________________
१२६
टिप्पनक - परागविवृतिसंवलिता ।
गत्वा देवीमवलोकय' इत्यभिदधानः सहैव मागधजयध्वनिकलकलेनोदतिष्ठत् [ झ ] । द्वारसंगलितसत्वराङ्गरक्षककरतलप्रचलदुत्खातखड्ग मण्डली परिगतश्च विकचनीलोत्पलवनमध्यचारी राजहंस इव गत्वा सविभ्रमं ससंभ्रमाधोरणढौकितां कुम्भपीठपातिताङ्कुशकोटिघट्टनोपविष्टामनवरतनिष्ठुराक्रोशकर्शितोत्थानयत्नां यानगजबशामग्रतोऽधिरूढेन समरकेतुना समर्पितपाणिरध्यरोहत् [ अ ] | अथोष्णीष पट्टकृतशिरोवेष्टना दृढाकृष्टकज़ुककशाधिककृशोदरश्रियः स्कन्धविन्यस्त वल्गाविह स्ताग्रवामहस्तास्त दितरकरावलम्बमानलम्बाजिनयष्टयः पादकटकप्रविष्टैकाङ्क्षिपल्लवावष्टम्भेन परिवर्धकैरपरकटका क्रान्तिनिश्चलीकृतपर्याणैरुपस्थापितान् पुरः पार्थिवा यथास्वमश्वानारुरुहु: [ ८ ] |
तैश्च तरलायमानतारहारच्छटाच्छोटितवक्षःस्थलैरान्दोलितश्रवणोत्पलगलत्परागपांशुलकपोलपालिभिसहेलव्रजद्वाजिविघटमानसंघट्टमानच्छत्र धारैरागत्यागत्य परि
रालोलमौलिशेखरस्खलनखलीकृतालिजालैः
टिप्पनकम् - संगलिताः - मिलिताः [ अ ] ।
देवीं स्वमातरमित्यर्थः, अवलोकय पश्य, इति इत्थम्, अभिदधानः ब्रुवाणः, मागधजयध्वनिकलकलेन मागधानांमङ्गलपाठकानां, जयध्वनिकलकलेन - जयाकारकोलाहलेन, सहैव, उदतिष्ठत् उत्थितः, हरिवाहन इति शेषः [झ ] । च पुनः, द्वारसंगलितसत्वराङ्गरक्षककर तलप्रचलदुत्खातखड्ग मण्डलीपरिगतः द्वारसंगलितानां द्वारदेशे सम्पतितानां सम्मिलितानामिति यावत् अङ्गरक्षकाणां शरीररक्षणाधिकृत सैनिकानां करतलेषु, प्रचलन्त्या - प्रकम्पमानया, उत्खातयाउत्थापितया, खड्गमण्डल्या - कृपाणश्रेण्या, परिगतः परिवेष्टितः सन् विकचनीलोत्पलवनमध्यचारी विकसितनीलकमल - काननमध्यविहारी, राजहंस इव हंसविशेष इव सविभ्रमं सविलासं गत्वा, यानगजवशां यानरूपां - वाहनरूपां, गजवशां- हस्तिनीम्, अध्यरोहत् आरूढ़वानित्यग्रेणान्वेति कीदृशीम् ? ससम्भ्रमाधोरणढौकितां ससम्भ्रमैः सत्वरैः, आधोरणैः-हस्तिपकैः, ढौकिताम् - आनीताम् पुनः कुम्भपीठपातिताङ्कुशकोटिघट्टनोपविष्टां कुम्भपीठे - मस्तक प्रदेशे, पातितस्य, अङ्कुशस्य, कोट्या - अग्रभागेन, यद् घट्टनम् - आघातः, तेन उपविष्टाम्, पुनः अनवरतनिष्ठुराक्रोशकर्शितोत्थानयत्नाम् अनवरतं - निरन्तरं, निष्ठुरैः - कठोरैः, आक्रोशैः - भर्त्सनैः, कर्शितः- शिथिलितः, उत्थानयत्नः - उत्थानोद्यमो यस्यास्तादृशीम् । कीदृशः ? अग्रतः प्रथमम् अधिरूढेन कृतारोहणेन, समरकेतुना, समर्पितपाणिः अवलम्बनार्थं दत्तहस्तः [ अ ] । अथ अनन्तरं, पार्थिवाः तदनुगामिनोऽन्येऽपि नृपाः, यथास्वं स्वमनतिक्रम्य, स्वकीयं स्वकीयानित्यर्थः, अश्वान्, आरुरुहुः आरूढवन्तः इत्यग्रेणान्वेति । कीदृशाः ? उष्णीषपट्टकृत शिरोवेष्टनाः उष्णीषपट्टेन मस्तकावरणपटबन्धेन, कृतं शिरोवेष्टनं-मस्तकाच्छादनं यैस्तादृशाः; पुनः दृढाकृष्टकञ्चककशाधिककृशोदरश्रियः दृढं - नितान्तं यथा स्यात् तथा, आकृष्टाभ्यां - निगृहीताभ्यां कछुककशाभ्यां चोलका कृति सन्नाहाश्वताडनीभ्याम्, अधिककृशा- अत्यन्तक्षीणा, उदरश्रीः- उदरशोभा येषां तादृशाः; पुनः स्कन्धविन्यस्तवल्गा विहस्ताग्रवामहस्ताः स्कन्धविन्यस्तया - स्कन्धदेशारोपितया, वल्गया - मुखरज्वा, तद्रहणेनेत्यर्थः, विहस्तः - व्याकुलः, अग्रवामहस्तः - वामहस्ताग्रभागो येषां तादृशाः; पुनः तदितरकरावलम्बमान लम्बाजिनयष्टयः तदितरकरात् तदन्यहस्तात्, दक्षिणहस्तादित्यर्थः, अवलम्बमाना - अवनमन्ती, लम्बा-दीर्घा, अजिनयष्टिःचर्मदण्डो येषां तादृशाः; कीदृशानश्वान् ? पादकटकप्रविष्ठैकाङ्क्षिपल्लवावष्टम्भेन पादकटके -पादवलये, प्रविष्टेन एकेन, अङ्घ्रिपल्लवेन-चरणपल्लवेन, यः, अवष्टम्भः - अवरोधः, तेन अपरकटकाक्रान्तिनिश्चलीकृतपर्याणैः अपरकट काक्रान्त्या - अन्यपादवलयाक्रमणेन, निश्चलीकृतं - सुस्थिरीकृतं, पर्याणं - पृष्ठारोपितोपवेशनं यैस्तादृशैः, परिवर्धकैः अश्ववाहकैः पुरः अग्रे, उपस्थापितान् आनीतान् [ ट ] ।
च पुनः, तरलायमानतारहारच्छटाच्छोटितवक्षःस्थलैः तरलायमानया चपलायमानया, तारहारच्छटयाविशुद्धमौक्तिकमाल्यश्रेण्या, आच्छोटितम् - आवृतं, वक्षःस्थलम् - उरः प्रदेशो येषां तादृशैः; पुनः आन्दोलितश्रवणोत्पलगलत्परागपांशुलकपोलपालिभिः आन्दोलितेविधूते, श्रवणोत्पले कर्णकमले, ताभ्यां गलत - प्रवहत् परागपांशुलं-परागस्तस्तेन युक्ताः, कपोलपालयः-मस्तकतटप्रदेशाः ये तैः । पुनः आलोलमौलिशेखरस्खलनखलीकृतालिजालैः आलोलात्
"Aho Shrutgyanam"