________________
१२४
टिप्पनक-परागविवृतिसंवलिता । क्षितिचुम्बिना शिरसा कृतप्रणाममुक्षिप्य सरभसप्रसारितबाहुयुगलः प्रवेशयन्निव हृदयमेकतां नयन्निव शरीरेण निर्दयाश्लेषनिष्पिष्टवक्षःस्थलपुलकजालमालिलिङ्ग । शिथिलितपरिष्वङ्गं च भूयः प्रणम्य भूमावुपविशन्तमाकृष्य निजविष्टरैकदेशे न्यवेशयत् , परिष्वज्य च पुनः पुनः प्रीतचेताः पप्रच्छ कुशलम् । स्थित्वा च तन्मुखासक्तदृष्टिरनतिदीर्घकालमीषद्वलितवदनः स्मितोद्भेदविशदमक्षिपत् तस्यां क्षितिपदुहितरि चक्षुः [3]। अवदच्च-'देवि, सोऽयमखिलसिंहलद्वीपभर्तुर्महाराजचन्द्रकेतोरात्मजन्मा स्वयंवृतो वरस्त्वदीयायाः स्वसुर्मलयसुन्दर्याः सकलवीरवर्गाग्रेसरो युवराजः समरकेतुर्यस्नेहमोहितेन मया मनोरथानामप्यपथभूतमप्रार्थिताभिमुखेन भगवता देवेन कथमपि करुणया संपादितमेकपद एव परिहृतं त्वदीयमुखपङ्कजावलोकनसुखमङ्गीकृतः कालमियन्तमेतावानयं क्लेशः' इत्युक्तवति हरिवाहने तां कृतस्मितामुत्थाय समरकेतुः सादरं प्रणनाम । प्रणतोपविष्टं च तमसौ प्रकटितसंभ्रमारम्भसुविकसितपुटेन निश्चलपक्ष्मणा निस्तरङ्गतारकेण चक्षुषा पिबन्तीवालपन्तीवाह्वयन्तीव सविधे समुपवेशयन्तीव सप्रेमबहुमानमपश्यत् [च] । अत्रान्तरे कनकवेत्रहस्ता प्रविश्य
टिप्पनकम्-वरः भर्ता [च]।
च पुनः, उपसृतम् उपगतम् , तं समरकेतुम् , आलिलिङ्ग आलिङ्गितवान् , कीदृशम् ? क्षितिचुम्बिना भूमिस्पर्शिना, शिरसा मस्तकेन, कृतप्रणामं कृतः, प्रणामः-नमस्कारो यस्य तादृशम् , कीदृशः ? उत्क्षिप्य उत्थाप्य, सरभसप्रसारितबाहृयुगलः सरभसं-सत्वरं, प्रसारितं-विस्तारितं, बाहयुगलं-भुजद्वयं येन तादृशः. पुनः हदयं मानसं. प्रवेशयन्निव निवेशयन्निव, पुनः शरीरेण, एकताम् अनन्यतां, नयन्निव प्रापयन्निव, निर्दयाश्लेषनिष्पिष्टवक्षःस्थलपुलकजालं निर्दयाश्लेषण-सुदृढालिङ्गनेन, निष्पिष्टं-सञ्चूर्णितं, वक्षःस्थलसम्बन्धि पुलकजालं-रोमाञ्चगणो यस्य तादृशं, तमिति शेषः । च पुनः, शिथिलितपरिप्वङ्गं शिथिलितः-मन्दीकृतः, परिष्वङ्गः-आलिङ्गनं यस्य तादृशम् , भूयः पुनः, प्रणम्य नमस्कृत्य, भूमौ, उपविशन्तम् उपवेशने प्रवर्तमानं, तमिति शेषः, आकृष्य आनीय, निजविष्टरैकदेशे स्वकीयासनैकभागे, न्यवेशयत् उपवेशितवान् । च पुनः, परिष्वज्य आलिङ्गय, प्रीतचेताः प्रसन्नमानसः, कुशल, पप्रच्छ पृष्टवान् । च पुनः, स्थित्वा स्थिरीभूय, अनतिदीर्घकालं किञ्चिद्दीर्घकालं, तन्मुखासक्तदृष्टिः तन्मुखसंलग्नलोचनः, ईषद्वलितवदनः ईषद्वलितं-किञ्चित् स्पन्दितं, वदनं-मुखं यस्य तादृशः सन् , स्मितोद्भेदविशदं मन्दहासोद्गमशुभ्रं, चक्षुः नेत्रं, तस्यां प्रकृतायां, क्षितिपदुहितरि राजकन्यायाम् , तिलकमञ्जर्यामिति शेषः, अक्षिपत् प्रेरयत् [6]। च पुनः, अवदत् उक्तवान्-देवि ! राज्ञि !, . अखिलसिंहलद्वीपभर्तुः समस्तसिंहलद्वीपाधिपतेः, महाराजचन्द्रकेतोः, आत्मजन्मा पुत्रः, पुनः सकलवीरवर्गाग्रेसरः अशेषवीरगणाग्रणीः, पुनः युवराजः अचिरभाविराज्याभिषेकः, अयं पुरोवर्ती, सः समरकेतुः, त्वदीयायाः त्वत्सम्बन्धिन्याः स्वसुः भगिन्याः, मलयसुन्दाः तदाख्यनृपकुमार्याः, स्वयंवृतः स्वयमङ्गीकृतः, वरः पतिः, यत्स्नेहमोहितेन यत्प्रीतिवशीकृतेन, मया, मनोरथानामपि अभिलाषाणामपि, अपथभूतम् अमार्गभूतम् , अविषयभूतमित्यर्थः, पुनः अप्रार्थिताभिमुखेन अप्रार्थितेनापि अभिमुखेन-अनुकूलेन, भगवता इष्टानिष्टप्रभुणा, देवेन भाग्येन, करुणया कृपया, कथमपि एकपदे सहसा, केनापि प्रकारेण, सम्पादितं साधितं, त्वदीयमुखपङ्कजावलोकनसुखं त्वदीयमुखकमलदर्शनानन्दः, परिहृतं परित्यक्तम् , इयन्तम् एतावन्तं कालम् , एतावान् , अयम् अनुपदमनुभूतः,क्लेशः दुःखम् , अङ्गीकृतः स्वीकृतः, इति इत्थम् , हरिवाहने उक्तवति सति, समरकेतुः, उत्थाय, कृतस्मितां कृतमन्दहासा, तां तिलकमञ्जरीम् , सादरम् आदरपूर्वकं, प्रणनाम प्रणतवान् । प्रणतोपविष्टं पूर्व प्रणतं पश्चादुपविष्ट, तं समरकेतुं, असौ तिलकमञ्जरी, सप्रेमबहमानं प्रेम्णा-स्नेहेन, बहुमानेन-प्रचुरादरेण च, सहितं यथा स्यात् तथा, अपश्यतु दृष्टवती, कीदृशेन केन किं कुर्वतीव ? प्रकटितसम्भ्रमारम्भसुविकसितपुटेन प्रकटितः-प्रकाशितः, सम्भ्रमारम्भः-त्वरोदयो येन तादृशं सुविकसितं-सुष्ठु विस्तृतं, पुटं-पुटाकारो यस्य तादृशेन, पुनः निश्चलपक्ष्मणा निश्चलं-निःस्पन्दं, पक्ष्म-रोमराजिर्यस्य तादृशेन, पुनः निस्तरङ्गतारकेण स्थिरकनीनिकेन, चक्षुषा, पिबन्तीव सौन्दर्यामृतरसमास्वादमानेव, पुनः आलपन्तीव प्रिय वदन्तीव, पुनः सविधे समीपे, समुपवेशयन्तीव सम्यगुपवेशयन्तीव [च]।
"Aho Shrutgyanam"