नीलपर्वतशृङ्गस्य, अट्टहासिनीभिः-महाहास्यकरणशीलाभिः, अत्यन्तनीलाभिरित्यर्थः; पुनः कवलितपृदाकुदर्दुरदारणोद्यतनिषादनादितानूपाभिः कवलितः-भक्षितः, पृदाकुः-सर्पो यैस्तादृशानां, दर्दुराणां-मण्डूकानां, दारणे भेदने, उद्यतैः-उद्युक्तैः, निषादैः-चण्डालैः, नादिताः-ध्वनिताः, अनूपाः-जलाशया यासु तादृशीभिः [थ] । पुनः कीदृशीमटवीम् ? क्षुद्रोपलैः सूक्ष्मप्रस्तरैः, अलङ्कतां विभूषिताम् , कीदृशैः ? उर्वीनिर्व्याजभूषणैः उर्व्याः-पृथिव्याः, निर्व्याजभूषणैः- वास्तविकाभरणरूपैः, पुनः अनेकरूपैः विविधरूपैः, पुनः जातरूपजन्महेतुभिः जातरूपस्य-जातं प्रशस्तं रूपं वर्णो यस्य तादृशस्य, सुवर्णस्य, जन्महेतुभिः-उत्पत्तिकारणैः, च पुनः, दुर्वर्णजननवर्णनीयवीर्यः दुर्वर्णस्य-दुष्टः-सुवर्णापेक्षया निन्धः, वर्णो यस्य तादृशस्य, रजतस्य, जननेन-उत्पादनेन, वर्णनीयं-कीर्तनीयं, वीय-सामर्थ्य येषां तादृशैः, च पुनः,शुल्वात्मलाभहेतुभिः शुल्वस्य-ताम्रस्य, य आत्मलाभः-ताम्रत्वपरिणामस्तस्य हेतुभिः-सम्पादकैः; च पुनः, रीत्युपादानकारणैः रीतेः-पीतलोहस्य, उपादानकरणैः-समवायिकारणैः; च पुनः, वङ्गप्रसविभिः त्रपुजनकैः; च पुनः, नागप्रभवैः नागं-सीसकं, प्रभवः-उत्पत्तिस्थानं येषां तादृशैः; च पुनः, कङ्कादिलोहोल्लासकल्पैः ईषदूनकङ्कादिलोहविशेषाविष्कारात्मकैः; च पुनः, नष्टशल्याष्टिकृष्टिभिः नष्टानां-गाढं निमग्नतया दृष्टिपथातीतानां, शल्यानां-कण्टकानाम् , आकृष्टौ-उद्धरणे, कृष्टिभिः-कुशलैः; च पुनः, अश्मसारभ्रमिदृष्टसारैः अश्मसारस्य-लोहस्य, या भ्रमिः-इतस्ततो गमनं, भ्रमणसम्पादनमित्यर्थः, तत्र दृष्टः सारः-बलं येषां तादृशैः; च पुनः, स्पर्शवेधिभिः स्पर्शाख्यमणिविशेषमित्रैः; च पुनः, पद्मरागादिरत्नपरीक्षाक्षमैः पद्मरागादीनां-पद्मरागाख्यमणिप्रभृतीनां रत्नानां, परीक्षायां-सम्यक्त्वासम्यक्त्वविवेचने, क्षमैःकुशलैः [द]। पुनः कीदृशीम् ? ओषधीभिः फलपाकशोषिवृक्षैः, अवन्ध्यां सफला, सहितामित्यर्थः, कीदृशीभिः ? अनेकसिद्धिश्रद्धालुसिद्धान्विष्यमाणाभिः अनेकासु-बह्वीषु, सिद्धिषु-अणिमादिषु, श्रद्धालुभिः-प्रीतिमद्भिः, सिद्धः विद्यासिद्धादिजनैः, अन्विष्यमाणाभिः इतस्ततो गवेष्यमाणाभिः, पुनः विचित्रपुष्पफलमूलोपलक्ष्याभिः विचित्रैःविलक्षणैः, पुष्पैः, फलैः, मूलैश्च, उपलक्ष्याभिः-परिचेयाभिः; पुनः अक्षुण्णनामभिः अनभ्यस्तसंज्ञकाभिः; च पुनः, अनवग्रहावग्रहग्रहादिनिग्रहोपयोगिनीभिः अनवग्रहः-उच्छृङ्खलो यः, अवग्रहः-वृष्टिप्रतिबन्धः, ग्रहः-सूर्यादिः, तदादेः निग्रहे-वारणे, उपकारिणीभिः, च पुनः, सकलदुष्टदृष्टिमोहदृष्टशक्तिभिः सकलानां-सर्वेषां, दुष्टदृष्टीना-दुष्टदृष्टिमतां, मोहे
१७ तिलक.
"Aho Shrutgyanam"