________________
तिलकमञ्जरी
१२७
वार्यमाणः [3], पर्याणपृष्ठाधिरूढप्रौढपुरुषोत्तम्भितया जृम्भोत्तानकुम्भिकाकुसुमसमभासा श्वेतातपत्रिकया निवार्यमाणातपः [ड ], तापनिर्वापणप्रकीर्णशीकरनिकरकोरकितकरटैः साटोपसर्पणोत्तालताण्डवितकेतुभिः कतिपयैरेव दर्पशौण्डैवेंगदण्डप्रायैरनेकपैरशून्यपृष्ठः [6], प्रतिपिपादयिषितप्रथमसेवासविशेषदर्शितादरेण परस्पराङ्गसङ्गप्रसङ्गाधिगतगतिबाधेनापि बद्धमध्यवेगमन्वक् प्रतिष्ठमानेन पृष्ठापतत्प्रष्ठतुरगखुरगतिगतावधानधावमानाश्वकर्षकेण हेलोच्छलच्छात्रिकेण प्रोड्डीयमानमायूरातपत्रिकेण रयापतत्पतगृहग्राहिणांसस्रंसितासिरेखरित्खड्गधारेण शिखिपिच्छगुच्छाच्छादितैकदेशदारुयष्टिश्लिष्टबाहुशिखरवहद्वारिकरकवाहकेन अनुगम्यमानः परिजनेन निर्गत्य तस्माजिनायतनकाननादनुससार कौबेरदिक्पथम् [ण] । अथातर्किततारका
अतिचञ्चलात्, मौलिशेखरात्-मस्तकमाल्यात्, स्खलनेन-निपतनेन, खलीकृतं-कदर्थितम् , अलिजालं-भ्रमरगणो यैस्तादृशैः; पुनः सहेलव्रजद्वाजिविघटमानसंघट्टमानच्छत्रधारैः सहेलं-सलीलं, व्रजद्भिः-गच्छद्भिः, वाजिभिः-अश्वैः, विघटमानाः-विश्लिष्यमाणाः, संघट्टमानाः-सङ्गच्छमानाः, छत्रधाराः-छत्रधारिणो येषां तादृशः, तैः पार्थिवैः, आगत्य आगत्य उपस्थायोपस्थाय, परिवार्यमाणः परिवेष्टयमानः [3]; पुनः पर्याणपृष्ठाधिरूढप्रौढपुरुषोत्तम्भितया पर्याणपृष्ठेगजपृष्ठासनोपरि, अधिरूढेन-आरूढेन, प्रौढेन-प्रगल्भेन, पुरुषेण, उत्तम्भितया-उद्धृतया, पुनः जर कुसुमभासा जृम्भया-विकासेन, उत्तानभूतस्य-ऊर्ध्वमुखस्य, कुम्भिकायाः-वारिपाः , जलतृणविशेषस्येत्यर्थः, कुसुमस्येवपुष्पस्येव, भाः-छविर्यस्यास्तादृश्या, श्वेतातपत्रिकया धवलच्छत्रेण, निवार्यमाणातपः निवार्यमाणः-निरुध्यमानः, आतपःसूर्यकिरणो यस्मिंस्तादृशः [ड]; पुनः तापनिर्वापणप्रकीर्णशीकरनिकरकोरकितकरटैः तापनिर्वापणाय-तापशमनाय, प्रकीर्णैः-प्रक्षिप्तैः, शीकरनिकरैः-जलकणगणैः, कोरकितः-सङ्कुचितः, करटः-गण्डस्थलं येषां तादृशैः, पुनः साटोपसर्पणोत्तालताण्डवितकेतुभिः साटोपसर्पणेन-औद्धत्यपूर्णगमनेन, उत्तालताण्डविताः-उत्तालम्-उत्कटं यथा स्यात् तथा, ताण्डविताः-नर्तिताः, केतवः-पताका यस्तादृशैः, पुनः कतिपयैरेव परिगणितैरेव, दर्पशौण्डैः गर्वात्यैः, वेगदण्डप्रायः दण्डाकारवेगकल्पैः, अनेकपैः हस्तिभिः, अशून्यपृष्ठः अशून्यं-व्याप्तं, पृष्ठ-पश्चाद्भागो यस्य तादृशः [ढ]; पुनः परिजनेन परिवारवृन्देन, अनुगम्यमानः अनुस्रियमाणः, कीदृशेन ? प्रतिपिपादयिषितप्रथमसेवासविशेषदर्शितादरेण प्रतिपिपादयिषितायां-बुबोधयिषितायाम्, अप्रथमसेवायां-पुनः पुनः सेवायां, सविशेष-सातिशयं यथा स्यात् तथा, दर्शितः, आदरः-अभिरुचिर्येन तादृशेन, पुनः परस्पराङ्गसङ्गप्रसङ्गाधिगतगतिबाधेनापि परस्पराङ्गसङ्गप्रसङ्गेन-परस्पराङ्गसङ्घर्षणप्रसङ्गेन, अधिगतः-प्राप्तः, गतिबाधः-गमनप्रतिबन्धो येन तादृशेनापि, बद्धमध्यवेगं बद्धः-गृहीतः, मध्यः-नात्यन्तो नापि मन्दश्च, वेगो यस्मिंस्तादृशं यथा स्यात् तथा, अन्वक पश्चात् , प्रतिष्ठमानेन प्रचलता, पुनः पृष्ठापतत्प्रष्ठतुरगखुरगतिगतावधानधावमानाश्वकर्षकेण पृष्ठे-पश्चाद्देशे, आपतताम्-आगच्छतां, प्रष्टतुरगाणाम्अश्वेन्द्राणां, खुरगतिभिः-खुरविक्षेपैः, गतं-नष्टम् , अवधानं-मनःस्थैर्य येषां तादृशाः, सम्भ्रान्ता इत्यर्थः, अत एव धावमानाःपलायमानाः, अश्वकर्षकाः-अश्वनियन्तारो यस्मिंस्तादृशेन, पुनः हेलोच्छलच्छात्रिकेण हेलया-लीलया, उच्छलन्तःउत्पतन्तः, छात्रिका:-छत्रधारिणो यस्मिंस्तादृशेन, पुनः प्रोडीयमानमायूरातपत्रिकेण प्रोड्डीयमाना-अत्यन्तमुत्पतन्ती, मायूरातपत्रिका-मयूरपत्रनिर्मितछत्रं यस्मिंस्तादृशेन, पुनः रयापतत्पतग्राहिणा रयेण-वेगेन, आपतन्-आगच्छन् , पतगृहग्राही-पतन्तं-निष्टीव्यमानं ताम्बूलरसादिकं, गृह्णातीति-धारयतीति, पतग्रहः-निष्ठीवनपात्रं, तद्वाही-तद्धारी यस्मिंस्तादृशेन, पुनः अंसस्रंसितासिरेखरिङ्खत्खङ्गधारेण अंसात्-स्कन्धप्रदेशात् , संसिता-पातिता, लम्बितेत्यर्थः, असिरेखाकृपाणधारा यैस्तादृशाः, रिवन्तः-गच्छन्तः, खड्गधाराः-खड्गधारिणो यस्मिंस्तादृशेन, पुनः शिखिपिच्छगुच्छाच्छादितैकदेशदारुयष्टिसंश्लिष्टबाहुशिखरवहद्वारिकरकवाहकेन शिखिनः-मयूरस्य, पिच्छगुच्छेन-शिखण्डमण्डलेन, आच्छादितः; एकदेशः-एकभागो यस्यास्तादृश्यां दारुयष्टौ-काष्ठदण्डे, संश्लिष्ट-संलग्नं, यद् बाहुशिखरं-भुजोर्चभागः, तद्वहन्तः-तद्धारयन्तः, वारिकरकवाहकाः-जलभाण्डवाहका यस्मिंस्तादृशेन, तस्मात् प्रकृतात् , जिनायतनकाननात् जिनमन्दिरप्राङ्गणभूतोद्यानात्, निर्गत्य निःसृत्य, कौबेरदिपथं कुबेरो देवता यस्याः सा कौबेरी, यद्वा कुबेरस्येयं कौबेरी, कुबेरस्वामिकेत्यर्थः, या दिक्उत्तरा दिगित्यर्थः, तत्पथं तन्मार्गम् , अनुससार अनुजगाम, हरिवाहन इति शेषः [ण] ।
"Aho Shrutgyanam"