SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२८ टिप्पनक-परागविवृतिसंवलिता । पथप्रस्थानलीलोत्थापितविस्मयेन समरकेतुना सविस्मयमवलोकिता प्रलयजलधिपङ्कपर्यङ्कलुठितवैकुण्ठकोलकायकाली कुपितकालयवनकालकालितां केलिमिव कालीयस्य, तत्कालकर्कशार्कमरीचिसंपर्कमूछितां मूर्छामिव महीगोलस्य, शकलीकृत्य काश्यपीगोलकमुत्कलितां कण्ठेकालकूटकालिकामिव कालाग्निकण्ठेकालस्य विषमविषधरविषानलोद्वेगवेगोद्गतां पद्धतिमिव पातालपङ्कस्य, बहुशैवलच्छटावच्छादितामपसरणसरणिमिव प्रलयान्तशान्तोत्तराशाजलराशेः, अवनिपीठपर्यस्तपीवरप्रवाहां मदवारिवाहिनीमिव सार्वभौमस्य, भूमौ प्रतिमागतां रथरेखामिवानूरुसारथिरथावर्तामखर्वपर्वतशिखरशेखरितान्तराम् [त], अन्तरान्तरा वहद्विमलजलवाहिवाहिनीप्रवाहाभिरुत्पतत्पांशुमुष्टिस्पष्टिततरुस्तम्बधृतवनस्तम्बेरमस्तोमाभिः पर्यस्तजर्जरभूर्जवल्कलभारसुखसंचाराभिरुजिहानमञ्जिष्ठाकुरजालजालकितजलाशयोपशल्याभिर्निपतिततिरश्चीनप्राचीनामलकतिलकितक्षितितलाभि अथ अनन्तरम् , 'एकशृङ्गवैताढ्यपर्वतान्तरालाटवीम् एकं शृङ्ग-शिखरं यस्य तादृशस्य वैताळ्यपर्वतस्य, अन्तरालां-मध्यवर्तिनीम् , अटवीं-वनं, वीक्षमाणः पश्यन् , क्षणेनैव क्षणमात्रेणैव, गगनवल्लभनगरम् गगनवल्लभनामक नगरम् , आससाद गतवान्' इत्यग्रेणान्वेति । कीदृशीमटवीम् ? अतर्किततारकापथप्रस्थानलीलोत्थापितविस्मयेन अतर्कितं-पूर्वमनालोचित, यत् तारकापथप्रस्थानम्-आकाशप्रयाणं, तल्लीलया, उत्थापितः-उद्भावितः, विस्मयः-आश्चर्य यस्य तादृशेन, समरकेतुना, सविस्मयं साश्चर्यम् , अवलोकितां दृष्टाम् ; पुनः प्रलयजलधिपङ्कपर्यङ्कलुठितवैकुण्ठकोलकायकालीं प्रलयकालिको यो जलधिः-समुद्रः, तदीयपङ्करूपे पर्यके, लठितस्य-शयितस्य, वैकुण्ठकोलस्य-नारायणावतारभूतशूकरस्य, कायवत्-शरीरवत् , कालीं-कृष्णवर्णाम् ; पुनः कालीयस्य हरिवध्यस्य नागराजस्य, कुपितकालयवनकालाकालिता कुपितः क्रोधयुक्तः, काल:-श्यामश्च,यो यवनकाल:-यवनारिः, हरित्यर्थः, तेन कालितां-श्यामीकृतां, केलिमिव पुनः तत्कालकर्कशार्कमरीचिसम्पर्कमूर्च्छितां तत्काले-तत्समये, कर्कशस्य-तीवस्य, अर्कस्य-सूर्यस्य, मरीचिभिः-किरणैः, सम्पर्केण, मूच्छितां-प्रसृतां, महीगोलस्य पृथ्वीमण्डलस्य, मूर्छामिव नष्टचैतन्यावस्थामिव; पुनः काश्यपीगोलकं भूमण्डलं, शकलीकृत्य विदार्य, उत्कलिताम् उच्छलितां, कालाग्निकण्ठेकालस्य कालाग्नेः-प्रलयकालिकाग्निरूपस्य, कण्ठेकालस्य-रुद्रस्य, कण्ठेकालकूटकालिकामिव कण्ठेकालकूटस्य-कण्ठवर्तिहालाहलपुञ्जस्य, कालिकां-कृष्णकान्तिम्, इव; पुनः विषमविषधरविषानलोद्वेगवेगोद्गतां विषमाणां-भयंकराणां, विषधराणां--सर्पाणां, विषानलेन-विषरूपाग्निना, य उद्वेगः-उद्गमः, तस्य वेगेन, उद्गताम्-उत्थिताम् , पातालपङ्कस्य रसातलकर्दमस्य, पद्धतिमिव मार्गभूमिमिव; पुनः . प्रलयान्तशान्तोत्तराशाजलराशेः प्रलयान्ते-प्रलयावसाने, शान्तस्य-निवृत्तवेगस्य, उत्तराशाजलराशेः-उत्तर दिग्वाहिनः समुद्रस्य, बहुशैवलच्छटावच्छादितां बहुशैवलच्छटया-प्रचुरजलतृणश्रेण्या, अवच्छादिताम्-आवृताम् , अपसरणसरणिमिव निर्गमनमार्गमिव पुनः सार्वभौमस्य समग्रोत्तरभूमण्डलेश्वरस्य, अवनिपीठपर्यस्तपीवरप्रवाहाम अवनिपृष्ठेभूमिपृष्ठे, पर्यस्तः-प्रक्षिप्तः, पीवरः-स्थूलः, प्रवाहो यस्यास्तादृशीम् , मदवारिवाहिनीमिव प्रभुत्वाभिमानजलनदीमिव; पुनः अखर्वपर्वतशिखरशेखरितान्तराम् अखर्वस्य-उन्नतस्य, पर्वतस्य, शिखरैः-ऊर्श्वभागैः, शेखरितं-शोभितम् , अन्तरंमध्यभागो यस्यास्तादृशीम् , अत एव अनूरुसारथिरथावर्ती न विद्यते ऊरू जङ्घ यस्य सोऽनूरुः-अरुणः, स सारथिःरथनियन्ता यस्य तस्य-अनूरुसारथेः-सूर्यस्य, यो रथः, तस्य आवर्ताः-चक्राकारा यत्र तादृशीम् , भूमौ पृथिव्यां, प्रतिमागतां प्रतिबिम्बात्मना आपतितां, रथरेखामिव नेमिपतिमिव [त] । पुनः अन्तरान्तरा मध्ये मध्ये, वनस्थलीभिः वनभूमिभिः, उद्भसिताम् उद्दीपिताम् ; कीदृशीभिः? वहद्विमलजलवाहिवाहिनीप्रवाहाभिः वहन्तः-स्यन्दमानाः, विमलजलवाहिनीना-स्वच्छजलस्यन्दिनीनां, वाहिनीना-नदीना, प्रवाहा यासु तादृशीभिः; पुनः उत्पतत्पांशुमुष्टिस्पष्टिततरुस्तम्बधृतवनस्तम्बेरमस्तोमाभिः उत्पतन्ती-उच्छलन्ती, या पांशुमुष्टिः-मुष्टिप्रमाणा धूली, तया स्पष्टितः-स्पष्टं सूचितः, तरुस्तम्बधृतः-वृक्षकाण्डनियन्त्रितः, वनस्तम्बेरमस्तोमः-वनहस्तियूथो यासु तादृशीभिः; पुनः पर्यस्त ल्कलभारसुखसञ्चाराभिः पर्यस्तैः-विकीर्णैः, जर्जरभूर्जवल्कलभारैः-जीर्णभोजपत्राख्यलोकप्रसिद्धवृक्षसम्बन्धिकोमलत्वपुजैः, सुखसञ्चाराभिः-अक्लेशविहारयोग्याभिः; पुनः उजिहानमञ्जिष्ठाकुरजालजालकितजलाशयोपशल्याभिः उज्जिहानैः-उद्गच्छद्भिः "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy