________________
तिलकमञ्जरी
१२५ प्रतीहारी सप्रश्रयमवनिपतिकन्यकां तां व्यजिज्ञपत्--- 'भर्तृदारिके ! देव्या पत्रलेखया त्वज्जीवितपरित्यागव्यवसायवार्तामाकण्य लोकादधिकमुत्पन्नहृदयोत्कम्पया विसृष्टः कञ्चकी द्वारि तिष्ठति' इति, मुखनिहितनिश्चललोचना च सा विलम्ब्य क्षणमलब्धोत्तरा सत्वरमेव निश्चक्राम [छ ] ।
निर्गतायां च तस्यामतिक्रान्ते कियत्यपि कालक्षणे गीतविधिविचक्षणः कोऽपि मध्यंदिनावसरपाठावसाने समासन्नदीर्घिकातीरवर्ती वारं वारमावर्तितपदामार्यामिमामुच्चैरगायत्---
__ "तव राजहंस ! हंसीदर्शनमुदितस्य विस्मृतो नूनम् ।
सरसिजवनप्रवेशः समयेऽपि विलम्बसे तेन ॥" [ज] श्रुत्वा च सुचिरमेतामवगतार्थो विहस्य हरिवाहनस्तां महाराजकन्यामवादीत्-‘देवि ! दैवज्ञावेदितस्य विद्याधरराजधानीपुरप्रवेशलग्नस्य समयातिलङ्घनशक्तिभिः शाक्यबुद्धिपुरःसरैः प्रवर्तितो बुद्धिसचिवैः विराधनामा नरेन्द्रनर्मसचिव एष हंसमिषेण मामितो गमनाय त्वरयति, तदादिश, गच्छाम्यहम् , त्वमपि
टिप्पनकम् -'तव राजहंस!' इत्यादि[ब्याजो]क्तिः, यतो राजहंसव्याजेन नृपप्रधानो हरिवाहन उक्तः, हंसीव्याजेन तिलकमञ्जरी उक्ता, सरसिजवनप्रवेशव्याजेन च विद्याधरराजधानीप्रवेशः सूचित इति [ज।
अत्र अस्मिन् , अन्तरे अवसरे, कनकवेत्रहस्ता सुवर्णदण्डहस्ता, प्रतीहारी द्वारपालिका, प्रविश्य कदलीगृहाभ्यन्तरमुपस्थाय, सप्रश्रयं सादरम् , ताम् , अवनिपतिकन्यकां राजपुत्रीं, तिलकमञ्जरीमिति यावत् , व्यजिज्ञपत् आवेदितवती, भर्तृदारिके ! राजसुते !, देव्या राज्या, पत्रलेखया, लोकाद् जनात् , त्वज्जीवितपरित्यागव्यवसायवार्ता त्वदीयप्राणत्यागोद्योगवृत्तान्तम् , आकर्ण्य श्रुत्वा, अधिकम् अत्यन्तं यथा स्यात् तथा, उत्पन्नहृदयोत्कम्पया उत्पन्नःसञ्जातः, हृदयस्य, उत्कम्पः-प्रकम्पो यस्यास्तादृश्या सत्या, विसृष्टः मुक्तः, प्रेषित इति यावत् , कञ्चकी अन्तःपुरद्वारपालः, द्वारि द्वारदेशे, तिष्ठति, इति, च पुनः, मुखनिहितनिश्चललोचना मुखनिवेशितनिःस्पन्दनयना, सा प्रतीहारी, क्षणं किञ्चित्काल मात्रं, विलम्ब्य स्थित्वा, अलब्धोत्तरा अप्राप्तप्रतिवचना सती, सत्वरमेव शीघ्रमेव, निश्चक्राम ततो निष्क्रान्ता [छ ।
तस्यां प्रतीहार्या, निर्गतायां निष्कान्तायां सत्यां, कियत्यपि कतिपयेऽपि, कालक्षणे कालसम्बन्धिक्षणात्मकांशे, अतिक्रान्ते व्यतीते सति, मध्यंदिनावसरपाठावसाने मध्याकालिकपाठोत्तरकाले, कोऽपि अपरिचितः, गीतविधिविचक्षणः गानकर्मकुशलः, समासन्नदीर्घिकातीरवर्ती अतिनिकटवापिकातटस्थः सन् , वारं वारम् अनेकवारम् ,
आवर्तितपदाम् आवर्तितानि-पुनः पठितानि, पदानि यस्यास्तादृशीम् , इमाम् अनुपदमुच्यमानाम् , आर्यां तदाख्यवृत्तविशेषम् , उच्चैः दीर्घस्वरेण, अगायत् गीतवान्- तव राजहंसेत्यादि, व्याजोक्तिरिय, तथा च हे राजहंस! राज्ञां मध्ये हंससदृश !, हंसीदर्शनमुदितस्य हंस्याः-स्त्रीणां मध्ये गमनविभ्रमादिना हंससदृश्यास्तिलकमञ्जर्याः, दर्शनेन, मुदितस्य-हृष्टस्य, तव, सरसिजवनप्रवेशः सरसिजवने-कमलकाननसदृशे विद्याधरराजराजधानीपुरे, प्रवेशः, नूनं निश्चयेन, विस्मृतः स्मृतिपथात् प्रच्यावितः, तेन विस्मरणेन, समयेऽपि प्रवेशावसरेऽप्यस्मिन् , विलम्बसे कालमतिकामसि [ज]।
च पुनः, एताम् इमामा, श्रुत्वा श्रवणगोचरीकृय, अवगतार्थः ज्ञाततदर्थः सन् , विहस्य अत्यन्तं हसित्वा, हरिवाहनः, तां प्रकृतां, महाराजकन्यां विद्याधरचक्रवर्तिसुतां, तिलकमञ्जरीमिति यावत् , अवादीत् उक्तवान्-'देवि राज्ञि !, दैवज्ञाशावेदितस्य मुहूर्तज्ञबोधितस्य, विद्याधरराजराजधानीपुरप्रवेशलग्नस्य विद्याधराधिपते राजधानीरूपे नगरे प्रवेशस्य यल्लग्नं-राश्युदयः, तस्य समयातिलङ्घनशक्तिभिः कालातिक्रमणशक्तिभिः, शाक्यबुद्धिपुरस्सरैः शाक्यबुद्धिप्रमुखैः, बुद्धिसचिवैः मतिनिधानमन्त्रिभिः, प्रवर्तितः प्रेरितः, एषः, विराधनामा, नरेन्द्रनर्मसचिवः विद्याधरेन्द्रक्रीडामन्त्री, हंसमिषेण हंसव्याजेन, हंसोद्देश्यकान्योक्त्या, इतः अस्मात् स्थानात्, गमनाय तत्र प्रस्थानाय, त्वरयति चपलयति, तत् तस्माद्धेतोः, माम्, आदिश अनुमन्यख, अहं गच्छामि विद्याधरराजराजधानी प्रयामि । त्वमपि गत्वा,
"Aho Shrutgyanam"